View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

1.44 बालकांड - चतुश्चत्वारिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे बालकांडम् ।
अथ चतुश्चत्वारिंशस्सर्गः ।

स गत्वा सागरं राजा गंगयाऽनुगतस्तदा ।
प्रविवेश तलं भूमेर्यत्र ते भस्मसात्कृताः ॥ 1 ॥

भस्मन्यथाऽप्लुते राम गंगायास्सलिलेन वै ।
सर्वलोकप्रभुर्ब्रह्मा राजानमिदमब्रवीत् ॥ 2 ॥

तारिता नरशार्दूल दिवं याताश्च देववत् ।
षष्ठिः पुत्रसहस्राणि सगरस्य महात्मनः ॥ 3 ॥

सागरस्य जलं लोके यावत्स्थास्यति पार्थिव ।
सगरस्यात्मजास्तावत्स्वर्गे स्थास्यंति देववत् ॥ 4 ॥

इयं च दुहिता ज्येष्ठा तव गंगा भविष्यति ।
त्वत्कृतेन च नाम्नाऽथ लोके स्थास्यति विश्रुता ॥ 5 ॥

गंगा त्रिपथगा राजन् दिव्या भागीरथीति च ।
त्रीन् पथो भावयंतीति ततस्त्रिपथगा स्मृता ॥ 6 ॥

पितामहानां सर्वेषां त्वमत्र मनुजाधिप ।
कुरुष्व सलिलं राजन् प्रतिज्ञामपवर्जय ॥ 7 ॥

पूर्वकेण हि ते राजंस्तेनातियशसा तदा ।
धर्मिणां प्रवरेणापि नैष प्राप्तो मनोरथः ॥ 8 ॥

तथैवांशुमता तात लोकेऽप्रतिमतेजसा ।
गंगां प्रार्थयतानेतुं प्रतिज्ञा नापवर्जिता ॥ 9 ॥

राजर्षिणा गुणवता महर्षिसमतेजसा ।
मत्तुल्यतपसा चैव क्षत्रधर्मस्थितेन च ॥ 10 ॥

दिलीपेन महाभाग तव पित्राऽति तेजसा ।
पुनर्न शंकिताऽनेतुं गंगां प्रार्थयताऽनघ ॥ 11 ॥

सा त्वया समनुक्रांता प्रतिज्ञा पुरुषर्षभ ।
प्राप्तोऽसि परमं लोके यशः परमसम्मतम् ॥ 12 ॥

यच्च गंगावतरणं त्वया कृतमरिंदम ।
अनेन च भवान् प्राप्तो धर्मस्यायतनं महत् ॥ 13 ॥

प्लावयस्व त्वमात्मानं नरोत्तम सदोचिते ।
सलिले पुरुषव्याघ्र शुचिः पुण्यफलो भव ॥ 14 ॥

पितामहानां सर्वेषां कुरुष्व सलिलक्रियाम् ।
स्वस्ति तेऽस्तु गमिष्यामि स्वं लोकं गम्यतां नृप ॥ 15 ॥

इत्येवमुक्त्वा देवेशः सर्वलोकपितामहः ।
यथाऽऽगतं तथाऽगच्छत् देवलोकं महायशाः ॥ 16 ॥

भगीरथोऽपि राजर्षिः कृत्वा सलिलमुत्तमम् ।
यथाक्रमं यथान्यायं सागराणां महायशाः ॥ 17 ॥

कृतोदकश्शुची राजा स्वपुरं प्रविवेश ह ।
समृद्धार्थो रघुश्रेष्ठ स्वराज्यं प्रशशास ह ॥ 18 ॥

प्रमुमोद ह लोकस्तं नृपमासाद्य राघव ।
नष्टशोकस्समृद्धार्थो बभूव विगतज्वरः ॥ 19 ॥

एष ते राम गंगाया विस्तरोऽभिहितो मया ।
स्वस्ति प्राप्नुहि भद्रं ते संध्याकालोऽतिवर्तते ॥ 20 ॥

धन्यं यशस्यमायुष्यं पुत्र्यं स्वर्ग्यमतीव च ।
यश्श्रावयति विप्रेषु क्षत्रियेष्वितरेषु च ॥ 21 ॥

प्रीयंते पितरस्तस्य प्रीयंते दैवतानि च ।
इदमाख्यानमव्यग्रो गंगावतरणं शुभम् ॥ 22 ॥

यश्शृणोति च काकुत्स्थ सर्वान् कामानवाप्नुयात् ।
सर्वे पापाः प्रणश्यंति आयुः कीर्तिश्च वर्धते ॥ 23 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकांडे चतुश्चत्वारिंशस्सर्गः ॥




Browse Related Categories: