View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

1.58 बालकांड - अष्टपंचाश सर्गः

श्रीमद्वाल्मीकीय रामायणे बालकांडम् ।
अथ अष्टपंचाशस्सर्गः ।

ततस्त्रिशंकोर्वचनं श्रुत्वा क्रोधसमन्वितम् ।
ऋषिपुत्रशतं राम राजानमिदमब्रवीत् ॥ 1 ॥

प्रत्याख्यातो हि दुर्बुद्धे गुरुणा सत्यवादिना ।
तं कथं समतिक्रम्य शाखांतरमुपेयिवान् ॥ 2 ॥

इक्ष्वाकूणां हि सर्वेषां पुरोधाः परमो गुरुः ।
न चातिक्रमितुं शक्यं वचनं सत्यवादिनः ॥ 3 ॥

अशक्यमिति चोवाच वसिष्ठो भगवानृषिः ।
तं वयं वै समाहर्तुं क्रतुं शक्ताःकथं तव ॥ 4 ॥

बालिशस्त्वं नरश्रेष्ठ गम्यतां स्वपुरं पुनः ।
याजने भगवांछक्तस्त्रैलोक्यस्यापि पार्थिव ॥ 5 ॥

अवमानं च तत्कर्तुं तस्य शक्ष्यामहे कथम् ।
तेषां तद्वचनं श्रुत्वा क्रोधपर्याकुलाक्षरम् ॥ 6 ॥

स राजा पुनरेवैतानिदं वचनमब्रवीत् ।
प्रत्याख्यातोऽस्मि गुरुणा गुरुपुत्रैस्तथैव च ॥ 7 ॥

अन्यां गतिं गमिष्यामि स्वस्ति वोऽस्तु तपोधनाः ।
ऋषिपुत्रास्तु तच्छ्रुत्वा वाक्यं घोराभिसंहितम् ॥ 8 ॥

शेपुः परमसंकृद्धाश्चंडालत्वं गमिष्यसि ।
एवमुक्त्वा महात्मनो विविशुस्ते स्वमाश्रमम् ॥ 9 ॥

अथ रात्र्यां व्यतीतायां राजा चंडालतां गतः ।
नीलवस्त्रधरो नीलः पुरुषो ध्वस्तमूर्धजः ॥ 10 ॥

चित्यमाल्यानुलेपश्च आयसाभरणोऽभवत् ।
तं दृष्टवा मंत्रिणस्सर्वे त्यज्य चंडालरूपिणम् ॥ 11 ॥

प्राद्रवन् सहिता राम पौरा येऽस्यानुगामिनः ।
एको हि राजा काकुत्स्थ जगाम परमात्मवान् ॥ 12 ॥

दह्यमानो दिवारात्रं विश्वामित्रं तपोनिधिम् ।
विश्वामित्रस्तु तं दृष्ट्वा राजानं विफलीकृतम् ।
चंडालरूपिणं राम मुनिः कारुण्यमागतः ॥ 13 ॥

कारुण्यात्स महातेजा वाक्यं परमधार्मिकः ।
इदं जगाद भद्रं ते राजानं घोररूपिणम् ॥ 14 ॥

किमागमनकार्यं ते राजपुत्र महाबल ।
अयोध्याधिपते वीर शापाच्चंडालतां गतः ॥ 15 ॥

अथ तद्वाक्यमाज्ञाय राजा चंडालतां गतः ।
अब्रवीत्प्रांजलिर्वाक्यं वाक्यज्ञो वाक्यकोविदम् ॥ 16 ॥

प्रत्याख्यातोऽस्मि गुरुणा गुरुपुत्रैस्तथैव च ।
अनवाप्यैव तं कामं मया प्राप्तो विपर्ययः ॥ 17 ॥

सशरीरो दिवं यायामिति मे सौम्यदर्शनम् ।
मया चेष्टं क्रतुशतं तच्च नाऽवाप्यते फलम् ॥ 18 ॥

अनृतं नोक्तपूर्वं मे न च वक्ष्ये कदाचन ।
कृच्छ्रेष्वपि गत स्सौम्य क्षत्रधर्मेण ते शपे ॥ 19 ॥

यज्ञैर्बहुविधैरिष्टं प्रजा धर्मेण पालिताः ॥ 20 ॥

गुरवश्च महात्मान श्शीलवृत्तेन तोषिताः ।
धर्मे प्रयतमानस्य यज्ञं चाहर्तुमिच्छतः ॥ 21 ॥

परितोषं न गच्छंति गुरवो मुनिपुंगव ।
दैवमेव परं मन्ये पौरुषं तु निरर्थकम् ॥ 22 ॥

दैवेनाक्रम्यते सर्वं दैवं हि परमा गतिः ।
तस्य मे परमार्तस्य प्रसादमभिकांक्षतः ॥ 23 ॥

कर्तुमर्हसि भद्रं ते दैवोपहतकर्मणः ।
नान्यां गतिं गमिष्यामि नान्यश्शरणमस्ति मे ॥ 24 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकांडे अष्टपंचाशस्सर्गः ॥




Browse Related Categories: