श्रीमद्वाल्मीकीय रामायणे बालकांडम् ।
अथ अष्टपंचाशस्सर्गः ।
ततस्त्रिशंकोर्वचनं श्रुत्वा क्रोधसमन्वितम् ।
ऋषिपुत्रशतं राम राजानमिदमब्रवीत् ॥ 1 ॥
प्रत्याख्यातो हि दुर्बुद्धे गुरुणा सत्यवादिना ।
तं कथं समतिक्रम्य शाखांतरमुपेयिवान् ॥ 2 ॥
इक्ष्वाकूणां हि सर्वेषां पुरोधाः परमो गुरुः ।
न चातिक्रमितुं शक्यं वचनं सत्यवादिनः ॥ 3 ॥
अशक्यमिति चोवाच वसिष्ठो भगवानृषिः ।
तं वयं वै समाहर्तुं क्रतुं शक्ताःकथं तव ॥ 4 ॥
बालिशस्त्वं नरश्रेष्ठ गम्यतां स्वपुरं पुनः ।
याजने भगवांछक्तस्त्रैलोक्यस्यापि पार्थिव ॥ 5 ॥
अवमानं च तत्कर्तुं तस्य शक्ष्यामहे कथम् ।
तेषां तद्वचनं श्रुत्वा क्रोधपर्याकुलाक्षरम् ॥ 6 ॥
स राजा पुनरेवैतानिदं वचनमब्रवीत् ।
प्रत्याख्यातोऽस्मि गुरुणा गुरुपुत्रैस्तथैव च ॥ 7 ॥
अन्यां गतिं गमिष्यामि स्वस्ति वोऽस्तु तपोधनाः ।
ऋषिपुत्रास्तु तच्छ्रुत्वा वाक्यं घोराभिसंहितम् ॥ 8 ॥
शेपुः परमसंकृद्धाश्चंडालत्वं गमिष्यसि ।
एवमुक्त्वा महात्मनो विविशुस्ते स्वमाश्रमम् ॥ 9 ॥
अथ रात्र्यां व्यतीतायां राजा चंडालतां गतः ।
नीलवस्त्रधरो नीलः पुरुषो ध्वस्तमूर्धजः ॥ 10 ॥
चित्यमाल्यानुलेपश्च आयसाभरणोऽभवत् ।
तं दृष्टवा मंत्रिणस्सर्वे त्यज्य चंडालरूपिणम् ॥ 11 ॥
प्राद्रवन् सहिता राम पौरा येऽस्यानुगामिनः ।
एको हि राजा काकुत्स्थ जगाम परमात्मवान् ॥ 12 ॥
दह्यमानो दिवारात्रं विश्वामित्रं तपोनिधिम् ।
विश्वामित्रस्तु तं दृष्ट्वा राजानं विफलीकृतम् ।
चंडालरूपिणं राम मुनिः कारुण्यमागतः ॥ 13 ॥
कारुण्यात्स महातेजा वाक्यं परमधार्मिकः ।
इदं जगाद भद्रं ते राजानं घोररूपिणम् ॥ 14 ॥
किमागमनकार्यं ते राजपुत्र महाबल ।
अयोध्याधिपते वीर शापाच्चंडालतां गतः ॥ 15 ॥
अथ तद्वाक्यमाज्ञाय राजा चंडालतां गतः ।
अब्रवीत्प्रांजलिर्वाक्यं वाक्यज्ञो वाक्यकोविदम् ॥ 16 ॥
प्रत्याख्यातोऽस्मि गुरुणा गुरुपुत्रैस्तथैव च ।
अनवाप्यैव तं कामं मया प्राप्तो विपर्ययः ॥ 17 ॥
सशरीरो दिवं यायामिति मे सौम्यदर्शनम् ।
मया चेष्टं क्रतुशतं तच्च नाऽवाप्यते फलम् ॥ 18 ॥
अनृतं नोक्तपूर्वं मे न च वक्ष्ये कदाचन ।
कृच्छ्रेष्वपि गत स्सौम्य क्षत्रधर्मेण ते शपे ॥ 19 ॥
यज्ञैर्बहुविधैरिष्टं प्रजा धर्मेण पालिताः ॥ 20 ॥
गुरवश्च महात्मान श्शीलवृत्तेन तोषिताः ।
धर्मे प्रयतमानस्य यज्ञं चाहर्तुमिच्छतः ॥ 21 ॥
परितोषं न गच्छंति गुरवो मुनिपुंगव ।
दैवमेव परं मन्ये पौरुषं तु निरर्थकम् ॥ 22 ॥
दैवेनाक्रम्यते सर्वं दैवं हि परमा गतिः ।
तस्य मे परमार्तस्य प्रसादमभिकांक्षतः ॥ 23 ॥
कर्तुमर्हसि भद्रं ते दैवोपहतकर्मणः ।
नान्यां गतिं गमिष्यामि नान्यश्शरणमस्ति मे ॥ 24 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकांडे अष्टपंचाशस्सर्गः ॥