View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

1.62 बालकांड - द्विषष्टितम सर्गः

श्रीमद्वाल्मीकीय रामायणे बालकांडम् ।
अथ द्विषष्टितमस्सर्गः ।

शुनश्शेफं नरश्रेष्ठ गृहीत्वा तु महायशाः ।
व्यश्राम्यत् पुष्करे राजा मध्याह्ने रघुनंदन ॥ 1 ॥

तस्य विश्रममाणस्य शुनश्शेफो महायशाः ।
पुष्करक्षेत्रमागम्य विश्वामित्रं ददर्श ह ॥ 2 ॥

तप्यंतमृषिभिस्सार्धं मातुलं परमातुरः ।
विवर्णवदनो दीनस्तृष्णया च श्रमेण च ॥ 3 ॥

पपातांके मुनेराशु वाक्यं चेदमुवाच ह ।
न मेऽस्ति माता न पिता ज्ञातयो बांधवाः कुतः ॥ 4 ॥

त्रातुमर्हसि मां सौम्य धर्मेण मुनिपुंगव ।
त्राता त्वं हि मुनिश्रेष्ठ सर्वेषां त्वं हि भावनः ॥ 5 ॥

राजा च कृतकार्यस्स्यादहं दीर्घायुरव्ययः ।
स्वर्गलोकमुपाश्नीयां तपस्तप्त्वाह्यनुत्तमम् ॥ 6 ॥

त्वं मे नाथो ह्यनाथस्य भव भव्येन चेतसा ।
पितेव पुत्रं धर्मात्मं स्त्रातुमर्हसि किल्बिषात् ॥ 7 ॥

तस्य तद्वचनं श्रुत्वा विश्वामित्रो महातपाः ।
सांत्वयित्वा बहुविधं पुत्रानिदमुवाच ह ॥ 8 ॥

यत्कृते पितरः पुत्रान् जनयंति शुभार्थिनः ।
परलोकहितार्थाय तस्य कालोऽयमागतः ॥ 9 ॥

अयं मुनिसुतो बालो मत्तश्शरणमिच्छति ।
अस्य जीवितमात्रेण प्रियं कुरुत पुत्रकाः ॥ 10 ॥

सर्वे सुकृतकर्माणस्सर्वे धर्मपरायणाः ।
पशुभूता नरेंद्रस्य तृप्तिमग्नेः प्रयच्छत ॥ 11 ॥

नाथवांश्च शुनश्शेफो यज्ञश्चाविघ्नितो भवेत् ।
देवतास्तर्पिताश्चस्युर्मम चापि कृतं वचः ॥ 12 ॥

मुनेस्तु वचनं श्रुत्वा मधुच्छंदादय स्सुताः ।
साभिमानं नरश्रेष्ठ सलीलमिदमब्रुवन् ॥ 13 ॥

कथमात्मसुतान् हित्वा त्रायसेऽन्यसुतं विभो ।
अकार्यमिव पश्याम श्श्वमांस इव भोजने ॥ 14 ॥

तेषां तद्वचनं श्रुत्वा पुत्राणां मुनिपुंगवः ।
क्रोधसंरक्तनयनो व्याहर्तुमुपचक्रमे ॥ 15 ॥

निस्साध्वसमिदं प्रोक्तं धर्मादपि विगर्हितम् ।
अतिक्रम्य तु मद्वाक्यं दारुणं रोमहर्षणम् ॥ 16 ॥

श्वमांसभोजिनस्सर्वे वासिष्ठा इव जातिषु ।
पूर्णं वर्षसहस्रं तु पृथिव्यामनुवत्स्यथ ॥ 17 ॥

कृत्वा शापसमायुक्तान् पुत्रान् मुनिवरस्तथा ।
शुनश्शेफमुवाचार्तं कृत्वा रक्षां निरामयम् ॥ 18 ॥

पवित्रपाशैरासक्तो रक्तमाल्यानुलेपनः ।
वैष्णवं यूपमासाद्य वाग्भिरग्निमुदाहर ॥ 19 ॥

इमे तु गाथे द्वे दिव्ये गायेथा मुनिपुत्रक ।
अंबरीषस्य यज्ञेऽस्मिंस्तत स्सिद्धिमवाप्स्यसि ॥ 20 ॥

शुनश्शेफो गृहीत्वा ते द्वे गाथे सुसमाहितः ।
त्वरया राजसिंहं तमंबरीषमुवाच ह ॥ 21 ॥

राजसिंह महासत्त्व शीघ्रं गच्छावहे सदः ।
निर्वर्तयस्व राजेंद्र दीक्षां च समुपाविश ॥ 22 ॥

तद्वाक्यमृषिपुत्रस्य श्रुत्वा हर्षसमुत्सुकः ।
जगाम नृपति श्शीघ्रं यज्ञवाटमतंद्रितः ॥ 23 ॥

सदस्यानुमते राजा पवित्रकृतलक्षणम् ।
पशुं रक्तांबरं कृत्वा यूपे तं समबंधयत् ॥ 24 ॥

सबद्धो वाग्भिरग्य्राभिरभितुष्टाव वै सुरौ ।
इंद्रमिंद्रानुजं चैव यथावन्मुनिपुत्रकः ॥ 25 ॥

ततः प्रीत स्सहस्राक्षो रहस्यस्तुतितर्पितः ।
दीर्घमायुस्तदा प्रादाच्छुनश्शेफाय राघव ॥ 26 ॥

स च राजा नरश्रेष्ठ यज्ञस्य च समाप्तवान् ।
फलं बहुगुणं राम सहस्राक्षप्रसादजम् ॥ 27 ॥

विश्वामित्रो ऽपि धर्मात्मा भूयस्तेपे महातपाः ।
पुष्करेषु नरश्रेष्ठ दशवर्षशतानि च ॥ 28 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकांडे द्विषष्टितमस्सर्गः ॥




Browse Related Categories: