श्रीमद्वाल्मीकीय रामायणे बालकांडम् ।
अथ एकोनसप्ततितमस्सर्गः ।
ततो रात्र्यां व्यतीतायां सोपाध्यायः सबांधवः ।
राजा दशरथो हृष्ट स्सुमंत्रमिदमब्रवीत् ॥ 1 ॥
अद्य सर्वे धनाध्यक्षा धनमादाय पुष्कलम् ।
व्रजंत्वग्रे सुविहिता नानारत्नसमन्विताः ॥ 2 ॥
चतुरंगबलं चापि शीघ्रं निर्यातु सर्वशः ।
ममज्ञासमकालं च यानयुग्यमनुत्तमम् ॥ 3 ॥
वसिष्ठो वामदेवश्च जाबालिरथ काश्यपः ।
मार्कंडेयश्च दीर्घायुःऋषिः कात्यायनस्तथा ॥ 4 ॥
एते द्विजाः प्रयांत्वग्रे स्यंदनं योजयस्व मे ।
यथा कालात्ययो न स्या द्दूता हि त्वरयंति माम् ॥ 5 ॥
वचनात्तु नरेंद्रस्य सा सेना चतुरंगिणी ।
राजानमृषिभि स्सार्धं व्रजंतं पृष्ठतोऽन्वगात् ॥ 6 ॥
गत्वा चतुरहं मार्गं विदेहानभ्युपेयिवान् ।
राजा तु जनक श्श्रीमान् श्श्रुत्वा पूजामकल्पयत् ॥ 7 ॥
ततो राजानमासाद्य वृद्धं दशरथं नृपम् ।
जनको मुदितो राजा हर्षं च परमं ययौ ॥ 8 ॥
उवाच च नरश्रेष्ठो नरश्रेष्ठं मुदाऽन्वितः ।
स्वागतं ते महाराज दिष्ट्या प्राप्तोऽसि राघव ॥ 9 ॥
पुत्रयोरुभयोः प्रीतिं लप्स्यसे वीर्यनिर्जिताम् ।
दिष्ट्या प्राप्तो महातेजा वसिष्ठो भगवानृषिः ॥ 10 ॥
सह सर्वैर्द्विजश्रेष्ठैर्देवैरिव शतक्रतुः ।
दिष्ट्या मे निर्जिता विघ्ना दिष्ट्या मे पूजितं कुलम् ॥ 11 ॥
राघवै स्सह संबंधाद्वीर्यश्रेष्ठैर्महात्मभिः ।
श्वः प्रभाते नरेंद्रेंद्र निर्वर्तयितुमर्हसि ॥ 12 ॥
यज्ञस्यांते नरश्रेष्ठ विवाहमृषिसम्मतम् ।
तस्य तद्वचनं श्रुत्वा ऋषिमध्ये नराधिपः ॥ 13 ॥
वाक्यं वाक्यविदां श्रेष्ठः प्रत्युवाच महीपतिम् ।
प्रतिग्रहो दातृवश श्श्रृतमेतन्मया पुरा ॥ 14 ॥
यथा वक्ष्यसि धर्मज्ञ तत्करिष्यामहे वयम् ।
धर्मिष्ठं च यशस्यं च वचनं सत्यवादिनः ॥ 15 ॥
श्रुत्वा विदेहाधिपतिः परं विस्मयमागतः ।
तत स्सर्वे मुनिगणाः परस्परसमागमे ॥ 16 ॥
हर्षेण महता युक्तास्तां निशामवसन् सुखम् ।
राजा च राघवौ पुत्रौ निशाम्य परिहर्षितः ॥ 17 ॥
उवास परमप्रीतो जनकेन सुपूजितः ।
जनकोऽपि महातेजाः क्रियां धर्मेण तत्त्ववित् ॥ 18 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकांडे एकोनसप्ततितमस्सर्गः ॥