View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

1.77 बालकांड - सप्तसप्ततितम सर्गः

श्रीमद्वाल्मीकीय रामायणे बालकांडम् ।
अथ सप्तसप्ततितमस्सर्गः ।

गते रामे प्रशांतात्मा रामो दाशरथिर्धनुः ।
वरुणायाप्रमेयाय ददौ हस्ते ससायकम् ॥ 1 ॥

अभिवाद्य ततो रामो वसिष्ठप्रमुखानृषीन् ।
पितरं विह्वलं दृष्ट्वा प्रोवाच रघुनंदनः ॥ 2 ॥

जामदग्न्यो गतो रामः प्रयातु चतुरंगिणी ।
अयोध्याभिमुखी सेना त्वया नाथेन पालिता ॥ 3 ॥

संदिशस्व महाराज सेनां त्वच्छासने स्थिताम् ।
शासनं कांक्षते सेना चातकालिर्जलं यथा ॥ 4 ॥

रामस्य वचनं श्रुत्वा राजा दशरथ स्सुतम् ।
बाहुभ्यां संपरिष्वज्य मूर्ध्नि चाघ्राय राघवम् ॥ 5 ॥

गतो राम इति श्रुत्वा हृष्टः प्रमुदितो नृपः ।
पुनर्जातं तदा मेने पुत्रमात्मानमेव च ॥ 6 ॥

चोदयामास तां सेनां जगामाशु ततः पुरीम् ।
पताकाध्वजिनीं रम्यां तूर्योद्घुष्टनिनादिताम् ॥ 7 ॥

सिक्तराज पथां रम्यां प्रकीर्णकुसुमोत्कराम् ।
राजप्रवेशसुमुखैः पौरैर्मंगलवादिभिः ॥ 8 ॥

संपूर्णां प्राविशद्राजा जनौघैस्समलंकृताम् ।
पौरैः प्रत्युद्गतो दूरं द्विजैश्च पुरवासिभिः ।
पुत्रैरनुगत श्श्रीमान् श्रीमद्भिश्च महायशाः ॥ 9 ॥

प्रविवेश गृहं राजा हिमवत्सदृशं पुनः ।
ननंद सजनो राजा गृहे कामै स्सुपूजितः ॥ 10 ॥

कौसल्या च सुमित्रा च कैकेयी च सुमध्यमा ।
वधूप्रतिग्रहे युक्ता याश्चान्या राजयोषितः ॥ 11 ॥

ततस्सीतां महाभागामूर्मिलां च यशस्विनीम् ।
कुशध्वजसुते चोभे जगृहुर्नृपपत्नयः ॥ 12 ॥

मंगलालंभनैश्चापि शोभिताः क्षौमवाससः ।
देवतायतनान्याशु सर्वास्ताः प्रत्यपूजयन् ॥ 13 ॥

अभिवाद्याभिवाद्यांश्च सर्वा राजसुतास्तदा ।
स्वं स्वं गृहमथासाद्य कुबेरभवनोपमम् ॥ 14 ॥

गोभिर्धनैश्च धान्यैश्च तर्पयित्वा द्विजोत्तमान् ।
रेमिरे मुदिताः सर्वा भर्तृभिः सहिता रहः ॥ 15 ॥

कुमाराश्च महात्मानो वीर्येणाप्रतिमा भुवि ।
कृतदाराः कृतास्त्राश्च सधनाः ससुहृज्जनाः ॥ 16 ॥

शुश्रूषमाणाः पितरं वर्तयंति नरर्षभाः ।
कस्यचित्त्वथ कालस्य राजा दशरथः सुतम् ॥ 17 ॥

भरतं कैकयीपुत्र मब्रवीद्रघुनंदनः ।
अयं केकयराजस्य पुत्रो वसति पुत्रक ॥ 18 ॥

त्वां नेतुमागतो वीर युधाजिन्मातुलस्तव ।
प्रार्थितस्तेन धर्मज्ञ मिधिलायामहं तथा ॥ 19 ॥

ऋषिमध्ये तु तस्य त्वं प्रीतिं कर्तुमिहार्हसि ।
श्रुत्वा दशरथस्यैतद्भरतः कैकयीसुतः ॥ 20 ॥

अभिवाद्य गुरुं रामं परिष्वज्य च लक्ष्मणम् ।
गमनायाभिचक्राम शत्रुघ्नसहितस्तदा ॥ 21 ॥

आपृच्छ्य पितरं शूरो रामं चाक्लिष्टकारिणम् ।
मातृश्चापि नरश्रेष्ठ श्शत्रुघ्नसहितो ययौ ॥ 22 ॥

गते तु भरते रामो लक्ष्मणश्च महाबलः ।
पितरं देवसंंकाशं पूजयामासतुस्तदा ॥ 23 ॥

पितुराज्ञां पुरस्कृत्य पौरकार्याणि सर्वशः ।
चकार रामो धर्मात्मा प्रियाणि च हितानि च ॥ 24 ॥

मातृभ्यो मातृकार्याणि कृत्वा परमयंत्रितः ।
गुरूणां गुरुकार्याणि काले कालेऽन्ववैक्षत ॥ 25 ॥

एवं दशरथः प्रीतो ब्राह्मणा नैगमास्तथा ।
रामस्य शीलवृत्तेन सर्वे विषयवासिनः ॥ 26 ॥

तेषामतियशा लोके राम स्सत्यपराक्रमः ।
स्वयंभूरिव भूतानां बभूव गुणवत्तरः ॥ 27 ॥

रामस्तु सीतया सार्धं विजहार बहूनृतून् ।
मनस्स्वी तद्गतस्तस्याः नित्यं हृदि समर्पितः ॥ 28 ॥

प्रिया तु सीता रामस्य दाराः पितृकृता इति ।
गुणाद्रूपगुणाच्चापि प्रीतिर्भूयोऽभ्यवर्धत ॥ 29 ॥

तस्याश्च भर्ता द्विगुणं हृदये परिवर्तते ।
अंतर्जातमपि व्यक्तमाख्याति हृदयं हृदा ॥ 30 ॥

तस्य भूयो विशेषेण मैथिली जनकात्मजा ।
देवताभि स्समा रूपे सीता श्रीरिव रूपिणी ॥ 31 ॥

तया स राजर्षिसुतोऽभिरामया समेयिवानुत्तमराजकन्यया ।
अतीव राम श्शुशुभेऽभिरामया ।
विभु श्श्रिया विष्णुरिवामरेश्वरः ॥ 32 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकांडे सप्तसप्ततितमस्सर्गः ॥




Browse Related Categories: