View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

2.102 अयोध्याकांड - द्वाधिकशततम सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ द्वाधिकशततमस्सर्गः ।

तां श्रुत्वा करुणां वाचं पितुर्मरणसंहिताम् ।
राघवो भरते नोक्तां बभूव गतचेतनः ॥ 1 ॥

तं तु वज्रमिवोत्सृष्टमाहवे दानवारिणा वाग्वज्रंभरते नोक्त ममनोज्ञं परंतपः ॥ 2 ॥

प्रगृह्य रामो बाहू वैपुष्पिताग्रो यथा द्रुमः ।
वने परशुना कृत्तस्तथा भुवि पपात ह ॥ 3 ॥

तथा हि पतितं रामं जगत्यां जगतीपतिम् ।
कूलघातपरिश्रांतं प्रसुप्तमिव कुंजरम् ॥ 4 ॥

भ्रातरस्ते महेष्वासं सर्वतश्शोककर्शितम् ।
रुदंतस्सह वैदेह्या सिषिचुस्सलिलेन वै ॥ 5 ॥

स तु संज्ञां पुनर्लब्ध्वा नेत्राभ्यामस्रमुत्सृजन् ।
उपाक्रामत काकुत्स्थ कृपणं बहु भाषितुम् ॥ 6 ॥

स रामस्स्वर्गतं श्रुत्वा पितरं पृथिवीपतिम् ।
उवाच भरतं वाक्यं धर्मात्मा धर्मसंहितम् ॥ 7 ॥

किं करिष्याम्ययोध्यायां ताते दिष्टां गतिं गते ।
कस्तां राजवराध्दीनामयोध्यां पालयिष्यति ॥ 8 ॥

किं नु तस्य मया कार्यं दुर्जातेन महात्मनः ।
यो मृतो मम शोकेन मया चापि न संस्कृतः ॥ 9 ॥

अहो भरत सिद्धार्थो येन राजा त्वयाऽनघ ।
शत्रुघ्नेन च सर्वेषु प्रेतकृत्येषु सत्कृतः ॥ 10 ॥

निष्प्रधानामनेकाग्रां नरेंद्रेण विनाकृताम् ।
निवृत्तवनवासोऽपि नायोध्यां गंतु मुत्सहे ॥ 11 ॥

समाप्तवनवासं मामयोध्यायां परंतप ।
कोऽनु शासिष्यति पुनस्ताते लोकांतरं गते ॥ 12 ॥

पुरा प्रेक्ष्य सुवृत्तं मां पिता यान्याह सांत्वयन् ।
वाक्यानि तानि श्रोष्यामि कुतश्श्रोत्रसुखान्यहम् ॥ 13 ॥

एवमुक्त्वा स भरतं भार्यामभ्येत्य राघवः ।
उवाच शोकसंतप्तः पूर्णचंद्रनिभाननाम् ॥ 14 ॥

सीते मृतस्ते श्वशुरः पित्रा हीनोऽसि लक्ष्मण ।
भरतो दुःखमाचष्टे स्वर्गतं पृथिवीपतिम् ॥ 15 ॥

ततो बहुगुणं तेषां बाष्पं नेत्रेष्वजायत ।
तथा ब्रुवति काकुत्स्थे कुमाराणां यशस्विनाम् ॥ 16 ॥

ततस्ते भ्रातर स्रव्रे भृशमाश्वास्य दुःखितम् ।
अब्रुवन् जगतीभर्तुः क्रियतामुदकं पितुः ॥ 17 ॥

सा सीता स्वर्गतं श्रुत्वा श्वशुरं तं महानृपम् ।
नेत्राभ्यामश्रुपूर्णाभ्या शशाकेक्षितुं प्रियम् ॥ 18 ॥

सांत्वयित्वा तु तां रामो रुदंतीं जनकात्मजाम् ।
उवाच लक्ष्मणं तत्र दुःखितो दुःखितं वचः ॥ 19 ॥

आनयेंगुदिपिण्याकं चीरमाहर चोत्तरम् ।
जलक्रियार्थं तातस्य गमिष्यामि महात्मनः ॥ 20 ॥

सीता पुरस्ताद्व्रजतु त्वमेनामभितो व्रज ।
अहं पश्चाद्गमिष्यामि गतिर्ह्येषा सुदारुणा ॥ 21 ॥

ततो नित्यानुगस्तेषां विदितात्मा महामतिः ।
मृदुर्दांतश्च कांतश्च रामे च दृढभक्तिमान् ॥ 22 ॥

सुमंत्र स्तैर्नृपसुतैस्सार्धमाश्वस्य राघवम् ।
अवातारयदालंब्य नदीं मंदाकिनीं शिवाम् ॥ 23 ॥

ततो नित्यानुगस्तेषां विदितात्मा महामतिः ।
मृदुर्दांतश्च शांतश्च रामे च दृढभक्तिमान् ॥ 24 ॥

सुमंत्रस्तैर्नृपसुतैः सार्धमाश्वास्य राघवम् ।
अवातारयदालंब्य नदीं मंदाकिनीं शिवाम् ॥ 25 ॥

ते सुतीर्थां ततः कृच्छ्रादुपागम्य यशस्विनः ।
नदीं मंदाकिनीं रम्यां सदा पुष्पितकाननाम् ॥ 26 ॥

शीघ्रस्रोतसमासाद्य तीर्थं शिवमकर्दमम् ।
सिषिचु स्तूदकं राज्ञे तत एतद् भवत्विति ॥ 27 ॥

ते सुतीर्थां ततः कृच्छ्रादुपागम्य यशस्विनः ।
नदीं मंदाकिनीं रम्यां सदा पुष्पितकाननाम् ॥ 28 ॥

शीघ्रस्रोतसमासाद्य तीर्थं शिवमकर्दमम् ।
सिषिचु स्तूदकं राज्ञे तातैतत्ते भवत्विति ॥ 29 ॥

प्रगृह्य च महीपालो जलपूरितमंजलिम् ।
दिशं याम्यामभिमुखो रुदन्वचनमब्रवीत् ॥ 30 ॥

एतत्ते राजशार्दूल विमलं तोयमक्षयम् ।
पितृलोकगत स्याद्य मद्दत्तमुपतिष्ठतु ॥ 31 ॥

ततो मंदाकिनीतीरात्प्रत्युत्तीर्य स राघवः ।
पितुश्चकार तेजस्वी निर्वापं भ्रातृभि सह ॥ 32 ॥

ऐंगुदं बदरीमिश्रं पिण्याकं दर्भसंस्तरे ।
न्यस्य रामस्सदुःखार्तो रुदन्वचनमब्रवीत् ॥ 33 ॥

इदं भुंक्ष्वमहाराज प्रीतो यदशना वयम् ।
यदन्नः पुरुषो भवति तदन्ना स्तस्य देवताः ॥ 34 ॥

तत स्तेनैव मार्गेण प्रत्युत्तीर्य सरित्तटात् ।
आरुरोह नरव्याघ्रो रम्यसानुं महीधरम् ॥ 35 ॥

ततः पर्णकुटीद्वारमासाद्य जगतीपतिः ।
परिजग्राह बाहुभ्यामुभौ भरतलक्ष्मणौ ॥ 36 ॥

तेषां तु रुदतां शब्दात् प्रतिशब्दोऽभवद् गिरौ ।
भ्रातॄणां सह वैदेह्या सिंहानां नर्दतामिव ॥ 37 ॥

महाबलानां रुदतां कुर्वतामुदकं पितुः ।
विज्ञाय तुमुलं शब्दं त्रस्ता भरत सैनिकाः ॥ 38 ॥

अब्रुवंश्चापि रामेण भरत संगतो ध्रुवम् ।
तेषामेव महान् शब्दः शोचतां पितरं मृतम् ॥ 39 ॥

अथ वासान्परित्यज्य तं सर्वेऽभिमुखास्स्वनम् ।
अप्येकमनसो जग्मुर्यथास्थानं प्रधाविताः ॥ 40 ॥

हयैरन्ये गजैरन्ये रथैरन्ये स्वलंकृतैः ।
सुकुमारा स्तथैवान्ये पद्भिरेव नरा ययुः ॥ 41 ॥

अचिरप्रोषितं रामं चिरविप्रोषितं यथा ।
द्रष्टुकामो जनः सर्वो जगाम सहसाऽऽश्रमम् ॥ 42 ॥

भ्रातृणां त्वरितास्ते तु द्रष्टुकामा समागमम् ।
ययुर्बहुविधैर्यानैः खुरनेमिस्वनाकुलैः ॥ 43 ॥

सा भूमिर्बहुभिर्यानैः रथनेमिसमाहता ।
मुमोच तुमुलं शब्दं द्यौरिवाभ्रसमागमे ॥ 44 ॥

तेन वित्रासिता नागाः करेणुपरिवारिताः ।
आवासयंतो गंधेन जग्मुरन्यद्वनं ततः ॥ 45 ॥

वराह वृकसंघाश्च महिषाः सृमरास्तथा ।
व्याघ्रगोकर्णगवया वित्रेसुः पृषतै सह ॥ 46 ॥

रथांगसाह्वा नत्यूहा हंसाः कारंडवाः परे ।
तथा पुंस्कोकिलाः क्रौंचा विसंज्ञा भेजिरे दिशः ॥ 47 ॥

तेन शब्देन वित्रस्तैराकाशं पक्षिभिर्वृतम् ।
मनुष्यैरावृता भूमिरुभयं प्रबभौ तदा ॥ 48 ॥

ततस्तं पुरषव्याघ्रं यशस्विनमकल्पषम् ।
आसीनं स्थंडिले रामं ददर्श सहसा जनः ॥ 49 ॥

विगर्हमाणः कैकेयीं मंथरासहितामपि ।
अभिगम्य जनो रामं बाष्पपूर्णमुखोऽभवत् ॥ 50 ॥

तान्नरान्बाष्पपूर्णाक्षान्समीक्ष्याथ सुदुःखितान् ।
पर्यष्वजत धर्मज्ञः पितृवन्मातृवच्च सः ॥ 51 ॥

स तत्र कांश्चित्परिषस्वजे नरान्नरास्तु केचित्तु तमभ्यवादयन् ।
चकार सर्वान्सवयस्यबांधवान्यथार्ह मासाद्य तदा नृपात्मजः ॥ 52 ॥

स तत्र तेषां रुदतां महात्मनां भुवं च खं चानुनिनादयन्स्वनः ।
गुहा गिरीणां च दिशश्च संततं मृदंगघोषप्रतिमः प्रशुश्रुवे ॥ 53 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे द्वाधिकशततमस्सर्गः ॥




Browse Related Categories: