View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

2.28 अयोध्याकांड - अष्टाविंश सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ अष्टाविंशस्सर्गः ।

स एवं ब्रुवतीं सीतां धर्मज्ञो धर्मवत्सलः ।
न नेतुं कुरुते बुद्धिं वने दुःखानि चिंतयन् ॥ 1 ॥

सांत्वयित्वा पुनस्तां तु बाष्पदूषितलोचनाम् ।
निवर्तनार्थे धर्मात्मा वाक्यमेतदुवाच ह ॥ 2 ॥

सीते महाकुलीनाऽसि धर्मे च निरता सदा ।
इहाऽचर स्वधर्मं त्वं मे यथा मनसस्सुखम् ॥ 3 ॥

सीते यथा त्वां वक्ष्यामि तथा कार्यं त्वयाऽबले ।
वने हि बहवो दोषा वदतस्तान्निबोध मे ॥ 4 ॥

सीते विमुच्यतामेषा वनवासकृता मतिः ।
बहुदोषं हि कांतारं वनमित्यभिधीयते ॥ 5 ॥

हितबुद्ध्या खलु वचो मयैतदभिधीयते ।
सदा सुखं न जानामि दुःखमेव सदा वनम् ॥ 6 ॥

गिरिनिर्झरसंभूता गिरिकंदर वासिनाम् ।
सिंहानां निनदा दुःखा श्श्रोतुं दुःखमतो वनम् ॥ 7 ॥

क्रीडमानाश्च विस्रब्धा मत्ता श्शून्ये महामृगाः ।
दृष्ट्वा समभिवर्तंते सीते दुःखमतो वनम् ॥ 8 ॥

सग्राहा स्सरितश्चैव पंकवत्यस्सु दुस्तराः ।
मत्तैरपि गजैर्नित्यमतो दुःखतरं वनम् ॥ 9 ॥

लताकंटकसंकीर्णाः कृकवाकूपनादिताः ।
निरपाश्च सुदुर्गाश्च मार्गा दुःखमतो वनम् ॥ 10 ॥

सुप्यते पर्णशय्यासु स्वयं भग्नासु भूतले ।
रात्रिषु श्रमखिन्नेन तस्माद्दुःखतरं वनम् ॥ 11 ॥

अहोरात्रं च संतोषः कर्तव्यो नियतात्मना ।
फलैर्वृक्षावपतितै स्सीते दुःखमतो वनम् ॥ 12 ॥

उपवासश्च कर्तव्यो यथा प्राणेन मैथिलि ।
जटाभारश्च कर्तव्यो वल्कलांबरधारिणा ॥ 13 ॥

देवतानां पित्रूणां कर्तव्यं विधिपूर्वकम् ।
प्राप्तानामतिथीनां च नित्यशः प्रतिपूजनम् ॥ 14 ॥

कार्यस्त्रिरभिषेकश्च काले काले च नित्यशः ।
चरता नियमेनैव तस्माद्धुःखतरं वनम् ॥ 15 ॥

उपहारश्च कर्तव्यः कुसुमै स्स्वयमाहृतैः ।
आर्षेण विधिना वेद्यां बाले दुःखमतो वनम् ॥ 16 ॥

यथालब्धेन कर्तव्यः संतोषस्तेन मैथिलि ।
यताहारैर्वनचरै र्नित्यं दुःखमतो वनम् ॥ 17 ॥

अतीव वातास्तिमिरं बुभुक्षा चात्र नित्यशः ।
भयानि च महांत्यत्र ततो दुःखतरं वनम् ॥ 18 ॥

सरीसृपाश्च बहवो बहुरूपाश्च भामिनि ।
चरंति पृथिवीं दर्पात्ततो दुःखतरं वनम् ॥ 19 ॥

नदी निलयना स्सर्पा नदीकुटिलगामिनः ।
तिषठंत्यावृत्य पंथानं ततो दुःखतरं वनम् ॥ 20 ॥

पतंगा वृश्चिकाः कीटा दंशाश्च मशकै स्सह ।
बाधंते नित्यमबले सर्वं दुःखमतो वनम् ॥ 21 ॥

द्रुमाः कंटकिनश्चैव कुशाः काशाश्च भामिनि ।
वने व्याकुलशाखाग्रास्तेन दुःखतरं वनम् ॥ 22 ॥

कायक्लेशाश्च बहवो भयानि विविधानि च ।
अरण्यवासे वसतो दुःखमेव ततो वनम् ॥ 23 ॥

क्रोधलोभौ विमोक्तव्यौ कर्तव्या तपसे मतिः ।
न भेतव्यं च भेतव्ये नित्यं दुःखमतो वनम् ॥ 24 ॥

तदलं ते वनं गत्वा क्षमं न हि वनं तव ।
विमृशन्निह पश्यामि बहुदोषतरं वनम् ॥ 25 ॥

वनंतु नेतुं न कृता मतिस्तदा बभूव रामेण यदा महात्मना ।
न तस्य सीता वचनं चकार त त्ततोऽब्रवीद्राममिदं सुदुःखिता ॥ 26 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे अष्टाविंशस्सर्गः ॥




Browse Related Categories: