View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

2.49 अयोध्याकांड - एकोनपंचाश सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ एकोनपंचाशस्सर्गः ।

रामोऽपि रात्रिशेषेण तेनैव महदंतरम् ।
जगाम पुरुषव्याघ्रः पितुराज्ञामनुस्मरन् ॥ 1 ॥

तथैव गच्छतस्तस्य व्यपायाद्रजनी शिवा ।
उपास्य शिवां संध्यां विषयांतं व्यगाहत ॥ 2 ॥

ग्रामान् विकृष्टसीमांतान् पुष्पितानि वनानि च ।
पश्यन्नतिययौ शीघ्रं शनैरिव हयोत्तमैः ॥ 3 ॥

शृण्वन् वचो मनुष्याणां ग्रामसंवासवासिनाम् ।
राजानं धिग्दशरथं कामस्य वशमागतम् ॥ 4 ॥

हा नृशंसाद्य कैकेयी पापा पापानुबंधिनी ।
तीक्ष्णा संभिन्नमर्यादा तीक्ष्णकर्मणि वर्तते ॥ 5 ॥

या पुत्रमीदृशं राज्ञः प्रवासयति धार्मिकम् ।
वनवासे महाप्राज्ञं सानुक्रोशं जितेंद्रियम् ॥ 6 ॥

कथं नाम महाभागा सीता जनकनंदिनी ।
सदा सुखेष्वभिरता दुःखान्यनुभविष्यति ॥ 7 ॥

अहो दशरथो राजा निस्नेहः स्वसुतं प्रियम् ।
प्रजानामनघं रामं परित्यक्तुमिहेच्छति ॥ 8 ॥

एता वाचो मनुष्याणां ग्रामसंवासवासिनाम् ।
शृण्वन्नतिययौ वीरः कोसलान् कोसलेश्वरः ॥ 9 ॥

ततो वेदश्रुतिं नाम शिववारिवहां नदीम् ।
उत्तीर्याभिमुखः प्रायादगस्त्याध्युषितां दिशम् ॥ 10 ॥

गत्वा तु सुचिरं कालं ततः शीतजलां नदीम् ।
गोमतीं गोयुतानूपामतरत्सागरंगमाम् ॥ 11 ॥

गोमतीं चाप्यतिक्रम्य राघवः शीघ्रगैर्हयैः ।
मयूरहंसाभिरुतां ततार स्यंदिकां नदीम् ॥ 12 ॥

स महीं मनुना राज्ञा दत्तामिक्ष्वाकवे पुरा ।
स्फीतां राष्ट्रावृतां रामो वैदेहीमन्वदर्शयत् ॥ 13 ॥

कदाऽहं पुनरागम्य सरय्वा पुष्पिते वने ।
मृगयां पर्यटिष्यामि मात्रा पित्रा च संगतः ॥ 14 ॥

नात्यर्थमभिकांक्षामि मृगयां सरयूवने ।
रतिर्ह्येषातुला लोके राजर्षिगणसम्मता ॥ 15 ॥

राजर्षीणां हि लोकेऽस्मिन् रत्यर्थं मृगया वने ।
काले कृतां तां मनुजैर्घन्विनामभिकांक्षिताम् ॥ 16 ॥

स तमध्वानमैक्ष्वाकस्सूतं मधुरया गिरा ।
तं तमर्थमभिप्रेत्य ययौ वाक्यमुदीरयन् ॥ 17 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे एकोनपंचाशस्सर्गः ॥




Browse Related Categories: