View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

2.60 अयोध्याकांड - षष्टितम सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ षष्टितमस्सर्गः ।

ततो भूतोपसृष्टेव वेपमाना पुनः पुनः ।
धरण्यां गतसत्त्वेव कौसल्या सूतमब्रवीत् ॥ 1 ॥

नय मां यत्र काकुत्स्थस्सीता यत्र च लक्ष्मणः ।
तान्विना क्षणमप्यत्र जीवितुं नोत्सहेह्यहम् ॥ 2 ॥

निवर्तय रथं शीघ्रं दंडकान्नय मामपि ।
अथ तान्नानुगच्छामि गमिष्यामि यमक्षयम् ॥ 3 ॥

बाष्पवेगोपहतया स वाचा सज्जमानया ।
इदमाश्वासयंदेवीं सूतः प्रांजलिरब्रवीत् ॥ 4 ॥

त्यज शोकं च मोहं च संभ्रमं दुःखजं तथा ।
व्यवधूय च संतापं वने वत्स्यति राघवः ॥ 5 ॥

लक्ष्मणश्चापि रामस्य पादौ परिचरन्वने ।
आराधयति धर्मज्ञः परलोकं जितेंद्रियः ॥ 6 ॥

विजनेऽपि वने सीता वासं प्राप्य गृहेष्विव ।
विस्रंभं लभतेऽभीता रामे सन्न्यस्तमानसा ॥ 7 ॥

नास्या दैन्यं कृतं किंचित्सुसूक्ष्ममपि लक्ष्यते ।
उचितेव प्रवासानां वैदेही प्रतिभाति मा ॥ 8 ॥

नगरोपवनं गत्वा यथा स्मरमते पुरा ।
तथैव रमते सीता निर्जनेषु वनेष्वपि ॥ 9 ॥

बालेव रमते सीताऽबालचंद्रनिभानना ।
रामा रामे ह्यधीनात्मा विजनेऽपि वने सती ॥ 10 ॥

तद्गतं हृदयं ह्यस्यास्तदधीनं च जीवितम् ।
अयोध्यापि भवेऽत्तस्या रामहीना तदा वनम् ॥ 11 ॥

परिपृच्छति वैदेही ग्रामांश्च नगराणि च ।
गतिं दृष्ट्वा नदीनां च पादपान्विविधानपि ॥ 12 ॥

रामं हि लक्ष्मणं वापि पृष्ट्वा जानाति जानकी ।
अयोध्या क्रोशमात्रे तु विहारमिव संश्रिता ॥ 13 ॥

इदमेव स्मराम्यस्यास्सहसैवोपजल्पितम् ।
कैकेयी संश्रितं वाक्यं नेदानीं प्रतिभाति मा ॥ 14 ॥

ध्वंसयित्वा तु तद्वाक्यं प्रमादात्पर्युपत्स्थितम् ।
ह्लादनं वचनं सूतो देव्या मधुरमब्रवीत् ॥ 15 ॥

अध्वना वातवेगेन संभ्रमेणाऽऽतपेन च ।
न विगच्छति वैदेह्याश्चंद्रांशु सदृशी प्रभा ॥ 16 ॥

सदृशं शतपत्रस्य पूर्णचंद्रोपमप्रभम् ।
वदनं तद्वदान्याया वैदेह्या न विकंपते ॥ 17 ॥

अलक्तरसरक्ताभावलक्तरसवर्जितौ ।
अद्यापि चरणौ तस्याः पद्मकोशसमप्रभौ ॥ 18 ॥

नूपुरोद्घुष्टहेलेव खेलं गच्छति भामिनी ।
इदानीमपि वैदेही तद्रागान्नयस्त भूषणा ॥ 19 ॥

गजं वा वीक्ष्य सिंहं वा व्याघ्रं वा वनमाश्रिता ।
नाऽहारयति संत्रासं बाहू रामस्य संश्रिता ॥ 20 ॥

न शोच्यास्ते न चात्मनश्शोच्यो नापि जनाधिपः ।
इदं हि चरितं लोके प्रतिष्ठास्यति शाश्वतम् ॥ 21 ॥

विधूय शोकं परिहृष्टमानसा महर्षियाते पथि सुव्यवत्स्थिताः ।
वनेरता वन्यफलाशनाः पितुश्शुभां प्रतिज्ञां परिपालयंति ते ॥ 22 ॥

तथापि सूतेन सुयुक्तवादिना निवार्यमाणा सुतशोककर्शिता ।
न चैव देवी विरराम कूजितात्प्रियेति पुत्रेति च राघवेति च ॥ 23 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे षष्टितमस्सर्गः ॥




Browse Related Categories: