View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

2.73 अयोध्याकांड - त्रिसप्ततितम सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ त्रिसप्ततितमस्सर्गः ।

सश्रूत्वा तु पितरं वृत्तं भ्रातरौ च विवासितौ ।
भरतो दुःखसंतप्त इदं वचनमब्रवीत् ॥ 1 ॥

किं नु कार्यं हतस्येह मम राज्येन शोचतः ।
विहीनस्याथ पित्रा च भ्रात्रा पितृसमेन च ॥ 2 ॥

दुःखे मे दुःखमकरोर्व्रणे क्षारमिवादधाः ।
राजानं प्रेतभावस्थं कृत्वा रामं च तापसम् ॥ 3 ॥

कुलस्य त्वमभावाय कालरात्रिरिवाऽगता ।
अंगारमुपगूह्य स्म पिता मे नावबुद्धवान् ॥ 4 ॥

मृत्युमापादितो पिता त्वया मे पापदर्शिनि ।
सुखं परिहृतं मोहात्कुलेऽस्मिन्कुलपांसनि ॥ 5 ॥

त्वां प्राप्य हि पिता मेऽद्य सत्यसंधो महायशाः ।
तीव्रदुःखाभिसंतप्तो वृत्तो दशरथो नृपः ॥ 6 ॥

विनाशितो महाराजः पिता मे धर्मवत्सलः ।
कस्मात्प्रव्राजितो रामः कस्मादेव वनं गतः ॥ 7 ॥

कौसल्या च सुमित्रा च पुत्रशोकाभिपीडिते ।
दुष्करं यदि जीवेतां प्राप्य त्वां जननीं मम ॥ 8 ॥

ननुत्वार्योऽपि धर्मात्मा त्वयि वृतिमनुत्तमाम् ।
वर्तते गुरुवृत्तिज्ञो यथा मातरि वर्तते ॥ 9 ॥

तस्याः पुत्रं कृताऽत्मानं चीरवल्कलवाससम् ।
प्रस्थाप्य वनवासाय कथं पापे न शोचसि ॥ 10 ॥

अपापदर्शनं शूरं कृतात्मानं यशस्विनम् ।
प्रव्राज्य चीरवसनं किन्नु पश्यसि कारणम् ॥ 11 ॥

लुब्धाया विदितो मन्ये न तेऽहं राघवं प्रति ।
तथाह्यनर्धो राज्यार्थं त्वयाऽनीतो महानयम् ॥ 12 ॥

अहं हि पुरुषव्याघ्रावपश्यन्रामलक्ष्मणौ ।
केन शक्तिप्रभावेन राज्यं रक्षितुमुत्सहे ॥ 13 ॥

तं हि नित्यं महाराजो बलवंतं महाबलः ।
उपाश्रितोऽभूद्धर्मात्मा मेरुर्मेरुवनं यथा ॥ 14 ॥

सोऽहं कथमिमं भारं महाधुर्यसमुद्धृतम् ।
दम्योधुरमिवाऽऽसाद्य वहेयं केनचौजसा ॥ 15 ॥

अथवा मे भवेच्छक्तिर्योगैर्बुद्धिबलेन वा ।
सकामां न करिष्यामि त्वामहं पुत्रगर्धिनीम् ॥ 16 ॥

न मे विकांक्षा जायेत त्यक्तुं त्वां पापनिश्चयाम् ।
यदि रामस्य नावेक्षा त्वयि स्यान्मातृवत्सदा ॥ 17 ॥

उत्पन्नातु कथं बुद्धिस्तवेयं पापदर्शिनि ।
साधुचारित्रविभ्रष्टे पूर्वेषां नो विगर्हिता ॥ 18 ॥

अस्मिन्कुले हि पूर्वेषां ज्येष्ठो राज्येऽभिषिच्यते ।
अपरे भ्रातरस्तस्मिन्प्रवर्तंते समाहिताः ॥ 19 ॥

न हि मन्ये नृशंसे त्वं राजधर्ममवेक्षसे ।
गतिं वा न विजानासि राजवृत्तस्य शाश्वतीम् ॥ 20 ॥

सततं राजवृत्ते हि ज्येष्ठो राज्येऽभिषिच्यते ।
राज्ञामेतत्समं तत्स्यादिक्ष्वाकूणां विशेषतः ॥ 21 ॥

तेषां धर्मैकरक्षाणां कुलचारित्रशोभिनाम् ।
अद्य चारित्रशौंडीर्यं त्वां प्राप्य विनिवर्तितम् ॥ 22 ॥

तवापि सुमहाभागा जनेंद्राः कुलपूर्वगाः ।
बुद्धेर्मोहः कथमयं संभूतस्त्वयि गर्हितः ॥ 23 ॥

न तु कामं करिष्यामि तवाऽहं पापनिश्चये ।
त्वया व्यसनमारब्धं जीवितांतकरं मम ॥ 24 ॥

एषत्विदानीमेवाहमप्रियार्थं तवानघम् ।
निवर्तयिष्यामि वनाद्भ्रातरं स्वजनप्रियम् ॥ 25 ॥

निवर्तयित्वा रामं च तस्याहं दीप्ततेजसः ।
दासभूतो भविष्यामि सुस्थिरेणांतरात्मना ॥ 26 ॥

इत्येवमुक्त्वा भरतो महात्मा प्रियेतरैर्वाक्यगणैस्तुदंस्ताम् ।
शोकातुरश्चापि ननाद भूयः सिंहो यथा पर्वतगह्वरस्थः ॥ 27 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे त्रिसप्ततितमस्सर्गः ॥




Browse Related Categories: