View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

3.25 अरण्यकांड - पंचविंश सर्गः

श्रीमद्वाल्मीकीय रामायणे अरण्यकांडम् ।
अथ पंचविंशस्सर्गः ।

अवष्टब्धधनुं रामं क्रुद्धं च रिपुघातिनम् ।
ददर्शाऽश्रममागम्य खरस्सह पुरस्सरैः ॥ 1 ॥

तं दृष्ट्वा सशरं चापमुद्यम्य खरनिस्स्वनम् ।
रामस्याभिमुखं सूतं चोद्यतामित्यचोदयत् ॥ 2 ॥

स खरस्याज्ञया सूतस्तुरगान् समचोदयत् ।
यत्र रामो महाबाहुरेको चुन्वन्स्थितो धनुः ॥ 3 ॥

तं तु निष्पतितं दृष्ट्वा सर्वे ते रजनीचराः ।
नर्दमाना महानादं सचिवाः पर्यवारयन् ॥ 4 ॥

स तेषां यातुधानानां मध्ये रथगतः खरः ।
बभूव मध्ये ताराणां लोहितांग इवोदितः ॥ 5 ॥

ततश्शरसहस्रेण राममप्रतिमौजसम् ।
अर्दयित्वा महानादं ननाद समरे खरः ॥ 6 ॥

ततस्तं भीमधन्वानं क्रुद्धाः सर्वे निशाचराः ।
रामं नानाविधैः शस्स्रैरभ्यवर्षंत दुर्जयम् ॥ 7 ॥

मुद्गरैः पट्टसैश्शूलैः प्रासैः खंगै परश्वथैः ।
राक्षसास्समरे रामं निजघ्नू रोषतत्पराः ॥ 8 ॥

ते वलाहसंकाशा महानादा महौजसः ।
अभ्यधावंत काकुत्स्थं रथैर्वाजिभिरेव च ॥ 9 ॥

गजैः पर्वतकूटाभै रामं युद्धे जिघांसवः ।
ते रामे शरवर्षाणि व्यसृजन् रक्षसां गणाः ॥ 10 ॥

शैलेंद्रमिव धाराभिर्वर्षमाणा वलाहकाः ।
स तैः परिवृतो घोरैः राघवो रक्षसां गणैः ॥ 11 ॥

तिथिष्वि महादेवो वृत परिषदांगणै तानि मुक्तानि शस्त्राणि यातुधानैस्सराघवः ।
प्रतिजग्राह विशिखैर्नद्योघानिव सागरः ॥ 12 ॥

स तैः प्रहरणैर्घोरैर्भिन्नगात्रो न विव्यथे ।
रामः प्रदीप्तैर्बहुभिर्वज्रैरिव महाचलः ॥ 13 ॥

स विद्धः क्षतजादिग्धः सर्वगात्रेषु राघवः ।
बभूव रामः संध्याभ्रैर्दिवाकर इवावृतः ॥ 14 ॥

विषेदुर्देवगंधर्वास्सिद्धाश्च परमर्षयः ।
एकं सहस्रैर्भहुभिस्तदा दृष्ट्वा समावृतम् ॥ 15 ॥

ततो रामस्सुसंकृद्धो मंडलीकृतकार्मुकः ।
ससर्ज विशिखान्बाणांछतशोऽथ सहस्रश ॥ 16 ॥

दुरावारांदुर्विषहान्कालदंडोपमान् रणे ।
मुमोच लीलया रामः कंकपत्रानजिह्मगान् ॥ 17 ॥

ते शराश्शत्रुसैन्येषु मुक्ता रामेण लीलया ।
अददू रक्षसां प्राणान्पाशाः कालकृता इव ॥ 18 ॥

भित्त्वा राक्षसदेहां स्तांस्ते शरा रुधिराप्लुताः ।
अंतरिक्षगता रेजुर्दीप्ताग्निसमतेजसः ॥ 19 ॥

असंख्येयास्तु रामस्य सायकाश्चापमंडलात् ।
विनिष्पेतुरतीवोग्रा रक्षःप्राणापहारिणः ॥ 20 ॥

तैर्धनूंषि ध्वजाग्राणि वर्माणि च शिरांसि च ।
बाहून्सहस्ताभरणानूरून्करिकरोपमान् ॥ 21 ॥

चिच्छेद रामस्समरे शतशोऽथ सहस्रशः ।
हयान्कांचनसन्नाहान्रथयुक्तान्ससारथीन् ॥ 22 ॥

गजांश्च सगजारोहान्सहयान्सादिनस्तथा ।
पदातीन्समरे हत्वा ह्यनयद्यमसादनम् ॥ 23 ॥

ततो नालीकनाराचैस्तीक्ष्णाग्रैश्च विकर्णिभिः ।
भीममार्तस्वरं चक्रुर्भिद्यमाना निशाचराः ॥ 24 ॥

तत्सैन्यं निशितैर्बाणैरर्दितं मर्मभेदिभिः ।
रामेण न सुखं लेभे शुष्कं वनमिवाग्निना ॥ 25 ॥

केचिद्भीमबलाश्शूराश्शूलान्खंगान्परश्वधान् ।
रामस्याभिमुखं गत्वा चिक्षिपुः परमायुधान् ॥ 26 ॥

तानि बाणैर्महाबाहुश्शस्त्राण्यावार्य राघवः ।
जहार समरे प्राणांश्चिच्छेद च शिरोधरान् ॥ 27 ॥

ते छिन्नशिरसः पेतुश्चिन्नवर्मशरासनाः ।
सुपर्णवातविक्षिप्ता जगत्यां पादपा यथा ॥ 28 ॥

अवशिष्टाश्च ये तत्र विषण्णाश्च निशाचराः ।
खरमेवाभ्यधावंत शरणार्थं शरार्दिताः ॥ 29 ॥

तान्सर्वान्पुनरादाय समाश्वास्य च दूषणः ।
अभ्यधावत काकुत्स्थं क्रुद्धो रुद्रमिवांतकः ॥ 30 ॥

निवृत्तास्तु पुनस्सर्वे दूषणाश्रयनिर्भयाः ।
राममेवाभ्यधावंत सालतालशिलायुधाः ॥ 31 ॥

शूलमुद्गरहस्ताश्च चापहस्ता महाबलाः ।
सृजंतश्शरवर्षाणि शस्त्रवर्षाणि संयुगे ॥ 32 ॥

द्रुमवर्षाणि मुंचंतश्शिलावर्षाणि राक्षसाः ।
तद्बभूवाद्भुतं युद्धं तुमुलं रोमहर्षणम् ।
रामस्य च महाघोरं पुनस्तेषां च रक्षसाम् ॥ 33 ॥

ते समंतादतिक्रुद्धा राघवं पुनरभ्ययुः ॥ 34 ॥

तैश्च सर्वा दिशो दृष्ट्वा प्रदिशश्च समावृताः ।
राक्षसैरुद्यतप्रासैश्शरवर्षाभिवर्षिभिः ॥ 35 ॥

स कृत्वा भैरवं नादमस्त्रं परमभास्वरम् ।
संयोजयत गांधर्वं राक्षसेषु महाबलः ॥ 36 ॥

ततश्शरसहस्राणि निर्ययुश्चापमंडलात् ।
सर्वा दश दिशो बाणैरावार्यंत समागतैः ॥ 37 ॥

नाददानं शरान्घोरान्नमुंचंतं शिलीमुखान् ।
विकर्षमाणं पश्यंति राक्षसास्ते शरार्दिताः ॥ 38 ॥

शरांधकारमाकाशमावृणोत्सदिवाकरम् ।
बभूवावस्थितो रामः प्रवमन्निव तांछरान् ॥ 39 ॥

युगपत्पतमानैश्च युगपच्च हतैर्भृशम् ।
युगपत्पतितैश्चैव विकीर्णा वसुधा भवत् ॥ 40 ॥

निहताः पतिताः क्षीणाश्छिन्ना भिन्ना विदारिताः ।
तत्र तत्र स्म दृश्यंते राक्षसास्ते सहस्रशः ॥ 41 ॥

सोष्णीषैरुत्तमांगैश्च सांगदैर्बाहुभिस्तथा ।
ऊरुभिर्जानुभिश्छिन्नैर्नानारूपैविभूषणैः ॥ 42 ॥

हयैश्च द्विपमुख्यैश्च रथैर्भिन्नैरनेकशः ।
चामरैर्व्यजनैश्छत्रैर्ध्वजैर्नानाविधैरपि ॥ 43 ॥

रामस्य बाणाभिहतैर्विचित्रैश्शूलपट्टिसैः ।
खंगै खंडीकृतैः प्रासैर्विकीर्णैश्च परश्वधैः ॥ 44 ॥

चूर्णिताभिश्शिलाभिश्च शरैश्चित्रैरनेकशः ।
विच्छिन्नैस्समरे भूमिर्विकीर्णाऽभूद्भयंकरा ॥ 45 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकांडे पंचविंशस्सर्गः ॥




Browse Related Categories: