View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

3.29 अरण्यकांड - एकोनत्रिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे अरण्यकांडम् ।
अथ एकोनत्रिंशस्सर्गः ।

खरं तु विरथं रामो गदापाणिमवस्थितम् ।
मृदुपूर्वं महातेजाः परुषं वाक्यमब्रवीत् ॥ 1 ॥

गजाश्वरथसंबाधे बले महति तिष्ठता ।
कृतं सुदारुणं कर्म सर्वलोकजुगुप्सितम् ॥ 2 ॥

उद्वेजनीयो भूतानां नृशंसः पापकर्मकृत् ।
त्रयाणामपि लोकानामीश्वरोऽपि न तिष्ठति ॥ 3 ॥

कर्म लोकविरुद्धं तु कुर्वाणं क्षणदाचर ।
तीक्ष्णं सर्वजनो हंति सर्पं दुष्टमिवागतम् ॥ 4 ॥

लोभात्पापानि कुर्वाणः कामाद्वा यो न बुध्यते ।
भ्रष्टः पश्यति तस्यांतं ब्राह्मणी करकादिव ॥ 5 ॥

वसतो दंडकारण्ये तापसांधर्मचारिणः ।
किन्नु हत्वा महाभागान्फलं प्राप्स्यसि राक्षस ॥ 6 ॥

न चिरं पापकर्माणः क्रूरा लोकजुगुप्सिताः ।
ऐश्वर्यं प्राप्य तिष्ठंति शीर्णमूला इव द्रुमाः ॥ 7 ॥

अवश्यं लभते जंतुः फलं पापस्य कर्मणः ।
घोरं पर्यागते काले द्रुमाः पुष्पमिवार्तवम् ॥ 8 ॥

नचिरात्प्राप्यते लोके पापानां कर्मणां फलम् ।
सविषाणामिवान्नानां भुक्तानां क्षणदाचर ॥ 9 ॥

पापमाचरतां घोरं लोकस्याप्रियमिच्छताम् ।
अहमासादितो राजा प्राणान्हंतुं निशाचर ॥ 10 ॥

अद्य हि त्वां मया मुक्ताश्शराः कांचनभूषणाः ।
विदार्यातिपतिष्यंति वल्मीकमिव पन्नगाः ॥ 11 ॥

ये त्वया दंडकारण्ये भक्षिता धर्मचारिणः ।
तानद्य निहतस्संख्ये ससैन्योऽनुगमिष्यसि ॥ 12 ॥

अद्य त्वां निहतं बाणैः पश्यंतु परमर्षयः ।
निरयस्थं विमानस्था ये त्वया हिंसिताः पुरा ॥ 13 ॥

प्रहर त्वं यथाकामं कुरु यत्नं कुलाधम ।
अद्य ते पातयिष्यामि शिरस्तालफलं यथा ॥ 14 ॥

एवमुक्तस्तु रामेण कृद्धस्संरक्तलोचनः ।
प्रत्युवाच खरो रामं प्रहसन्क्रोधमूर्छितः ॥ 15 ॥

प्राकृतान्राक्षसान्हत्वा युद्धे दशरथात्मज ।
आत्मना कथमात्मानमप्रशस्यं प्रशंससि ॥ 16 ॥

विक्रांता बलवंतो वा ये भवंति नरर्षभाः ।
कथयंति न ते किंचित्तेजसा स्वेन गर्विताः ॥ 17 ॥

प्राकृतास्त्वकृतात्मानो लोके क्षत्रियपांसनाः ।
निरर्थकं विकत्थंते यथा राम विकत्थसे ॥ 18 ॥

कुलं व्यपदिशन्वीरस्समरे कोऽभिधास्यति ।
मृत्युकाले हि संप्राप्ते स्वयमप्रस्तवे स्तवम् ॥ 19 ॥

सर्वथैव लघुत्वं ते कत्थनेन विदर्शितम् ।
सुवर्णप्रतिरूपेण तप्तेनेव कुशाग्निना ॥ 20 ॥

न तु मामिह तिष्ठंतं पश्यसि त्वं गदाधरम् ।
धराधरमिवाकंप्यं पर्वतं धातुभिश्चितम् ॥ 21 ॥

पर्याप्तोऽहं गदापाणिर्हंतुं प्राणान्रणे तव ।
त्रयाणामपि लोकानां पाशहस्त इवांतकः ॥ 22 ॥

कामं बह्वपि वक्तव्यं त्वयि वक्ष्यामि न त्वहम् ।
अस्तं गच्छेद्धि सविता युद्धविघ्नस्ततो भवेत् ॥ 23 ॥

चतुर्दश सहस्राणि राक्षसानां हतानि ते ।
त्वद्विनाशात्करोम्येषां तेषामश्रुप्रमार्जनम् ॥ 24 ॥

इत्युक्त्वा परमक्रुद्धस्तां गदां परमांगदः ।
खरश्चिक्षेप रामाय प्रदीप्तामशनिं यथा ॥ 25 ॥

खरबाहुप्रयुक्ता सा प्रदीप्ता महती गदा ।
भस्मवृक्षांश्च गुल्मांश्च कृत्वागात्तत्समीपतः ॥ 26 ॥

तामापतंतीं ज्वलतां मृत्युपाशोपमां गदाम् ।
अंतरिक्षगतां रामचशिच्छेद बहुधा शरैः ॥ 27 ॥

सा विकीर्णा शरैर्भग्ना पपात धरणीतले ।
गदा मंत्रौषधबलैर्व्यालीव विनिपातिता ॥ 28 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकांडे एकोनत्रिंशस्सर्गः ॥




Browse Related Categories: