View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

3.46 अरण्यकांड - षट्चत्वारिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे अरण्यकांडम् ।
अथ षट्चत्वारिंशस्सर्गः ।

तया परुषमुक्तस्तु कुपितो राघवानुजः ।
स विकांक्षन्भृशं रामं प्रतस्थे नचिरादिव ॥ 1 ॥

तदासाद्य दशग्रीवः क्षिप्रमंतरमास्थितः ।
अभिचक्राम वैदेहीं परिव्राजकरूपधृक् ॥ 2 ॥

श्लक्ष्णकाषायसंवीतश्शिखी छत्री उपानही ।
वामे चांसेऽवसज्याथ शुभे यष्टिकमंडलू ॥ 3 ॥

परिव्राजकरूपेण वैदेहीमन्वपद्यत ।
तामाससादातिबलो भ्रातृभ्यां रहितां वने ॥ 4 ॥

रहितां चंद्रसूर्याभ्यां संध्यामिव महत्तमः ।
तामपश्यत्ततो बालां रामपत्नीं यशस्विनीम् ॥ 5 ॥

रोहिणीं शशिना हीनां ग्रहवद्भृशदारुणः ।
तमुग्रतेजःकर्माणं जनस्थानरूहा द्रुमाः ॥ 6 ॥

समीक्ष्य संप्रकंपंते न प्रवाति च मारुतः ।
शीघ्रस्रोताश्च तं दृष्ट्वा वीक्षंतं रक्तलोचनम् ॥ 7 ॥

स्तिमितं गंतुमारेभे भयाद्गोदावरी नदी ।
रामस्य त्वंतरप्रेप्सुर्दशग्रीवस्तदंतरे ॥ 8 ॥

उपतस्थे च वै देहीं भिक्षुरूपेण रावणः ।
अभव्यो भव्यरूपेण भर्तारमनुशोचतीम् ॥ 9 ॥

अभ्यवर्तत वैदेहीं चित्रामिव शनैश्चरः ।
स पापो भव्यरूपेण तृणैः कूप इवावृतः ॥ 10 ॥

अतिष्ठत्प्रेक्ष्य वैदेहीं रामपत्निं यशस्विनीम् ।
शुभां रुचिरदंतोष्ठीं पूर्णचंद्रनिभाननाम् ॥ 11 ॥

आसीनां पर्णशालायां बाष्पशोकाभिपीडिताम् ।
स तां पद्मपलाशाक्षीं पीतकौशेयवासिनीम् ॥ 12 ॥

अभ्यगच्छत वैदेहीं दुष्टचेता निशाचरः ।
स मन्मथशराविष्टो ब्रह्मघोषमुदीरयन् ॥ 13 ॥

अब्रवीत्प्रश्रितं वाक्यं रहिते राक्षसाधिपः ।
तामुत्तमां स्त्रियं लोके पद्महीनामिव श्रियम् ॥ 14 ॥

विभ्राजमानां वपुषा रावणः प्रशशंस ह ।
का त्वं कांचनवर्णाभे पीतकौशेयवासिनि ॥ 15 ॥

कमलानां शुभां मालां पद्मिनीव हि बिभ्रती ।
ह्रीः कीर्तिः श्रीश्शुभा लक्ष्मीरप्सरा वा शुभानने ॥ 16 ॥

भूतिर्वा त्वं वरारोहे रतिर्वा स्वैरचारिणी ।
समाश्शिखरिणस्स्निग्धाः पांडुरा दशनास्तव ॥ 17 ॥

विशाले विमले नेत्रे रक्तांते कृष्णतारके ।
विशालं जघनं पीनमूरू करिकरोपमौ ॥ 18 ॥

एतावुपचितौ वृत्तौ संहतौ संप्रवल्गितौ ।
पीनोन्नतमुखौ कांतौ स्निग्धौ तालफलोपमौ ॥ 19 ॥

मणिप्रवेकाभरणौ रुचिरौ ते पयोधरौ ।
चारुस्मिते चारुदति चारुनेत्रे विलासिनि ॥ 20 ॥

मनो हरसि मे कांते नदी कूलमिवांभसा ।
करांतमितमध्यासि सुकेशी संहतस्तनी ॥ 21 ॥

नैव देवी न गंधर्वी न यक्षी न च किन्नरी ।
नैवंरूपा मया नारी दृष्टपूर्वा महीतले ॥ 22 ॥

रूपमग्र्यं च लोकेषु सौकुमार्यं वयश्चते ।
इह वासश्च कांतारे चित्तमुन्मादयंति मे ॥ 23 ॥

सा प्रतिक्राम भद्रं ते नैवं वस्तुमिहार्हसि ।
राक्षसानामयं वासो घोराणां कामरूपिणाम् ॥ 24 ॥

प्रासादाग्राणि रम्याणि नगरोपवनानि च ।
संपन्नानि सुगंधीनि युक्तान्याचरितुं त्वया ॥ 25 ॥

वरं माल्यं वरं भोज्यं वरं वस्त्रं च शोभने ।
भर्तारं च वरं मन्ये त्वद्युक्तमसितेक्षणे ॥ 26 ॥

का त्वं भवसि रुद्राणां मरुतां वा वरानने ।
वसूनां वा वरावोहे देवता प्रतिभासि मे ॥ 27 ॥

नेह गच्छंति गंधर्वा न देवा न च किन्नराः ।
राक्षसानामयं वासः कथं नु त्वमिहागता ॥ 28 ॥

इह शाखामृगास्सिंहा द्वीपिव्याघ्रमृगास्तथा ।
ऋक्षास्तरक्षवः कंकाः कथं तेभ्यो न बिभ्यसि ॥ 29 ॥

मदान्वितानां घोराणां कुंजराणां तरस्विनाम् ।
कथमेका महारण्ये न बिभेषि वरानने ॥ 30 ॥

कासि कस्य कुतश्चित्त्वं किं निमित्तं च दंडकान् ।
एका चरसि कल्याणि घोरान्राक्षससेवितान् ॥ 31 ॥

इति प्रशस्ता वैदेही रावणेन दुरात्मना ।
द्विजातिवेशेण हि तं दृष्ट्वा रावणमागतम् ॥ 32 ॥

सर्वैरतिथिसत्कारैः पूजयामास मैथिली ।
उपनीयासनं पूर्वं पाद्येनाभिनिमंत्र्य च ॥ 33 ॥

अब्रवीत्सिद्धमित्येव तदा तं सौम्यदर्शनम् ।
द्विजातिवेषेण समीक्ष्य मैथिली समागतं पात्रकुसुंभधारिणम् ।
अशक्यमुद्वेष्टुमपायदर्शनं न्यमंत्रयद्ब्राह्मणवत्तदांगना ॥ 34 ॥

इयं बृसी ब्राह्मण काममास्यतामिदं च पाद्यं प्रतिगृह्यतामिति ।
इदं च सिद्धं वनजातमुत्तमं त्वदर्थमव्यग्रमिहोपभुज्यताम् ॥ 35 ॥

निमंत्र्यमाणः प्रतिपूर्णभाषिणीं नरेंद्रपत्नीं प्रसमीक्ष्य मैथिलीम् ।
प्रसह्य तस्याहरणे धृतं मनः समर्पयत्स्वात्मवधाय रावणः ॥ 36 ॥

ततः सुवेषं मृगयागतं पतिं प्रतीक्षमाणा सहलक्ष्मणं तदा ।
विवीक्षमाणा हरितं ददर्श तन्महद्वनं नैव तु रामलक्ष्णौ ॥ 37 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकांडे षट्चत्वारिंशस्सर्गः ॥




Browse Related Categories: