View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

3.60 अरण्यकांड - षष्टितम सर्गः

श्रीमद्वाल्मीकीय रामायणे अरण्यकांडम् ।
अथ षष्टितमस्सर्गः ।

भृशमाव्रजमानस्य तस्याधो वामलोचनम् ।
प्रास्फुरच्चास्खलद्रामो वेपथुश्चाप्य जायत ॥ 1 ॥

उपालक्ष्य निमित्तानि सोऽशुभानि मुहुर्मुहुः ।
अपि क्षेमं नु सीताया इति वै व्याजहार च ॥ 2 ॥

त्वरमाणो जगामाथ सीतादर्शनलालसः ।
शून्यमावसथं दृष्ट्वा बभूवोद्विग्नमानसः ॥ 3 ॥

उद्भ्रमन्निव वेगेन विक्षिपन्रघुनंदनः ।
तत्र तत्रोटजस्थानमभिवीक्षय समंततः ॥ 4 ॥

ददर्श पर्णशालां च रहितां सीतया तदा ।
श्रिया विरहितां ध्वस्तां हेमंते पद्मिनीमिव ॥ 5 ॥

रुदंतमिव वृक्षैश्च म्लानपुष्पमृगद्विजम् ।
श्रिया विहीनं विध्वस्तं संत्यक्तवनदेवतम् ॥ 6 ॥

विप्रकीर्णाजिनकुशं विप्रविद्धब्रुसीकटम् ।
दृष्ट्वा शून्यं निजस्थानं विललाप पुनः पुनः ॥ 7 ॥

हृता मृता वा नष्टा वा भक्षिता वा भविष्यति ।
निलीनाप्यथवा भीरुरथवा वनमाश्रिता ॥ 8 ॥

गता विचेतुं पुष्पाणि फलान्यपि च वा पुनः ।
अथवा पद्मिनीं याता जलार्थं वा नदीं गता ॥ 9 ॥

यत्नान्मृगयमाणस्तु नाससाद वने प्रियाम् ।
शोकरक्तेक्षणश्शोकादुन्मत्त इव लक्ष्यते ॥ 10 ॥

वृक्षाद्वृक्षं प्रधावन्सगिरेश्चाद्रिं नदान्नदीम् ।
बभूव विलपन्रामश्शोकार्णवपरिप्लुतः ॥ 11 ॥

अपि काचित्त्वया दृष्टा सा कदंबप्रिया प्रिया ।
कदंब यदि जानीषे शंस सीतां शुभाननाम् ॥ 12 ॥

स्निग्धपल्लवसंकाशा पीतकौशेयवासिनी ।
शंसस्व यदि वा दृष्टा बिल्व बिल्वोपमस्तनी ॥ 13 ॥

अथवाऽर्जुन शंस त्वं प्रियां तामर्जुनप्रियाम् ।
जनकस्य सुता भीरुर्यदि जीवति वा न वा ॥ 14 ॥

ककुभः ककुभोरूं तां व्यक्तं जानाति मैथिलीम् ।
यथा पल्लवपुष्पाढ्यो भाति ह्येष वनस्पतिः ॥ 15 ॥

भ्रमरैरुपगीतश्च यथा द्रुमवरो ह्ययम् ।
एष व्यक्तं विजानाति तिलकस्तिलकप्रियाम् ॥ 16 ॥

अशोक शोकापनुद शोकोपहतचेतसम् ।
त्वन्नामानं कुरु क्षिप्रं प्रियासंदर्शनेन माम् ॥ 17 ॥

यदि ताल त्वया दृष्टा पक्वतालफलस्तनी ।
कथयस्व वरारोहां कारुण्यं यदि ते मयि ॥ 18 ॥

यदि दृष्टा त्वया सीता जंबु जंबूफलोपमा ।
प्रियां यदि विजानीषे निःशंकं कथयस्व मे ॥ 19 ॥

अहो त्वं कर्णिकाराद्य सुपुष्पैश्शोभसे भृशम् ।
कर्णिकारप्रिया साध्वी शंस दृष्टा प्रिया यदि ॥ 20 ॥

चूतनीपमहासालान्पनसान्कुरवांधवान् ।
दाडिमाननसान्गत्वा दृष्ट्वा रामो महायशाः ॥ 21 ॥

मल्लिका माधवीश्चैव चंपकान्केतकीस्तथा ।
पृच्छन्रामो वने भांतः उन्मत्त इव लक्ष्यते ॥ 22 ॥

अथवा मृगशाबाक्षीं मृग जानासि मैथिलीम् ।
मृगविप्रेक्षणी कांता मृगीभिस्सहिता भवेत् ॥ 23 ॥

गज सा गजनासोरूर्यदि दृष्टा त्वया भवेत् ।
तां मन्ये विदितां तुभ्यमाख्याहि वरवारण ॥ 24 ॥

शार्दूल यदि सा दृष्टा प्रिया चंद्रनिभानना ।
मैथिली मम विस्रब्धं कथयस्व न ते भयम् ॥ 25 ॥

किं धावसि प्रिये दूरे दृष्टासि कमलेक्षणे ।
वृक्षैराच्छाद्य चात्मानं किं मां न प्रतिभाषसे ॥ 26 ॥

तिष्ठ तिष्ठ वरारोहे न तेऽस्ति करुणा मयि ।
नात्यर्थं हास्यशीलासि किमर्थं मामुपेक्षसे ॥ 27 ॥

पीतकौशेयकेनासि सूचिता वरवर्णिनि ।
धावंत्यपि मया दृष्टा तिष्ठ यद्यस्ति सौहृदम् ॥ 28 ॥

नैव सा नूनमथवा हिंसिता चारुहासिनी ।
कृच्छ्रप्राप्तं न मां नूनं यथोपेक्षितुमर्हति ॥ 29 ॥

व्यक्तं सा भक्षिता बाला राक्षसैः पिशिताशनैः ।
विभज्यांकानि सर्वाणि मया विरहिता प्रिया ॥ 30 ॥

नूनं तच्छुभदंतोष्ठं सुनासं चारुकुंडलम् ।
पूर्णचंद्रनिभं ग्रस्तं मुखंनिष्प्रभतां गतम् ॥ 31 ॥

सा हि चंपकवर्णाभा ग्रीवा ग्रैवेयशोभिता ।
कोमला विलपंत्यास्तु कांताया भक्षिता शुभा ॥ 32 ॥

नूनं विक्षिप्यमाणौ तौ बाहू पल्लवकोमलौ ।
भक्षितौ वेपमानाग्रौ सहस्ताभरणांगदौ ॥ 33 ॥

मया विरहिता बाला रक्षसां भक्षणाय वै ।
सार्धेनेव परित्यक्ता भक्षिता बहुबांधवा ॥ 34 ॥

हा लक्ष्मण महाबाहो पश्यसि त्वं प्रियां क्वचित् ।
हा प्रिये क्व गता भद्रे हा सीतेति पुनः पुनः ॥ 35 ॥

इत्येवं विलपन्रामः परिधावन्वनाद्वनम् ।
क्वचिदुद्भ्रमते वेगात्क्वचिद्विभ्रमते बलात् ॥ 36 ॥

क्वचिन्मत्त इवाभाति कांतान्वेषणतत्परः ।
स वनानि नदीश्शैलान् गिरिप्रस्रवणानि च ॥ 37 ॥

काननानि च वेगेन भ्रमत्यपरिसंस्थितः ।
तथा स गत्वा विपुलं महद्वनं परीत्य सर्वं त्वथ मैथिलीं प्रति ।
अनिष्ठिताशस्सचकार मार्गणे पुनः प्रियायाः परमं परिश्रमम् ॥ 38 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकांडे षष्टितमस्सर्गः ॥




Browse Related Categories: