View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

4.21 किष्किंधाकांड - एकविंश सर्गः

श्रीमद्वाल्मीकीय रामायणे किष्किंधाकांडम् ।
अथ एकविंशस्सर्गः ।

ततो निपतितां तारां च्युतां तारामिवांबरात् ।
शनैराश्वासयामास हनुमान्हरियूथपः ॥ 1 ॥

गुणदोषकृतं जंतुस्स्वकर्म फलहेतुकम् ।
अव्यग्रस्तदवाप्नोति सर्वं प्रेत्य शुभाशुभम् ॥ 2 ॥

शोच्या शोचसि कं शोच्यं दीनं दीनाऽनुकंपसे ।
कस्य कोवाऽनुशोच्योऽस्ति देहेऽस्मिन् बुद्बुदोपमे ॥ 3 ॥

अंगदस्तु कुमारोऽयं द्रष्टव्यो जीवपुत्रया ।
अयत्यां च विधेयानि समर्थान्यस्य चिंतय ॥ 4 ॥

जानास्यनियतामेवं भूतानामागतिं गतिम् ।
तस्माच्छुभं हि कर्तव्यं पंडितेनैह लौकिकम् ॥ 5 ॥

यस्मिन्हरिसहस्राणि प्रयुतान्यर्बुदानि च ।
वर्तयंति कृतांशानि सोऽयं दिष्टांतमागतः ॥ 6 ॥

यदयं न्यायदृष्टार्थस्सामदानक्षमापरः ।
गतो धर्मजितां भूमिं नैनं शोचितुमर्हसि ॥ 7 ॥

सर्वे हि हरिशार्दूलाः पुत्रश्चायं तवांगदः ।
इदं हर्यृक्षपतिराज्यं च त्वत्सनाथमनिंदिते ॥ 8 ॥

ताविमौ शोकसंतप्तौ शनैः प्रेरय भामिनि ।
त्वया परिगृहीतोऽयमंगदश्शास्तु मेदिनीम् ॥ 9 ॥

संततिश्च यथा दृष्टा कृत्यं यच्चापि सांप्रतम् ।
राज्ञस्तत्क्रियतां सर्वमेष कालस्य निश्चयः ॥ 10 ॥

संस्कार्यो हरिराजश्च अंगदश्चाभिषिच्यताम् ।
सिंहासनगतं पुत्रं पश्यंती शांतिमेष्यसि ॥ 11 ॥

सा तस्य वचनं श्रुत्वा भर्तृव्यसनपीडिता ।
अब्रवीदुत्तरं तारा हनूमंतमवस्थितम् ॥ 12 ॥

अंगदप्रतिरूपाणां पुत्राणामेकतश्शतम् ।
हतस्याप्यस्य वीरस्य गात्रसंश्लेषणं वरम् ॥ 13 ॥

न चाहं हरिराजस्य प्रभवाम्यंगदस्य वा ।
पितृव्यस्तस्य सुग्रीवस्सर्वकार्येष्वनंतरः ॥ 14 ॥

न ह्येषाबुद्धिरास्थेया हनूमन्नंगदं प्रति ।
पिता हि बंधुः पुत्रस्य न माता हरिसत्तम ॥ 15 ॥

न हि मम हरिराजसंश्रयात् क्षमतरमस्ति परत्र चेह वा ।
अभिमुखहतवीरसेवितं शयनमिदं मम सेवितुं क्षमम् ॥ 16 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किंधाकांडे एकविंशस्सर्गः ॥




Browse Related Categories: