View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

4.24 किष्किंधाकांड - चतुर्विंश सर्गः

श्रीमद्वाल्मीकीय रामायणे किष्किंधाकांडम् ।
अथ चतुर्विंशस्सर्गः ।

तां चाश्रुवेगेन दुरासदेन त्वभिप्लुतां शोकमहार्णवेन ।
पश्यंस्तदा वाल्यनुजस्तरस्वी भ्रातुर्वधेनाप्रतिमेन तेपे ॥ 1 ॥

स बाष्पपूर्णेन मुखेन वीक्ष्य क्षणेन निर्विण्णमना मनस्वी ।
जगाम रामस्य शनैस्समीपं भृत्यैर्वृतसंपरिदूयमानः ॥ 2 ॥

स तं समासाद्य गृहीतचाप मुदात्तमाशीविषतुल्यबाणम् ।
यशस्विनं लक्षणलक्षितांग मवस्थितं राघव मित्युवाच ॥ 3 ॥

यथा प्रतिज्ञातमिदं नरेंद्र कृतं त्वया दृष्टफलं च कर्म ।
ममाद्य भोगेषु नरेंद्रपुत्र मनो निवृत्तं सहजीवितेन ॥ 4 ॥

अस्यां महिष्यां तु भृशं रुदंत्या पुरे च विक्रोशति दुःखतप्ते ।
हतेऽग्रजे संशयितेऽंगदे च न राम राज्ये रमते मनो मे ॥ 5 ॥

क्रोधादमर्षादतिविप्रधर्षा द्भ्रातुर्वधो मेऽनुमतः पुरस्तात् ।
हते त्विदानीं हरियूथपेऽस्मिन् सुतीव्रमिक्ष्वाकुकुमार तप्स्ये ॥ 6 ॥

श्रेयोऽद्य मन्ये मम शैलमुख्ये तस्मिन्निवासश्चिरमृश्यमूके ।
यथा तथा वर्तयतस्स्ववृत्त्या नेमं निहत्य त्रिदिवस्य लाभः ॥ 7 ॥

न त्वां जिघांसामि चरेति यन्मा मयं महात्मा मतिमानुवाच ।
तस्यैव तद्राम वचोऽनुरूप मिदं पुनः कर्म च मेऽनुरूपम् ॥ 8 ॥

भ्राता कथं नाम महागुणस्य भ्रातुर्वधं राघव रोचयेत ।
राज्यस्य दुःखस्य च वीर सारं विचिंतयन्कामपुरस्कृतऽस्सन् ॥ 9 ॥

वधो हि मे मतो नासीत्स्वमाहात्म्याव्यतिक्रमात् ।
ममाऽसीद्बुद्धिदौरात्म्यात्प्राणहारी व्यतिक्रमः ॥ 10 ॥

द्रुमशाखावभग्नोऽहं मुहुर्तं परिनिष्टनन् ।
सांत्वयित्वा त्वनेनोक्तो न पुनः कर्तुमर्हसि ॥ 11 ॥

भ्रातृत्वमार्यभावश्च धर्मश्चानेन रक्षितः ।
मया क्रोधश्च कामश्च कपित्वं च प्रदर्शितम् ॥ 12 ॥

अचिंतनीयं परिवर्जनीय मनीप्सनीयं स्वनवेक्षणीयम् ।
प्राप्तोऽस्मि पाप्मानमिमं नरेंद्र भ्रातुर्वधात्त्वाष्ट्रवधादिवेंद्रः ॥ 13 ॥

पाप्मानमिंद्रस्य मही जलं च वृक्षाश्च कामं जगृहुः स्त्रियश्च ।
को नाम पाप्मानमिमं क्षमेत शाखामृगस्य प्रतिपत्तुमिच्छेत् ॥ 14 ॥

नार्हामि सम्मानमिमं प्रजानां न यौवराज्यं कुत एव राज्यम् ।
अधर्मयुक्तं कुलनाशयुक्त मेवंविधं राघव कर्म कृत्वा ॥ 15 ॥

पापस्य कर्ताऽस्मि विगर्हितस्य क्षुद्रस्य लोकापकृतस्य चैव ।
शोको महान्मामभिवर्ततेऽयं वृष्टेर्यथा निम्नमिवांबुवेगः ॥ 16 ॥

सोदर्यघातापरगात्रवालः संतापहस्ताक्षिशिरोविषाणः ।
एनोमयो मामभिहंति हस्ती दृप्तो नदीकूलमिव प्रवृद्धः ॥ 17 ॥

अंहो बतेदं नृवराविषह्यं निवर्तते मे हृदि साधुवृत्तम् ।
विवर्णमग्नौ परितप्यमानं किट्टं यथा राघव जातरूपम् ॥ 18 ॥

महाबलानां हरियूथपाना मिदं कुलं राघव मन्निमित्तम् ।
अस्यांगदप्यापि च शोकतापा दर्धस्थितप्राणमितीव मन्ये ॥ 19 ॥

सुतस्सुलभ्यस्सुजनस्सुवश्यः कुतस्तु पुत्रस्सदृशोऽंगदेन ।
न चापि विद्येत स वीर देशो यस्मिन्भवेत्सोदरसन्निकर्षः ॥ 20 ॥

यद्यंगदो वीरवरार्ह जीवेत् जीवेच्छ माता परिपालनार्थम् ।
विना तु पुत्रं परितापदीना तारा न जीवेदिति निश्चितं मे ॥ 21 ॥

सोऽहं प्रवेक्ष्याम्यतिदीप्तमग्निं भ्रात्रा च पुत्रेण च सख्यमिच्छन् ।
इमे विचेष्यंति हरिप्रवीरा स्सीतां निदेशे तव वर्तमानाः ॥ 22 ॥

कृत्स्नं तु ते सेत्स्यति कार्यमेत न्मय्यप्रतीते मनुजेंद्रपुत्र कुलस्य हंतारमजीवनार्हं रामानुजानीहि कृतागसं माम् ॥ 23 ॥

इत्येवमार्तस्य रघुप्रवीरः श्रुत्वा वचो वाल्यनुजस्य तस्य ।
संजातबाष्पः परवीरहंता रामो मुहूर्तं विमना बभूव ॥ 24 ॥

तस्मिन् क्षणेऽभीक्ष्णमवेक्ष्यमाणः क्षितिक्षमावान्भुवनस्य गोप्ता ।
रामो रुदंतीं व्यसने निमग्नां समुत्सुकः सोऽथ ददर्श ताराम् ॥ 25 ॥

तां चारुनेत्रां कपिसिंहनाथां पतिं समाश्लिष्य तदा शयानाम् ।
उत्थापयामासुरदीनसत्त्वां मंत्रिप्रधानाः कपिवीरपत्नीम् ॥ 26 ॥

सा विस्फुरंती परिरभ्यमाणा भर्तुस्सकाशादपनीयमाना ।
ददर्श रामं शरचापपाणिं स्वतेजसा सूर्यमिव ज्वलंतम् ॥ 27 ॥

सुसंवृतं पार्थिपलक्षणैश्च तं चारुनेत्रं मृगशाबनेत्रा ।
अदृष्टपूर्वं पुरुषप्रधान मयं स काकुत्स्थ इति प्रजज्ञे ॥ 28 ॥

तस्येंद्रकल्पस्य दुरासदस्य महानुभावस्य समीपमार्या ।
आर्ताऽतितूर्णं व्यसनाभिपन्ना जगाम तारा परिविह्वलंती ॥ 29 ॥

सा तं समासाद्य विशुद्धसत्त्वा शोकेन संभ्रांतशरीरभावा ।
मनस्विनी वाक्यमुवाच तारा रामं रणोत्कर्षणलब्धलक्षम् ॥ 30 ॥

त्वमप्रमेयश्च दुरासदश्च जितेंद्रियश्चोत्तमधार्मिकश्च ।
अक्षय्यकीर्तिश्च विचक्षणश्च क्षितिक्षमावान्क्षतजोपमाक्षः ॥ 31 ॥

त्वमात्तबाणासनबाणपाणि र्महाबलस्संहननोपपन्नः ।
मनुष्यदेहाभ्युदयं विहाय दिव्येन देहाभ्युदयेन युक्तः ॥ 32 ॥

येनैक बाणेन हतः प्रियो मे तेनैव मां त्वं जहि सायकेन ।
हता गमिष्यामि समीपमस्य न मामृते राम रमेत वाली ॥ 33 ॥

स्वर्गेऽपि पद्मामलपत्रनेत्र स्समेत्य संप्रेक्ष्य च मामपश्यन् ।
न ह्येष उच्चावचताम्रचूडा विचित्रवेषाप्सरसोऽभजिष्यत् ॥ 34 ॥

स्वर्गेऽपि शोकं च विवर्णतां च मया विना प्राप्प्यति वीर वाली ।
रम्ये नगेंद्रस्य तटावकाशे विदेहकन्यारहितो यथा त्वम् ॥ 35 ॥

त्वं वेत्थ यावद्वनिताविहीनः प्राप्नोति दुःखं पुरुषः कुमारः ।
तत्त्वं प्रजानन् जहि मां न वाली दुःखं ममादर्शनजं भजेत ॥ 36 ॥

यच्चापि मन्येत भवान्महात्मा स्त्रीघातदोषो न भवेत्तु मह्यम् ।
आत्मेयमस्येति च मां जहि त्वं न स्त्रीवधस्स्यान्मनुजेंद्रपुत्र ॥ 37 ॥

शास्त्रप्रयोगाद्विविधाच्च वेदा दात्माह्यनन्यः पुरुषस्य दाराः ।
दाराप्रदानान्नहि दानमन्य त्प्रदृश्यते ज्ञानवतां हि लोके ॥ 38 ॥

त्वं चापि मां तस्य मम प्रियस्य प्रदास्य से धर्ममवेक्ष्य वीर अनेन दानेन न लप्स्यसे त्व मधर्मयोगं मम वीर घातात् ॥ 39 ॥

आर्तामनाथामपनीयमाना मेवं विधामर्हसि मां निहंतुम् ।
अहं हि मातंगविलासगामिना प्लवंगमानामृषभेण धीमता ॥ 40 ॥

विना वरार्होत्तमहेममालिना चिरं न शक्ष्यामि नरेंद्र जीवितुम् ।
इत्येवमुक्तस्तु विभुर्महात्मा तारां समाश्वास्य हितं बभाषे ॥ 41 ॥

मा वीरभार्ये विमतिं कुरुष्व लोको हि सर्वो विहितो विधात्रा ।
तं चैव सर्वं सुखदुःखयोगं लोकोऽब्रवीत्तेन कृतं विधात्रा ॥ 42 ॥

त्रयोऽहि लोका विहितं विधानं नातिक्रमंते वशगा हि तस्य ।
प्रीतिं परां प्राप्स्यसि तां तथैव पुत्रस्तु ते प्राप्स्यति यौवराज्यम् ।
धात्रा विधानं विहितं तथैव न शूरपत्नयः परिदेवयंति ॥ 43 ॥

आश्वासिता तेन तु राघवेण प्रभावयुक्तेन परंतपेन ।
सा वीरपत्नी ध्वनता मुखेन सुवेषरूपा विरराम तारा ॥ 44 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किंधाकांडे चतुर्विंशस्सर्गः ॥




Browse Related Categories: