View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

4.32 किष्किंधाकांड - द्वात्रिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे किष्किंधाकांडम् ।
अथ द्वात्रिंशस्सर्गः ।

अंगदस्य वचश्श्रुत्वा सुग्रीवस्सचिवैस्सह ।
लक्ष्मणं कुपितं श्रुत्वा मुमोचासनमात्मवान् ॥ 1 ॥

सचिवानब्रवीद्वाक्यं निश्चित्य गुरुलाघवम् ।
मंत्रज्ञान्मंत्रकुशलो मंत्रेषु परिनिष्ठितान् ॥ 2 ॥

न मे दुर्व्याहृतं किंचिन्नापि मे दुरनुष्ठितम् ।
लक्ष्मणो राघवभ्राता क्रुद्धः किमिति चिंतये ॥ 3 ॥

असुहृद्भिर्ममामित्रैर्नित्यमंतरदर्शिभिः ।
मम दोषानसंभूतान् श्रावितो राघवानुजः ॥ 4 ॥

अत्र तावद्यथाबुद्धि सर्वैरेव यथाविधि ।
भावस्य निश्चयस्तावद्विज्ञेयो निपुणं शनैः ॥ 5 ॥

न खल्वस्ति मम त्रासो लक्ष्मणान्नापि राघवात् ।
मित्रं त्वस्थानकुपितं जनयत्येव संभ्रमम् ॥ 6 ॥

सर्वथा सुकरं मित्रं दुष्करं परिपालनम् ।
अनित्यत्वाच्छ चित्तानां प्रीतिरल्पेपि भिद्यते ॥ 7 ॥

अतो निमित्तं त्रस्तोहं रामेण तु महात्मना ।
यन्मयोपकृतं शक्यं प्रतिकर्तुं न तन्मया ॥ 8 ॥

सुग्रीवेणैवमुक्तस्तु हनुमान्हरिपुंगवः ।
उवाच स्वेन तर्केण मध्ये वानरमंत्रिणाम् ॥ 9 ॥

सर्वथा नैतदाश्चर्यं यस्त्वं हरिगणेश्वर ।
न विस्मरसि सुस्निग्धमुपकार कृतं शुभम् ॥ 10 ॥

राघवेण तु वीरेण भयमुत्सृज्य दूरतः ।
त्वत्प्रियार्थं हतो वाली शक्रतुल्यपराक्रमः ॥ 11 ॥

सर्वथा प्रणयात्कृद्धो राघवो नात्र संशयः ।
भ्रातरं संप्रहितवान्लक्ष्मणं लक्ष्मिवर्धनम् ॥ 12 ॥

त्वं प्रमत्तो न जानीषे कालं कालविदां वर ।
फुल्लसप्तच्छदश्यामा प्रवृत्ता तु शरच्छिवा ॥ 13 ॥

निर्मलग्रहनक्षत्रा द्यौः प्रनष्टवलाहका ।
प्रसन्नाश्च दिशस्सर्वास्सरितश्च सरांसि च ॥ 14 ॥

प्राप्तमुद्योगकालं तु नावैषि हरिपुंगव ।
त्वं प्रमत्त इति व्यक्तं लक्ष्मणोऽयमिहागतः ॥ 15 ॥

आर्तस्य हृतदारस्य पुरुषं पुरुषांतरात् ।
वचनं मर्षणीयं ते राघवस्य महात्मनः ॥ 16 ॥

कृतापराधस्य हि ते नान्यत्पश्याम्यहं क्षमम् ।
अंतरेणांजलिं बद्ध्वा लक्ष्मणस्य प्रसादनात् ॥ 17 ॥

नियुक्तैर्मंत्रिभिर्वाच्यो ह्यवश्यं पार्थिवो हितम् ।
अत एव भयं त्यक्त्वा ब्रवीम्यवधृतं वचः ॥ 18 ॥

अभिक्रुद्धस्समर्थो हि चापमुद्यम्य राघवः ।
सदेवासुरगंधर्वं वशे स्थापयितुं जगत् ॥ 19 ॥

न स क्षमः कोपयितुं यः प्रसाद्यः पुनर्भवेत् ।
पूर्वोपकारं स्मरता कृतज्ञेन विशेषतः ॥ 20 ॥

तस्य मूर्ध्ना प्रणम्य त्वं सपुत्रस्ससुहृज्जनः ।
राजंस्तिष्ठस्व समये भर्तुर्भार्येव तद्वशः ॥ 21 ॥

न रामरामानुजशासनं त्वया कपींद्र युक्तं मनसाऽप्यपोहितुम् ।
मनो हि ते ज्ञास्यति मानुषं बलं स राघवस्यास्य सुरेंद्रवर्चसः ॥ 22 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किंधाकांडे द्वात्रिंशस्सर्गः ॥




Browse Related Categories: