View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

4.59 किष्किंधाकांड - एकोनषष्टितम सर्गः

श्रीमद्वाल्मीकीय रामायणे किष्किंधाकांडम् ।
अथ एकोनषष्टितमस्सर्गः ।

ततस्तदमृतास्वादं गृध्रराजेन भाषितम् ।
निशम्य मुदिता हृष्टास्ते वचः प्लवगर्षभाः ॥ 1 ॥

जांबवान् वानरश्रेष्ठस्सह सर्वैः प्लवंगमैः ।
भूतलात्सहसोत्थाय गृध्रराजानमब्रवीत् ॥ 2 ॥

क्व सीता केन वा दृष्टा को वा हरति मैथिलीम् ।
तदाख्यातु भवात्सर्वं गतिर्भव वनौकसाम् ॥ 3 ॥

को दाशरथि बाणानां वज्रवेगनिपातिनाम् ।
स्वयं लक्ष्मणमुक्तानां न चिंतयति विक्रमम् ॥ 4 ॥

स हरीन्प्रीतिसंयुक्तान्सीताश्रुतिसमाहितान् ।
पुनराश्वसयन्प्रीतः इदं वचनमब्रवीत् ॥ 5 ॥

श्रूयतामिह वैदेह्या यथा मे हरणं श्रुतम् ।
येन चापि ममाऽख्यातं यत्र वायतलोचना ॥ 6 ॥

अहमस्मिन्गिरौ दुर्गे बहुयोजनमायते ।
चिरान्निपतितो वृद्धः क्षीणप्राणपराक्रमः ॥ 7 ॥

तं मामेवं गतं पुत्रस्सुपार्श्वोनाम नामतः ।
आहारेण यथाकालं बिभर्ति पततां वरः ॥ 8 ॥

तीक्ष्णकामास्तु गंधर्वास्तीक्ष्णकोपा भुजंगमाः ।
मृगाणां तु भयं तीक्ष्णं ततस्तीक्ष्णक्षुधा वयम् ॥ 9 ॥

स कदाचित्क्षुधार्तस्य ममाहाराभिकांक्षिणः ।
गतसूर्येऽहनि प्राप्तो मम पुत्रो ह्यनामिषः ॥ 10 ॥

स मामाहारसंरोधात्पीडितं प्रीतिवर्धनः ।
अनुमान्य यथातत्त्वमिदं वचनमब्रवीत् ॥ 11 ॥

अहं तात यथाकालमामिषार्थी खमाप्लुतः ।
महेंद्रस्य गिरेर्द्वारमावृत्य सुसमास्थितः ॥ 12 ॥

तत्र सत्त्वसहस्राणां सागरांतरचारिणाम् ।
पंथानमेकोऽध्यवसं सन्निरोद्धुमवाङ्मुखः ॥ 13 ॥

तत्र कश्चिन्मया दृष्ट स्सूर्योदयसमप्रभाम् ।
स्त्रियमादाय गच्छन्वै भिन्नांजनचयप्रभः ॥ 14 ॥

सोऽहमभ्यवहारार्थी तौ दृष्ट्वा कृतनिश्चयः ।
तेन साम्ना विनीतेन पंथानमभियाचितः ॥ 15 ॥

न हि सामोपपन्नानां प्रहर्ता विद्यते क्वचित् ।
नीचेष्वपि जनः कश्चित्किमंग बत मद्विधः ॥ 16 ॥

स यातस्तेजसा व्योम संक्षिपन्निव वेगतः ।
अथाऽहं खेचरैर्भूतैरभिगम्य सभाजितः ॥ 17 ॥

दिष्ट्या जीवति सीत इति हि अब्रुवन् मां महर्षयः ।
कथंचित् स कलत्रः असौ गतः ते स्वस्ति असंशयम् ॥ 18 ॥

एव मुक्तस्ततोऽहं तैस्सिद्धैः परमशोभनैः ।
स च मे रावणो राजा रक्षसां प्रतिवेदितः ॥ 19 ॥

हरंदाशरथेर्भार्यां रामस्य जनकात्मजाम् ।
भ्रष्टाभरणकौशेयां शोकवेगपराजिताम् ॥ 20 ॥

रामलक्ष्मणयोर्नाम क्रोशंतीं मुक्तमूर्धजाम् ।
एष कालात्ययस्तावदिति कालविदां वरः ॥ 21 ॥

एतमर्थं समग्रं मे सुपार्श्वः प्रत्यवेदयत् ।
तच्छृत्वाऽपि हि मे बुद्धिर्नासीत्काचित्पराक्रमे ॥ 22 ॥

अपक्षो हि कथं पक्षी कर्म किंचिदुपक्रमे ।
यत्तु शक्यं मया कर्तुं वाग्बुद्धिगुणवर्तिना ॥ 23 ॥

श्रूयतां तत्प्रवक्ष्यामि भवतां पौरुषाश्रयम् ।
वाङ्मतिभ्यां तु सर्वेषां करिष्यामि प्रियं हि वः ॥ 24 ॥

यद्धि दाशरथेः कार्यं मम तन्नात्र संशयः ।
ते भवंतो मतिश्रेष्ठा बलवंतो मनस्विनः ॥ 25 ॥

प्रेषिताः कपिराजेन देवैरपि दुरासदाः ।
रामलक्ष्मणबाणाश्च निशिताः कंकपत्रिणः ॥ 26 ॥

त्रयाणामपि लोकानां पर्याप्तास्त्राणनिग्रहे ।
कामं खलु दशग्रीव स्तेजोबलसमन्वितः ॥ 27 ॥

भवतां तु समर्थानां न किंचिदपि दुष्करम् ।
तदलं कालसंगेन क्रियतां बुद्धिनिश्चयः ॥ 28 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किंधाकांडे एकोनषष्टितमस्सर्गः ॥




Browse Related Categories: