View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

4.63 किष्किंधाकांड - त्रिषष्टितम सर्गः

श्रीमद्वाल्मीकीय रामायणे किष्किंधाकांडम् ।
अथ त्रिषष्टितमस्सर्गः ।

एतैरन्यैश्च बहुभिर्वाक्यैर्वाक्यविशारदः ।
मां प्रशस्याभ्यनुज्ञाप्य प्रविष्टस्स स्वमालयम् ॥ 1 ॥

कंदरात्तु विसर्पित्वा पर्वतस्य शनैश्शनैः ।
अहं विंध्यं समारुह्य भवतः प्रतिपालये ॥ 2 ॥

अद्य त्वेतस्य कालस्य साग्रं वर्षशतं गतम् ।
देशकालप्रतीक्षोऽस्मि हृदि कृत्वा मुनेर्वचः ॥ 3 ॥

महाप्रस्थानमासाद्य स्वर्गते तु निशाकरे ।
मां निर्दहति संतापो वितर्कैर्बहुभिर्वृतम् ॥ 4 ॥

उत्थितां मरणे बुद्धिं मुनिवाक्यैर्निवर्तये ।
बुद्धिर्या तेन मे दत्ता प्राणानां रक्षणाय तु ॥ 5 ॥

सा मेऽपनयते दुःखं दीप्तेवाग्निशिखा तमः ।
बुद्ध्यता च मया वीर्यं रावणस्य दुरात्मनः ॥ 6 ॥

पुत्रस्संतर्जितो वाग्भिर्न त्राता मैथिली कथम् ।
तस्या विलपितं श्रुत्वा तौ च सीताविनाकृतौ ॥ 7 ॥

न मे दशरथस्नेहात्पुत्रेणोत्पादितं प्रियम् ।
तस्य त्वेवं ब्रुवाणस्य संपातेर्वानरैस्सह ॥ 8 ॥

उत्पेततुस्तदा पक्षौ समक्षं वनचारिणाम् ।
स दृष्ट्वा स्वां तनुं पक्षैरुद्गतैररुणच्छदैः ॥ 9 ॥

प्रहर्षमतुलं लेभे वानरांश्चेदमब्रवीत् ।
ऋषेर्निशाकरस्यैव प्रभावादमितात्मनः ॥ 10 ॥

आदित्यरश्मिनिर्दग्धौ पक्षौ मे पुनरुपस्थितौ ।
यौवने वर्तमानस्य ममासीद्यः पराक्रमः ॥ 11 ॥

तमेवाद्यावगच्छामि बलं पौरुषमेव च ।
सर्वथा क्रियतां यत्न स्सीतामधिगमिष्यथ ॥ 12 ॥

पक्षलाभो ममायं वस्सिद्धिप्रत्ययकारकः ।
इत्युक्त्वा स तान्हरीन् सर्वान्संपातिः पतगोत्तमः ॥ 13 ॥

उत्पपात गिरेश्शृंगाज्जिज्ञासुः खगमो गतिम् ।
तस्य तद्वचनं श्रुत्वा प्रतिसंहृष्टमानसाः ॥ 14 ॥

बभूवुर्हरिशार्दूला विक्रमाभ्युदयोन्मुखाः ।
अथ पवनसमानविक्रमाः प्लवगवराः प्रतिलब्धपौरुषाः ।
अभिजिदभिमुखा दिशं ययु र्जनकसुतापरिमार्गणोन्मुखाः ॥ 15 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किंधाकांडे त्रिषष्टितमस्सर्गः ॥




Browse Related Categories: