श्रीमद्वाल्मीकीय रामायणे सुंदरकांडम् ।
अथ पंचमस्सर्गः ।
ततः स मध्यंगतमंशुमंतं ज्योत्स्नावितानं महदुद्वमंतम् ।
ददर्श धीमान् दिवि भानुमंतं गोष्ठे वृषं मत्तमिव भ्रमंतम् ॥ 1 ॥
लोकस्य पापानि विनाशयंतं महोदधिं चापि समेधयंतम् ।
भूतानि सर्वाणि विराजयंतं ददर्श शीतांशुमथाभियांतम् ॥ 2 ॥
या भाति लक्ष्मीर्भुवि मंदरस्था तथा प्रदोषेषु च सागरस्था ।
तथैव तोयेषु च पुष्करस्था रराज सा चारुनिशाकरस्था ॥ 3 ॥
हंसो यथा राजतपंजरस्थः सिंहो यथा मंदरकंदरस्थः ।
वीरो यथा गर्वितकुंजरस्थ चंद्रोऽपि बभ्राज तथांबरस्थः ॥ 4 ॥
स्थितः ककुद्मानिव तीक्ष्णशृंगो महाचलः श्वेत इवोच्चशृंगः ।
हस्तीव जांबूनदबद्धशृंगो रराज चंद्रः परिपूर्णशृंगः ॥ 5 ॥
विनष्टशीतांबुतुषारपंको महाग्रहग्राहविनष्टपंकः ।
प्रकाशलक्ष्म्याश्रयनिर्मलांकः रराज चंद्रो भगवान् शशांकः ॥ 6 ॥
शिलातलं प्राप्य यथा मृगेंद्रो महारणं प्राप्य यथा गजेंद्रः ।
राज्यं समासाद्य यथा नरेंद्र स्तथाप्रकाशो विरराज चंद्रः ॥ 7 ॥
प्रकाशचंद्रोदयनष्टदोषः प्रवृत्तरक्षः पिशिताशदोषः ।
रामाभिरामेरितचित्तदोषः स्वर्गप्रकाशो भगवान् प्रदोषः ॥ 8 ॥
तंत्रीस्वनाः कर्णसुखाः प्रवृत्ताः स्वपंति नार्यः पतिभिः सुवृत्ताः ।
नक्तंचराश्चापि तथा प्रवृत्ताः विहर्तुमत्यद्भुतरौद्रवृत्ताः ॥ 9 ॥
मत्तप्रमत्तानि समाकुलानि रथाश्वभद्रासनसंकुलानि ।
वीरश्रिया चापि समाकुलानि ददर्श धीमान् स कपिः कुलानि ॥ 10 ॥
परस्परं चाधिकमाक्षिपंति भुजांश्च पीनानधिकं क्षिपंति ।
मत्तप्रलापानधिकं क्षिपंति मत्तानि चान्योन्यमधिक्षिपंति ॥ 11 ॥
रक्षांसि वक्षांसि च विक्षिपंति गात्राणि कांतासु च विक्षिपंति ।
रूपाणि चित्राणि च विक्षिपंति दृढानि चापानि च विक्षिपंति ॥ 12 ॥
ददर्श कांताश्च समालभंत्य स्तथा परास्तत्र पुनः स्वपंत्यः ।
सुरूपवक्त्राश्च तथा हसंत्यः क्रुद्धाः पराश्चापि विनिःश्वसंत्य ॥ 13 ॥
महागजैश्चापि तथा नदद्भिः सुपूजितैश्चापि तथा सुसद्भिः ।
रराज वीरैश्च विनिःश्वसद्भिः ह्रदो भुजंगैरिव निःश्वसद्भिः ॥ 14 ॥
बुद्धिप्रधानान् रुचिराभिधानान् संश्रद्धधानान् जगतः प्रधानान् ।
नानाविधानान् रुचिराभिधानान् ददर्श तस्यां पुरि यातुधानान् ॥ 15 ॥
ननंद दृष्ट्वा स च तान् सुरूपान्नानागुणानात्मगुणानुरूपान् ।
विद्योतमानान्स तदानुरूपान् ददर्श कांश्चिच्च पुनर्विरूपान् ॥ 16 ॥
ततो वरार्हाः सुविशुद्धभावा स्तेषां स्त्रियस्तत्र महानुभावाः ।
प्रियेषु पानेषु च सक्तभावा ददर्श तारा इव सुप्रभावाः ॥ 17 ॥
श्रिया ज्वलंतीस्त्रपयोपगूढा निशीथकाले रमणोपगूढाः ।
ददर्श काश्चित्प्रमदोपगूढा यथा विहंगाः कुसुमोपगूढाः ॥ 18 ॥
अन्याः पुनर्हर्म्यतलोपविष्टा स्तत्र प्रियांकेषु सुखोपविष्टाः ।
भर्तुः प्रिया धर्मपरा निविष्टा ददर्श धीमान् मदनाभिविष्टाः ॥ 19 ॥
अप्रावृताः कांचनराजिवर्णाः काश्चित्परार्थ्यास्तपनीयवर्णाः ।
पुनश्च काश्चिच्छशलक्ष्मवर्णाः कांतप्रहीणा रुचिरांगवर्णाः ॥ 20 ॥
ततः प्रियान् प्राप्य मनोभिरामाः सुप्रीतियुक्ताः प्रसमीक्ष्यरामाः ।
गृहेषु हृष्टाः परमाभिरामाः हरिप्रवीरः स ददर्श रामाः ॥ 21 ॥
चंद्रप्रकाशाश्च हि वक्त्रमालाः वक्राक्षिपक्ष्माश्च सुनेत्रमालाः ।
विभूषणानां च ददर्श मालाः शतह्रदानामिव चारुमालाः ॥ 22 ॥
न त्वेव सीतां परमाभिजातां पथि स्थिते राजकुले प्रजाताम् ।
लतां प्रपुल्लामिव साधु जातां ददर्श तन्वीं मनसाभिजाताम् ॥ 23 ॥
सनातने वर्त्मनि सन्निविष्टां रामेक्षणां तां मदनाभिविष्टाम् ।
भर्तुर्मनः श्रीमदनुप्रविष्टां स्त्रीभ्यो वराभ्यश्च सदा विशिष्टाम् ॥ 24 ॥
उष्णार्दितां सानुसृतास्रकंठीं पुरा वरार्होत्तमनिष्ककंठीम् ।
सुजातपक्ष्मामभिरक्तकंठीं वनेऽप्रवृत्तामिव नीलकंठीम् ॥ 25 ॥
अव्यक्तरेखामिव चंद्ररेखां पांसुप्रदिग्धामिव हेमरेखाम् ।
क्षतप्ररूढामिव बाणरेखां वायुप्रभिन्नामिव मेघरेखाम् ॥ 26 ॥
सीतामपश्यन् मनुजेश्वरस्य रामस्य पत्नीं वदतां वरस्य ।
बभूव दुःखाभिहतश्चिरस्य प्लवंगमो मंद इवाचिरस्य ॥ 27 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुंदरकांडे पंचमस्सर्गः ॥