View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

5.5 सुंदरकांड - पंचम सर्गः

श्रीमद्वाल्मीकीय रामायणे सुंदरकांडम् ।
अथ पंचमस्सर्गः ।

ततः स मध्यंगतमंशुमंतं ज्योत्स्नावितानं महदुद्वमंतम् ।
ददर्श धीमान् दिवि भानुमंतं गोष्ठे वृषं मत्तमिव भ्रमंतम् ॥ 1 ॥

लोकस्य पापानि विनाशयंतं महोदधिं चापि समेधयंतम् ।
भूतानि सर्वाणि विराजयंतं ददर्श शीतांशुमथाभियांतम् ॥ 2 ॥

या भाति लक्ष्मीर्भुवि मंदरस्था तथा प्रदोषेषु च सागरस्था ।
तथैव तोयेषु च पुष्करस्था रराज सा चारुनिशाकरस्था ॥ 3 ॥

हंसो यथा राजतपंजरस्थः सिंहो यथा मंदरकंदरस्थः ।
वीरो यथा गर्वितकुंजरस्थ चंद्रोऽपि बभ्राज तथांबरस्थः ॥ 4 ॥

स्थितः ककुद्मानिव तीक्ष्णशृंगो महाचलः श्वेत इवोच्चशृंगः ।
हस्तीव जांबूनदबद्धशृंगो रराज चंद्रः परिपूर्णशृंगः ॥ 5 ॥

विनष्टशीतांबुतुषारपंको महाग्रहग्राहविनष्टपंकः ।
प्रकाशलक्ष्म्याश्रयनिर्मलांकः रराज चंद्रो भगवान् शशांकः ॥ 6 ॥

शिलातलं प्राप्य यथा मृगेंद्रो महारणं प्राप्य यथा गजेंद्रः ।
राज्यं समासाद्य यथा नरेंद्र स्तथाप्रकाशो विरराज चंद्रः ॥ 7 ॥

प्रकाशचंद्रोदयनष्टदोषः प्रवृत्तरक्षः पिशिताशदोषः ।
रामाभिरामेरितचित्तदोषः स्वर्गप्रकाशो भगवान् प्रदोषः ॥ 8 ॥

तंत्रीस्वनाः कर्णसुखाः प्रवृत्ताः स्वपंति नार्यः पतिभिः सुवृत्ताः ।
नक्तंचराश्चापि तथा प्रवृत्ताः विहर्तुमत्यद्भुतरौद्रवृत्ताः ॥ 9 ॥

मत्तप्रमत्तानि समाकुलानि रथाश्वभद्रासनसंकुलानि ।
वीरश्रिया चापि समाकुलानि ददर्श धीमान् स कपिः कुलानि ॥ 10 ॥

परस्परं चाधिकमाक्षिपंति भुजांश्च पीनानधिकं क्षिपंति ।
मत्तप्रलापानधिकं क्षिपंति मत्तानि चान्योन्यमधिक्षिपंति ॥ 11 ॥

रक्षांसि वक्षांसि च विक्षिपंति गात्राणि कांतासु च विक्षिपंति ।
रूपाणि चित्राणि च विक्षिपंति दृढानि चापानि च विक्षिपंति ॥ 12 ॥

ददर्श कांताश्च समालभंत्य स्तथा परास्तत्र पुनः स्वपंत्यः ।
सुरूपवक्त्राश्च तथा हसंत्यः क्रुद्धाः पराश्चापि विनिःश्वसंत्य ॥ 13 ॥

महागजैश्चापि तथा नदद्भिः सुपूजितैश्चापि तथा सुसद्भिः ।
रराज वीरैश्च विनिःश्वसद्भिः ह्रदो भुजंगैरिव निःश्वसद्भिः ॥ 14 ॥

बुद्धिप्रधानान् रुचिराभिधानान् संश्रद्धधानान् जगतः प्रधानान् ।
नानाविधानान् रुचिराभिधानान् ददर्श तस्यां पुरि यातुधानान् ॥ 15 ॥

ननंद दृष्ट्वा स च तान् सुरूपान्नानागुणानात्मगुणानुरूपान् ।
विद्योतमानान्स तदानुरूपान् ददर्श कांश्चिच्च पुनर्विरूपान् ॥ 16 ॥

ततो वरार्हाः सुविशुद्धभावा स्तेषां स्त्रियस्तत्र महानुभावाः ।
प्रियेषु पानेषु च सक्तभावा ददर्श तारा इव सुप्रभावाः ॥ 17 ॥

श्रिया ज्वलंतीस्त्रपयोपगूढा निशीथकाले रमणोपगूढाः ।
ददर्श काश्चित्प्रमदोपगूढा यथा विहंगाः कुसुमोपगूढाः ॥ 18 ॥

अन्याः पुनर्हर्म्यतलोपविष्टा स्तत्र प्रियांकेषु सुखोपविष्टाः ।
भर्तुः प्रिया धर्मपरा निविष्टा ददर्श धीमान् मदनाभिविष्टाः ॥ 19 ॥

अप्रावृताः कांचनराजिवर्णाः काश्चित्परार्थ्यास्तपनीयवर्णाः ।
पुनश्च काश्चिच्छशलक्ष्मवर्णाः कांतप्रहीणा रुचिरांगवर्णाः ॥ 20 ॥

ततः प्रियान् प्राप्य मनोभिरामाः सुप्रीतियुक्ताः प्रसमीक्ष्यरामाः ।
गृहेषु हृष्टाः परमाभिरामाः हरिप्रवीरः स ददर्श रामाः ॥ 21 ॥

चंद्रप्रकाशाश्च हि वक्त्रमालाः वक्राक्षिपक्ष्माश्च सुनेत्रमालाः ।
विभूषणानां च ददर्श मालाः शतह्रदानामिव चारुमालाः ॥ 22 ॥

न त्वेव सीतां परमाभिजातां पथि स्थिते राजकुले प्रजाताम् ।
लतां प्रपुल्लामिव साधु जातां ददर्श तन्वीं मनसाभिजाताम् ॥ 23 ॥

सनातने वर्त्मनि सन्निविष्टां रामेक्षणां तां मदनाभिविष्टाम् ।
भर्तुर्मनः श्रीमदनुप्रविष्टां स्त्रीभ्यो वराभ्यश्च सदा विशिष्टाम् ॥ 24 ॥

उष्णार्दितां सानुसृतास्रकंठीं पुरा वरार्होत्तमनिष्ककंठीम् ।
सुजातपक्ष्मामभिरक्तकंठीं वनेऽप्रवृत्तामिव नीलकंठीम् ॥ 25 ॥

अव्यक्तरेखामिव चंद्ररेखां पांसुप्रदिग्धामिव हेमरेखाम् ।
क्षतप्ररूढामिव बाणरेखां वायुप्रभिन्नामिव मेघरेखाम् ॥ 26 ॥

सीतामपश्यन् मनुजेश्वरस्य रामस्य पत्नीं वदतां वरस्य ।
बभूव दुःखाभिहतश्चिरस्य प्लवंगमो मंद इवाचिरस्य ॥ 27 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुंदरकांडे पंचमस्सर्गः ॥




Browse Related Categories: