View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

6.55 युद्धकांड - पंचपंचाश सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ पंचपंचाशस्सर्गः ।

वज्रदंष्ट्रंहतंश्रुत्वावालिपुत्रेणरावणः ।
बलाध्यक्षमुवाचेदंकृतांजलिमुपस्थितम् ॥ 1 ॥

शीघ्रंनिर्यांतुदुर्धर्षाराक्षसाभीमविक्रमाः ।
अकंपनंपुरस्कृत्यसर्वशस्त्रप्रकोविदम् ॥ 2 ॥

एषशास्ताचगोप्ताचनेताचयुधिसत्तमः ।
भूतिकामश्चमेनित्यंनित्यंचसमरप्रियः ॥ 3 ॥

एषजेष्यतिकाकत्स्थौसुग्रीवंचमहाबलम् ।
वानरांश्चापरान् घोरान् हनिष्यतिपरंतपः ॥ 4 ॥

परिगृह्य स तामाज्ञां रावणस्य महाबलः ।
बलं संप्रेरयामास तदा लघुपराक्रमः ॥ 5 ॥

ततोनानाप्रहरणाभीमाक्षाभीमदर्शनाः ।
निष्पेतूराक्षसामुख्याबलाध्यक्षप्रचोदिताः ॥ 6 ॥

रथमास्थायविपुलंतप्तकांचनभूषणम् ।
मेघाभोमेघवर्णश्चमेघस्वनमहास्वनः ॥ 7 ॥

राक्षसैःसम्वृतोघोरैस्तदानिर्यात्यकंपनः ।
नहिकंपयितुंशक्यःसुरैरपिमहामृधे ॥ 8 ॥

अकंपनस् ततस् तेषां आदित्य;इव तेजसा ।
तस्य निधावमानस्य सम्रब्धस्य युयुत्सया ॥ 9 ॥

अकस्माद्दैन्यमागच्छद्धयानांरथवाहिनाम् ।
व्यस्फुरन्नयनंचास्यसव्यंयुद्धाभिनदनिनः ॥ 10 ॥

विवर्णोमुखवर्णश्चगद्गदश्चाभवत्स्वनः ।
अभवत्सुदिनेकालेदुर्दिनंरूक्षमारुतम् ॥ 11 ॥

ऊचुःखगमृगाःसर्वेवाचःक्रूराभयावहाः ।
ससिंहापचित्कंधःशार्दूलसमविक्रमः ॥ 12 ॥

तानुत्पातानचिन्स्सैवनिर्जगामरणाजिरम् ।
तथानिर्गच्छतस्तस्यरक्षसस्सहराक्षसैः ॥ 13 ॥

बभूवसुमहान्नादःक्षोभयन्निवसागरम् ।
तेनशब्देनवित्रस्तावानराणांमहाचमूः ॥ 14 ॥

द्रुमशैलप्रहाराणांयोद्धुंसमुपतिष्ठतम् ।
तेषांयुद्धंमहारौद्रंसंजज्ञेकपिरक्षसाम् ॥ 15 ॥

रामरावणयोरर्धेसमभित्यक्तजीविनाम् ।
सर्वेह्यतिबलाःशूराःसर्वेपर्वतसन्निभाः ॥ 16 ॥

हरयोराक्षसाश्चैवपरस्परजिघांसवः ।
तेषांविवर्धतांशब्दःसंयुगेऽतितरस्विनाम् ॥ 17 ॥

शुश्रुवेसुमहान् कोपादन्योन्यमभिगर्जताम् ।
रजश्चारुणवर्णाभंसुभीममभवद् भृशम् ॥ 18 ॥

उद्धतंहरिरक्षोभिःसंरुरोधदिशोदश ।
अन्योन्यंरजसातेनकौशेयोद्धूतपांडुना ॥ 19 ॥

सम्वृतानिचभूतानिददृशुर्नरणाजिरे ।
नध्वजोनपताकावाचर्मवातुरगोऽपिवा ॥ 20 ॥

आयुधंस्यंदनोवापिददृशेतेनरेणुना ।
शब्दश्चसुमहांस्तेषांनर्दतामभिधावताम् ॥ 21 ॥

श्रूयतेतुमुलोयुद्धेनरूपाणिचकाशिरे ।
हरीनेवसुसंरुष्टाहरयोजघ्नुराहवे ॥ 22 ॥

राक्षसाराक्षसांश्चापिनिजघ्नुस्तिमिरेतदा ।
तेपरांश्चविनिघ्नंतःस्वांश्चवानरराक्षसाः ॥ 23 ॥

रुधिरार्द्रांतदाचक्रुर्महींपंकानुलेपनाम् ।
ततस्तुरुधिरौघेणसिक्तंह्यपगतंरजः ॥ 24 ॥

शरीरशवसंकीर्णाबभूवचवसुंधरा ।
द्रुमशक्तिगदाप्रासैश्शिलापरिघतोमरैः ॥ 25 ॥

हरयोराक्षसाश्चैवस्तूर्णंजघ्नुरन्योन्यमोजसा ।
बाहुभिःपरिघाकारैर्युध्यंतःपर्वतोपमाः ॥ 26 ॥

हरयोभीमकर्माणोराक्षसान्झघ्नुराहवे ।
राक्षसास्त्वभिसंक्रुद्धाःप्रासतोमरपाणयः ॥ 27 ॥

कपीन्निजघ्निरेतत्रशस्त्रःपरमदारुणैः ।
अकंपनस्सुसंक्रुद्धोराक्षसानांचमूपतिः ॥ 28 ॥

सम्हर्षयतितान्सर्वान्राक्षसाभनिमविक्रमान् ।
हरयस्त्वपिरक्षांसिमहाद्रुममहाश्मभिः ॥ 29 ॥

विदारयंत्यभिक्रम्यशस्त्राण्याच्छिद्यवीर्यतः ।
एतस्मिन्नंतरेवीराहरयःकुमुदोनलः ॥ 30 ॥

मैंदश्चपरमक्रुद्धाश्चक्रुर्वेगमनुत्तमम् ।
तेतुवृक्षैर्महावीराराक्षसानांचमूमुखे ॥ 31 ॥

कदनंसुमहच्चक्रुर्लीलयाहरिपुंगवाः ।
ममंथूराक्षसान् सर्वेवानरागणशोभृशम् ॥ 32 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे पंचपंचाशस्सर्गः ॥




Browse Related Categories: