श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ षण्णवतितमस्सर्गः ।
आर्तानांराक्षसीनांतुलंकायांवैकुलेकुले ।
रावणःकरुणंशब्दंशुश्रावपरिदेवितम् ॥ 1 ॥
स तुदीर्घंविनिःश्वस्यमुहूर्तंध्यानमास्थितः ।
बभूवपरमक्रुद्धोरावणोभीमदर्शनः ॥ 2 ॥
संदश्यदशनैरोष्ठंक्रोधसम्रक्तलोचनः ।
राक्षसैरपिदुर्दर्शःकालाग्निरिवमूर्छितः ॥ 3 ॥
उवाच च समीपस्थान्राक्षसान्राक्षसेश्वरः ।
क्रोधाव्यक्तकथस्तत्रनिर्दहन्निवचक्षुषा ॥ 4 ॥
महोदरंमहापार्श्वंविरूपाक्षं च राक्षसम् ।
शीघ्रंवदतसैन्यानिनिर्यातेतिममाज्ञया ॥ 5 ॥
तस्यतद्वचनंश्रुत्वाराक्षसास्तेभयार्दिताः ।
चोदयामासुरव्यग्रान्राक्षसांस्तान्नृपाज्ञया ॥ 6 ॥
तेतुसर्वेतथेत्युक्त्वाराक्षसाभीमदर्शनाः ।
कृतस्वस्त्वयनाःसर्वेतेरणाभिमुखाययुः ॥ 7 ॥
प्रतिपूज्ययथान्यायंरावणंतेमहारथाः ।
तस्थुःप्रांजलयःसर्वेभर्तुर्विजयकांक्षिणः ॥ 8 ॥
अथोवाचप्रहस्यैतान्रावणःक्रोधमूर्छितः ।
महोदरमहापार्श्वौविरूपाक्षं च राक्षसम् ॥ 9 ॥
अद्यबाणैर्धनुर्मुक्स्सैर्युगांतादित्यसन्निभैः ।
राघवंलक्ष्मणंचैवनेष्यामियमसादनम् ॥ 10 ॥
खरस्यकुंभकर्णस्यप्रहसेंद्रजितोस्तथा ।
करिष्यामिप्रतीकारमद्यशत्रुवधादहम् ॥ 11 ॥
नैवांतरिक्षं न दिशो न नद्यौर्नापिसागराः ।
प्रकाशत्वंगमिष्यंतिमद्बाणजलदावृताः ॥ 12 ॥
अद्यवानरमुख्यानांतानियूथानिभागशः ।
धनुषाशरजालेनवधिष्यामिपतत्रिणा ॥ 13 ॥
अद्यवानरसैन्यानिरथेनपवनौजसा ।
धनुस्समुद्रादुद्भूतैर्मथिष्यामिशरोर्मिभिः ॥ 14 ॥
व्याकोशपद्मवक्त्राणिपद्मकेसरवर्चसाम् ।
अद्ययूथतटाकानिगजवत्प्रमथाम्यहम् ॥ 15 ॥
सशरैरद्यवदनैस्संख्येवानरयूथपाः ।
मंडयिष्यंतिवसुधांसनालैरिवपंकजैः ॥ 16 ॥
अद्ययूथप्रचंडानांहरीणांद्रुमयोधिनाम् ।
मुक्तेनैकेषुणायुद्धेभेत्स्यामि च शतंशतम् ॥ 17 ॥
हतोभर्ताहतोभ्रातायासां च चतनयोहतः ।
वधेनाद्यरिपोस्तासांकरोम्यश्रुप्रमार्जनम् ॥ 18 ॥
अद्यमद्भाणनिर्भिन्नैःप्रकीर्णैर्गतचेतनैः ।
करोमिवानरैर्युद्धेयत्नावेक्ष्यतलांमहीम् ॥ 19 ॥
अद्यगोमयवोगृध्राश्चये च मांसाशिनोऽपरे ।
सर्वांस्तांस्तर्पयिष्यामिशत्रुमांसैश्शरार्दितैः ॥ 20 ॥
कल्प्यतांमेरथंशीघ्रंक्षिप्रमानीयतांधनुः ।
अनुप्रयांतुमांयुद्धेयेऽत्रशिष्टानिशाचराः ॥ 21 ॥
तस्यतद्वचनंश्रुत्वामहापार्श्वोऽब्रवीद्वचः ।
बलाध्यक्षान् स्थिथांस्तत्रबलंसंत्वर्यतामिति ॥ 22 ॥
बलाध्यक्षास्तुसम्रब्दाराक्षसांस्तान् गृहेगृहे ।
चोदयंतःपरिययुर्लंकांलघुपराक्रमाः ॥ 23 ॥
ततोमुहूर्तान्निष्पेतूराक्षसाभीमदर्शनाः ।
नदंतोभीमवदनानानाप्रहरणैर्भुजैः ॥ 24 ॥
असिभिःपट्टसैः शूलैर्गदाभिर्मुसलैर्हलैः ।
शक्तिभिस्तीक्ष्णधाराभिर्महद्भिः कूटमुद्गरैः ॥ 25 ॥
यष्टिभिर्विमलैश्चक्रैर्निशितैश्चपरश्वथैः ।
भिंदिपालैःशतघ्नीभिरन्यैश्चापिवरायुधैः ॥ 26 ॥
अथानयद्बलाध्यक्षस्सत्वरोरावणाज्ञया ।
द्रुतंसूतसमायुक्तंयुक्ताष्टतुरगंरथम् ।
आरुरोहतदाभीमोदीप्यमानंस्वतेजसा ॥ 27 ॥
ततःप्रयातस्सहसाराक्षसैर्भहुभिर्वृतः ॥ 28 ॥
रावणःसत्त्वगांभीर्याद्दारयन्निवमेदिनीम् ।
रावणेनाभ्यनुज्ञातौमहापार्श्वमहोदरौ ।
विरूपाक्षश्चदुर्धर्षोरथानारुरुहुस्तदा ॥ 29 ॥
मोक्षितन् चात्मनो दृष्ट्वा प्रहारं तेन रक्षसा ।
स ददर्शांतरन् तस्य विरूपाक्षस्य वानरः ॥ 30 ॥
ततोयुद्धायतेजस्वीरक्षोगणबलैर्वृतः ।
निर्ययावुद्यतधनुःकालांतकयमोपमः ॥ 31 ॥
ततःप्रजविताश्वेनरथेन स महारथः ।
द्वारेणनिर्ययौतेनयत्रतौरामलक्ष्मणौ ॥ 32 ॥
ततोनष्टप्रभःसूर्योदिशश्चतिमिरावृताः ।
द्विजाश्चनेदुर्घोराश्चसंचचाल च मेदिनी ॥ 33 ॥
ववर्षरुधिरंदेवश्चस्खलुश्चतुरंगमाः ।
ध्वजाग्रेन्यपतद्गृध्रोविनेदुश्चाशिवाःशिवाः ॥ 34 ॥
नयनंचास्फुरद्वामंवामोबाहुरकंपत ।
विवर्णवदनश्साकतिंचिदभ्रश्यतस्वनः ॥ 35 ॥
ततोनिष्पततोयुद्धेदशग्रीवस्यरक्षसः ।
रणेनिधनशंसीनिरूपाण्येतानिजज्ञिरे ॥ 36 ॥
अंतरिक्षात्पपातोल्कानिराघतसमनिर्घास्वना ।
विनेदुरशिवागृध्रावायसैरभिमिश्रिताः ॥ 37 ॥
एतानचिंतयन्घोरानुत्पातान्समवस्थितान् ।
निर्ययौरावणोमोहाद्वधार्थंकालचोदितः ॥ 38 ॥
तेषांतुरथघोषेणराक्षसानांमहात्मनाम् ।
वानराणामपिचमूर्युद्धायैवाभ्यवर्तत ॥ 39 ॥
तेषांतुतुमुलंयुद्धंबभूवकपिरक्षसाम् ।
अन्योन्यमाह्वयानानांक्रुद्धानांजयमिच्छताम् ॥ 40 ॥
ततःक्रुद्धोदशग्रीवश्शरैःकांचनभूषणैः ।
वानराणामनीकेषुचकारकदनंमहत् ॥ 41 ॥
विकृत्तशिरसःकेचिद्रावणेनवलीमुखाः ।
केचिद्विच्छिन्नहृदयाःकेचिच्छ्रोत्रविवर्जिताः ॥ 42 ॥
निरुच्छवासाहताःकेचित्केचित्पार्श्वेषुदारिताः ।
केचिद्विभिन्नशिरसःकेचिच्चक्षुर्विनाकृताः ॥ 43 ॥
दशाननःक्रोधविवृत्तनेत्रोयतोयतोऽभ्येतिरथेवसंख्ये ।
ततस्ततस्तस्यशरप्रवेगंसोढुं न शेकुर्हरियूथपास्ते ॥ 44 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे षण्णवतितमस्सर्गः ॥