View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

6.33 युद्धकाण्ड - त्रयस्त्रिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ त्रयस्त्रिंशस्सर्गः ।

सीतान्तुमोहितान्दृष्टवासरमानामराक्षसी ।
आससादाथवैदेहीम्प्रियाम्प्रणयिनींसखी ॥ 1 ॥

मोहितांराक्षसेन्द्रेणसीताम्परमदुःखिताम् ।
आश्वासयामासतदासरमामृदुभाषिणी ॥ 2 ॥

साहितत्रकृतामित्रंसीतयारक्ष्यमाणया ।
रक्षन्तीरावणादिष्टासानुक्रोशादृढव्रता ॥ 3 ॥

साददर्शसखीसीतांसरमानष्टचेतनाम् ।
उपावृत्त्योत्थितान्ध्वस्ताम्बडबामिवपांसुलाम् ॥ 4 ॥

तांसमाश्वासयामाससखीस्नेहेनसुव्रता ।
समाश्वसिहिवैदेही माभूत्तेमवसोव्यथा ॥ 5 ॥

उक्तायद्रावणेनत्वम्प्रत्युक्तश्चस्वयन्त्वया ।
सखीस्नेहेनतभदीरुमयासर्वम्प्रतिश्रुतम् ॥ 6 ॥

लीनयागहनेशून्येभयमुत्सृज्यरावणात् ।
तवहेतोर्विशालाक्षी नहिमेजीवितम्प्रियम् ॥ 7 ॥

ससम्भ्रान्तश्चनिष्क्रान्तोयत्कृतेराक्षसाधिपः ।
तच्चमेविदितंसर्वमभिनिष्क्रम्यमैथिलिः ॥ 8 ॥

नशक्यंसौप्तिकङ्कर्तुंरामस्यविदितात्मनः ।
वधश्चपुरुषव्याघ्रेतस्मिन्नैवोपपद्यते ॥ 9 ॥

नत्वेववानराहन्तुंशक्याःपादपयोधिपः ।
सुरादेवर्षभेणेवरामेणहिसुरक्षिताः ॥ 10 ॥

दीर्घवृत्तभुज्शीमान्महोरस्कःप्रतापवान् ।
धन्वीसंहननोपेतोधर्मात्माभुविविश्रुतः ॥ 11 ॥

विक्रान्तोरक्षितानित्यमात्मनश्चपरस्यच ।
लक्ष्मणेनसहभ्रात्राकुशलीनयशास्त्रवित् ॥ 12 ॥

हन्तापरबलौघनामचिन्त्यबलपौरुषः ।
नहतोराघवश्रशीमान्सीतेः शत्रुनिबर्हणः ॥ 13 ॥

अयुक्तबुद्धिकृत्येनसर्वभूतविरोधिना ।
इहप्रमुक्तारौद्रेणमायामायाविदात्वयि ॥ 14 ॥

शोकस्तेविगतस्सर्वःकल्याणन्त्वामुपस्थितम् ।
ध्रुवन्त्वाम्भजतेलक्ष्मीःप्रियन्तेप्रीतिकरंशृणुः ॥ 15 ॥

उत्तीर्यसागरंरामस्सहवानरसेनया ।
सन्निविष्टःसमुद्रस्यतीरमासाद्यदक्षिणम् ॥ 16 ॥

दृष्टोमेपरिपूर्णार्थःकाकुत्स्थस्सहलक्ष्मणः ।
सहितैस्सागरान्तस्थैर्बलैस्तिष्ठतिरक्षितः ॥ 17 ॥

स तां श्रुत्वा विशाल अक्षि प्रवृत्तिं राक्षस अधिपः ।
एष मन्त्रयते सर्वैः सचिवैः सह रावणः ॥ 18 ॥

सतांश्रुत्वाविशालाक्षीः प्रवृत्तिंराक्षसाधिपः ।
एषमन्त्रयतेसर्वैस्सचिवैस्सहरावणः ॥ 19 ॥

इतिब्रुवाणासरमाराक्षसीसीतयासह ।
सर्वोद्योगेनसैन्यानांशब्दंशुश्रावभैरवम् ॥ 20 ॥

दण्डनिर्घातवादिन्याश्रुत्वाभेर्यामहास्वनम् ।
उवाचसरमासीतामिदम्मधुरभाषिणी ॥ 21 ॥

सन्नाहजननीह्येषाभैरवाभीरुः भेरिका ।
भेरीनादञ्चगम्भीरंशृणुतोयदनिःस्वनम् ॥ 22 ॥

कल्प्यन्तेमत्तमातङ्गायुज्यन्तेरथवाजिन ।
हृष्यन्तेतुरगारूढाःप्रासहस्तस्सहस्रशः ॥ 23 ॥

तत्रतत्रचसन्नद्धास्सपततनिपदातयः ।
अपूर्यन्तेराजमार्गास्सैन्यैरद्भुतदर्शनैः ॥ 24 ॥

वेगवभदिन्नदभदिश्चतोयौघैरिवसागरः ।
शस्त्राणाञ्चप्रसन्नानाञ्चर्मणांवर्मणान्तथा ॥ 25 ॥

रथवाजिगजानाञ्चभूषितानाञ्चराक्षसाम् ।
सम्भ्रमोराक्षसामेषहृषितानान्तरस्विनाम् ॥ 26 ॥

प्रभांविसृजताम्पश्यनानावर्णांसमुत्थिताम् ।
वनन्निर्धहतोघर्मेयथारूपंविभावसोः ॥ 27 ॥

घण्टानांशृणुनिर्घोषंरथानांशृणुनिःस्वनम् ।
हयानांहेषमाणानांशृणुतूर्यध्वनिंयथा ॥ 28 ॥

उद्यतायुधहस्तानांराक्षसेन्द्रानुयायिनाम् ।
सम्भ्रमोरक्षसामेषतुमुलोरोमहर्षणः ॥ 29 ॥

श्रीस्त्वाम्भजतिशोकघ्नीरक्षसाम्भयमागतम् ।
रामःकमलपत्राक्षोदैत्यानामिववासवः ॥ 30 ॥

निर्जित्यजितक्रोधस्त्वामचिन्तपराक्रमः ।
रावणंसमरेहत्वाभर्तात्वाऽधिगमिष्यति ॥ 31 ॥

विक्रमिष्यतिरक्षस्सुभर्तातेसहलक्ष्मणः ।
यथाशत्रुषुशत्रुघ्नोविष्णुनासहवासवः ॥ 32 ॥

हिरामस्यक्षिप्रमङ्कागतांसतीम् ।
अहन्द्रक्ष्यामिसिद्धार्धान्त्वांशत्रौविनिपातिते ॥ 33 ॥

अश्रूण्यानन्दजानित्वंवर्तयिष्यसिशोभने ।
समागम्यपरिष्वज्यतस्योरसिमहोरसः ॥ 34 ॥

अचिरान्मोक्ष्यतेसीते देवितेजघनङ्गताम् ।
धृतामेताम्बहून्मासान्वेणींरामोमहाबलः ॥ 35 ॥

तस्यदृष्टवामुखन्देवी पूर्णचन्द्रमिवोदितम् ।
मोक्ष्यसेशोकजंवारिनिर्मोकमिवपन्नगी ॥ 36 ॥

रावणंसमरेहत्वानचिराद्धेवीः मैथिलीः ।
त्वयासमग्रःप्रिययासुखार्होलप्स्यतेसुखम् ॥ 37 ॥

समागतात्वंवीर्येणमोदिष्यसिमहात्मना ।
सुवर्षेणसमायुक्तायथासस्येनमेदिनी ॥ 38 ॥

गिरिवरमभितोऽनुवर्तमानोहयैवमण्डलमाशुयःकरोति ।
तमिहशरणमभ्युपैहिदेवन्दिवसकरम्प्रभवोह्ययम्प्रजानाम् ॥ 39 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे त्रयस्त्रिंशस्सर्गः ॥




Browse Related Categories: