श्रीमद्वाल्मीकीय रामायणे सुन्दरकाण्डम् ।
अथ त्रयस्त्रिंशस्सर्गः ।
सोऽवतीर्य द्रुमात्तस्माद्विद्रुमप्रतिमाननः ।
विनीतवेषः कृपणः प्रणिपत्योपसृत्य च ॥ 1 ॥
तामब्रवीन्महातेजा हनूमान्मारुतात्मजः ।
शिरस्यञ्जलिमाधाय सीतां मधुरया गिरा ॥ 2 ॥
का नु पद्मपलाशाक्षि क्लिष्टकौशेयवासिनि ।
द्रुमस्य शाखामालम्ब्य तिष्ठसि त्वमनिन्दिते ॥ 3 ॥
किमर्थं तव नेत्राभ्यां वारि स्रवति शोकजम् ।
पुण्डरीकपलाशाभ्यां विप्रकीर्णमिवोदकम् ॥ 4 ॥
सुराणामसुराणां वा नागगन्धर्वरक्षसाम् ।
यक्षाणां किन्नराणां वा का त्वं भवसि शोभने ॥ 5 ॥
का त्वं भवसि रुद्राणां मरुतां वा वरानने ।
वसूनां हि वरारोहे देवता प्रतिभासि मे ॥ 6 ॥
कि नु चन्द्रमसा हीना पतिता विबुधालयात् ।
रोहिणी ज्योतिषां श्रेष्ठा श्रेष्ठसर्वगुणान्विता ॥ 7 ॥
का त्वं भवसि कल्याणि त्वमनिन्दितलोचने ।
कोपाद्वा यदि वा मोहाद्भर्तारमसितेक्षणे ॥ 8 ॥
वसिष्ठं कोपयित्वा त्वं नासि कल्याण्यरुन्धती ।
को नु पुत्रः पिता भ्राता भर्ता वा ते सुमध्यमे ॥ 9 ॥
अस्माल्लोकादमुं लोकं गतं त्वमनुशोचसि ।
रोदनादतिनिश्श्वासाद्भूमिसंस्पर्शनादपि ॥ 10 ॥
न त्वां देवीमहं मन्ये राज्ञ स्सर्वज्ञावधारणात् ।
व्यञ्जनानि च ते यानि लक्षणानि च लक्षये ॥ 11 ॥
महिषी भूमिपालस्य राजकन्या च मे मता ।
रावणेन जनस्थानाद्बलादपदहृता यदि ॥ 12 ॥
सीता त्वमसि भद्रं ते तन्ममाचक्ष्व पृच्छतः ।
यथा हि तव वै दैन्यं रूपं चाप्यतिमानुषम् ॥ 13 ॥
तपसा चान्वितो वेषस्त्वं राममहिषी ध्रुवम् ।
सा तस्य वचनं श्रुत्वा रामकीर्तनहर्षिता ॥ 14 ॥
उवाच वाक्यं वैदेही हनुमन्तं द्रुमाश्रितम् ।
पृथिव्यां राजसिंहानां मुख्यस्य विदितात्मनः ॥ 15 ॥
स्नुषा दशरथस्याहं शत्रुसैन्यप्रतापिनः ।
दुहिता जनकस्याहं वैदेहस्य महात्मनः ॥ 16 ॥
सीतेति नाम नाम्नाऽहं भार्या रामस्य धीमतः ।
समा द्वादश तत्राहं राघवस्य निवेशने ॥ 17 ॥
भुञ्जाना मानुषान्भोगान्सर्वकामसमृद्धिनी ।
तत्र त्रयोदशे वर्षे राज्येनेक्ष्वाकुनन्दनम् ॥ 18 ॥
अभिषेचयितुं राजा सोपाध्यायः प्रचक्रमे ।
तस्मिन्सम्भ्रियमाणे तु राघवस्याभिषेचने ॥ 19 ॥
कैकयी नाम भर्तारं देवी वचनमब्रवीत् ।
न पिबेयं न खादेयं प्रत्यहं मम भोजनम् ॥ 20 ॥
एष मे जीवितस्यान्तो रामो यद्यभिषिच्यते ।
यत्तदुक्तं त्वया वाक्यं प्रीत्या नृपतिसत्तम ॥ 21 ॥
तच्छेन्न वितथं कार्यं वनं गच्छतु राघवः ।
स राजा सत्यवाग्देव्या वरदानमनुस्मरन् ॥ 22 ॥
मुमोह वचनं श्रुत्वा कैकेय्याः क्रूरमप्रियम् ।
ततस्तु स्थविरो राजा सत्ये धर्मे व्यवस्थितः ॥ 23 ॥
ज्येष्ठं यशस्विनं पुत्रं रुदन्राज्यमयाचत ।
स पितुर्वचनं श्रीमानभिषेकात्परं प्रियम् ॥ 24 ॥
मनसा पूर्वमासाद्य वाचा प्रतिगृहीतवान् ।
दद्यान्न प्रतिगृह्णीयान्न ब्रूयात्किञ्चिदप्रियम् ॥ 25 ॥
अपि जीवितहेतोर्वा रामस्सत्यपराक्रमः ।
स विहायोत्तरीयाणि महार्हाणि महायशाः ॥ 26 ॥
विसृज्य मनसा राज्यं जनन्यै मां समादिशत् ।
साहं तस्याग्रतस्तूर्णं प्रस्थिता वनचारिणी ॥ 27 ॥
न हि मे तेन हीनाया वासस्स्वर्गेऽपि रोचते ।
प्रागेव तु महाभागस्सौमित्रिर्मित्रनन्दनः ॥ 28 ॥
पूर्वजस्यानुयात्रार्थे द्रुमचीरैरलङ्कृतः ।
ते वयं भर्तुरादेशं बहुमान्य दृढव्रताः ॥ 29 ॥
प्रविष्टास्स्म पुरादृष्टं वनं गम्भीरदर्शनम् ।
वसतो दण्डकारण्ये तस्याहममितौजसः ॥ 30 ॥
रक्षसाऽपहृता भार्या रावणेन दुरात्मना ।
द्वौ मासौ तेन मे कालो जीवितानुग्रहः कृतः ॥ 31 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे त्रयस्त्रिंशस्सर्गः ॥