श्रीमद्वाल्मीकीय रामायणे अरण्यकाण्डम् ।
अथ द्वादशस्सर्गः ।
सप्रविश्याऽश्रमपदं लक्ष्मणो राघवानुजः ।
अगस्त्यशिष्यमासाद्य वाक्यमेतदुवाच ह ॥ 1 ॥
राजा दशरथो नाम ज्येष्ठस्तस्य सुतो बली ।
रामः प्राप्तो मुनिं द्रष्टुं भार्यया सह सीतया ॥ 2 ॥
लक्ष्मणो नाम तस्याहं भ्राता त्ववरजो हितः ।
अनुकूलश्च भक्तश्च यदि ते श्रोत्रमागतः ॥ 3 ॥
ते वयं वनमत्युग्रं प्रविष्टाः पितृशासनात् ।
द्रष्टुमिच्छामहे सर्वे भगवन्तं निवेद्यताम् ॥ 4 ॥
तस्य तद् वचनं श्रुत्वा लक्ष्मणस्य तपोधनः ।
तथेत्युक्त्वाऽग्निशरणं प्रविवेश निवेदितुम् ॥ 5 ॥
स प्रविश्य मुनिश्रेष्ठं तपसा दुष्प्रधर्षणम् ।
कृताञ्जलिरुवाचेदं रामागमनमञ्जसा ॥ 6 ॥
यथोक्तं लक्ष्मणेनैव शिष्योऽगस्त्यस्य सम्मतः ।
पुत्रौ दशरथस्येमौ रामो लक्ष्मण एव च ॥ 7 ॥
प्रविष्टावाश्रमपदं सीतया सह भार्यया ।
द्रष्टुं भवन्तमायातौ शुश्रूषार्थमरिन्दमौ ॥ 8 ॥
यदत्रानन्तरं तत्त्वमाज्ञापयितुमर्हसि ।
ततश्शिष्यादुपश्रुत्य प्राप्तं रामं सलक्ष्मणम् ॥ 9 ॥
वैदेहीं च महाभागामिदं वचनमब्रवीत् ।
दिष्ट्या रामश्चिरस्याद्य द्रष्टुं मां समुपागतः ॥ 10 ॥
मनसा काङ्क्षितं ह्यस्य मयाप्यागमनं प्रति ।
गम्यतां सत्कृतो रामस्सभार्यस्सहलक्ष्मणः ॥ 11 ॥
प्रवेश्यतां समीपं मे किं चासौ न प्रवेशितः ।
एवमुक्तस्तु मुनिना धर्मज्ञेन महात्मना ॥ 12 ॥
अभिवाद्याब्रवीच्छिष्यस्तथेति नियताञ्जलिः ।
ततो निष्क्रम्य सम्भ्रान्तश्शिष्यो लक्ष्मणमब्रवीत् ॥ 13 ॥
क्वासौ रामो मुनिं द्रष्टुमेतु प्रविशतु स्वयम् ।
ततो गत्वाऽऽश्रमपदं शिष्येण सह लक्ष्मणः ॥ 14 ॥
दर्शयामास काकुत्स्थं सीतां च जनकात्मजाम् ।
तं शिष्यः प्रश्रितो वाक्यमगस्त्यवचनं ब्रुवन् ॥ 15 ॥
प्रावेशयद्यथान्यायं सत्कारार्हं सुसत्कृतम् ।
प्रविवेश ततो रामस्सीतया सहलक्ष्मणः ॥ 16 ॥
प्रशान्तहरिणाकीर्णमाश्रमं ह्यवलोकयन् ।
स तत्र ब्रह्मणः स्थानमग्नेः स्थानं तथैव च ॥ 17 ॥
विष्णोः स्थानं महेन्द्रस्य स्थानं चैव विवस्वतः ।
सोमस्थानं भगस्थानं स्थानं कौबेरमेव च ॥ 18 ॥
दातुर्विधातुः स्थानेच वायोः स्थानं तथैव च ।
नागराजस्य च स्थानमनन्तस्य महात्मनः ॥ 19 ॥
स्थानं तथैव गायत्र्या वसूनां स्थानमेव च ।
स्थानं च पाशहस्तस्य वरुणस्य महात्मनः ॥ 20 ॥
कार्तिकेयस्य च स्थानं धर्मस्थानं च पश्यति ।
स तत्र ब्रह्मणः स्थानमग्नेः स्थानं तथैव च ॥ 21 ॥
विष्णोः स्थानं महेन्द्रस्य स्थानं चैव विवस्वतः ।
सोमस्थानं भगस्थानं स्थानं कौबेरमेव च ॥ 22 ॥
धातुर्विधातुः स्थानं च वायोः स्थानं तथैव च ।
नागराजस्य च स्थानमनन्तस्य महात्मनः ॥ 23 ॥
स्थानं तथैव गायत्र्या वसूनां स्थानमेव च ।
स्थानं च पाशहस्तस्य वरुणस्य महात्मनः ॥ 24 ॥
कार्तिकेयस्य च स्थानं धर्मस्थानं च पश्यति ।
स तत्र ब्रह्मणः स्थानमग्नेः स्थानं तथैव च ॥ 25 ॥
विष्णोः स्थानं महेन्द्रस्य स्थानं चैव विवस्वतः ।
सोमस्थानं भगस्थानं स्थानं कौबेरमेव च ॥ 26 ॥
दातुर्विधातुः स्थानेच वायोः स्थानं तथैव च ।
नागराजस्य च स्थानमनन्तस्य महात्मनः ॥ 27 ॥
स्थानं तथैव गायत्र्या वसूनां स्थानमेव च ।
स्थानं च पाशहस्तस्य वरुणस्य महात्मनः ॥ 28 ॥
कार्तिकेयस्य च स्थानं धर्मस्थानं च पश्यति ।
ततश्शिष्यैः परिवृतो मुनिरप्यभिनिष्पतत् ॥ 29 ॥
तं ददर्शाग्रतो रामो मुनीनां दीप्ततेजसाम् ।
अब्रवीद्वचनं वीरो लक्ष्मणं लक्ष्मिवर्धनम् ॥ 30 ॥
एष लक्ष्मण निष्क्रामत्यगस्त्यो भगवानृषिः ।
औदार्येणावगच्छामि निधानं तपसामिमम् ॥ 31 ॥
एवमुक्त्वा महाबाहुरगस्त्यं सूर्यवर्चसम् ।
जग्राह परमप्रीतस्तस्य पादौ परन्तपः ॥ 32 ॥
अभिवाद्य तु धर्मात्मा तस्थौ रामः कृताञ्जलिः ।
सीतया सह वैदेह्या तदा रामः सलक्ष्मणः ॥ 33 ॥
प्रतिजग्राह काकुत्स्थमर्चयित्वासनोदकैः ।
कुशलप्रश्नमुक्त्वा च आस्यतामिति चाब्रवीत् ॥ 34 ॥
अग्निं हुत्वा प्रदायार्घ्यमतिथीन् प्रतिपूज्य च ।
वानप्रस्थ्येन धर्मेण स तेषां भोजनं ददौ ॥ 35 ॥
प्रथमं चोपविश्याथ धर्मज्ञो मुनिपुङ्गवः ।
उवाच राममासीनं प्राञ्जलिं धर्मकोविदम् ॥ 36 ॥
अग्निं हुत्वा प्रदायार्घ्यमतिथिं प्रतिपूजयेत् ।
अन्यथा खलु काकुत्स्थ तपस्वी समुदाचरन् ॥ 37 ॥
दुःसाक्षीव परे लोके स्वानि मांसानि भक्षयेत् ।
राजा सर्वस्य लोकस्य धर्मचारी महारथः ॥ 38 ॥
पूजनीयश्च मान्यश्च भवान् प्राप्तः प्रियातिथिः ।
एवमुक्त्वा फलैर्मूलैः पुष्पैरन्यैश्च राघवम् ॥ 39 ॥
पूजयित्वा यथाकामं पुनरेव ततोऽब्रवीत् ।
इदं दिव्यं महच्चापं हेमरत्नविभूषितम् ॥ 40 ॥
वैष्णवं पुरुषव्याघ्र निर्मितं विश्वकर्मणा ।
अमोघस्सूर्यसङ्काशो ब्रह्मदत्तश्शरोत्तमः ॥ 41 ॥
दत्तौ मम महेन्द्रेण तूणी चाक्षयसायकौ ।
सम्पूर्णौ निशितैर्बाणैर्ज्वलद्भिरिव पावकैः ॥ 42 ॥
महारजतकोशोऽयमसिर्हेमविभूषितः ।
अनेन धनुषा राम हत्वा सङ्ख्ये महासुरान् ॥ 43 ॥
आजहार श्रियं दीप्तां पुरा विष्णुर्दिवौकसाम् ।
तद्धनुस्तौ च तूणीरौ शरं खङ्गं च मानद ॥ 44 ॥
जयाय प्रतिगृह्णीष्व वज्रं वज्रधरो यथा ।
एवमुक्त्वा महातेजाः समस्तं तद्वरायुधम् ।
दत्वा रामाय भगवानगस्त्यः पुनरब्रवीत् ॥ 45 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकाण्डे द्वादशस्सर्गः ॥