श्रीमद्वाल्मीकीय रामायणे अयोध्याकाण्डम् ।
अथ षड्विंशस्सर्गः ।
अभिवाद्य च कौसल्यां राम स्सम्प्रस्थितो वनम् ।
कृतस्वस्त्ययनो मात्रा धर्मिष्ठे वर्त्मनि स्थितः ॥ 1 ॥
विराजयन्राजसुतो राजमार्गं नरैर्वृतम् ।
हृदयान्याममन्थेव जनस्य गुणवत्तया ॥ 2 ॥
अभिवाद्य च कौसल्यां राम स्सम्प्रस्थितो वनम् ।
कृतस्वस्त्ययनो मात्रा धर्मिष्ठे वर्त्मनि स्थितः ॥ 3 ॥
विराजयन्राजसुतो राजमार्गं नरैर्वृतम् ।
हृदयान्याममन्थेव जनस्य गुणवत्तया ॥ 4 ॥
वैदेही चापि तत्सर्वं न शुश्राव तपस्विनी ।
तदेव हृदि तस्याश्च यौवराज्याभिषेचनम् ॥ 5 ॥
देवकार्यं स्वयं कृत्वा कृतज्ञा हृष्टचेतना ।
अभिज्ञा राजधर्माणां राजपुत्रं प्रतीक्षते ॥ 6 ॥
प्रविवेशाथ रामस्तु स्वं वेश्म सुविभूषितम् ।
प्रहृष्टजनसम्पूर्णं ह्रिया किञ्चिदवाङ्मुखः ॥ 7 ॥
अथ सीता समुत्पत्य वेपमाना च तं पतिम् ।
अपश्यच्छोकसन्तप्तं चिन्ताव्याकुलितेन्द्रियम् ॥ 8 ॥
तां दृष्ट्वा स हि धर्मात्मा न शशाक मनोगतम् ।
तं शोकं राघवः सोढुं ततो विवृततां गतः ॥ 9 ॥
विवर्णवदनं दृष्ट्वा तं प्रस्विन्नममर्षणम् ।
आह दुःखाभिसन्तप्ता किमिदानीमिदं प्रभो ॥ 10 ॥
अद्य बार्हस्पत श्श्रीमान्युक्तः पुष्योऽनु राघव ।
प्रोच्यते ब्राह्मणैः प्राज्ञैः केन त्वमसि दुर्मनाः ॥ 11 ॥
न ते शतशलाकेन जलफेननिभेन च ।
आवृतं वदनं वल्गु छत्रेणापि विराजते ॥ 12 ॥
व्यजनाभ्यां च मुख्याभ्यां शतपत्रनिभेक्षणम् ।
चन्द्रहंसप्रकाशाभ्यां वीज्यते न तवाननम् ॥ 13 ॥
वाग्मिनो वन्दिनश्चापि प्रहृष्टास्त्वां नरर्षभ ।
स्तुवन्तो नात्र दृश्यन्ते मङ्गलैः स्सूतमागधाः ॥ 14 ॥
न ते क्षौद्रं च दधि च ब्राह्मणा वेदपारगाः ।
मूर्ध्नि मूर्धाभिषिक्तस्य ददति स्म विधानतः ॥ 15 ॥
न त्वां प्रकृतय स्सर्वा श्श्रेणीमुख्याश्च भूषिताः ।
अनुव्रजितुमिच्छन्ति पौरजानपदास्तथा ॥ 16 ॥
चतुर्भिर्वेगसम्पन्नैर्हयैः काञ्चनभूषितैः ।
मुख्यः पुष्यरथो युक्तः किं न गच्छति तेऽग्रतः ॥ 17 ॥
हस्ती चाग्रत श्श्रीमां स्तव लक्षणपूजितः ।
प्रयाणे लक्ष्यते वीर कृष्णमेघगिरि प्रभः ॥ 18 ॥
न च काञ्चनचित्रं ते पश्यामि प्रियदर्शन ।
भद्रासनं पुरस्कृत्य यान्तं वीर पुरस्कृतम् ॥ 19 ॥
अभिषेको यथा सज्जः किमिदानीमिदं तव ।
अपूर्वो मुखवर्णश्च न प्रहर्षश्च लक्ष्यते ॥ 20 ॥
इतीव विलपन्तीं तां प्रोवाच रघुनन्दनः ।
सीते तत्र भवांस्तातः प्रव्राजयति मां वनम् ॥ 21 ॥
कुले महति सम्भूते धर्मज्ञे धर्मचारिणि ।
शृणु जानकि येनेदं क्रमेणाभ्यागतं मम ॥ 22 ॥
राज्ञा सत्यप्रतिज्ञेन पित्रा दशरथेन च ।
कैकेय्यै मम मात्रे तु पुरा दत्तौ महावरौ ॥ 23 ॥
तयाऽद्य मम सज्जेऽस्मिन्नभिषेके नृपोद्यते ।
प्रचोदित स्स समयो धर्मेण प्रतिनिर्जितः ॥ 24 ॥
चतुर्दश हि वर्षाणि वस्तव्यं दण्डके मया ।
पित्रा मे भरतश्चापि यौवराज्ये नियोजितः ॥ 25 ॥
सोऽहं त्वामागतो द्रष्टुं प्रस्थितो विजनं वनम् ।
भरतस्य समीपे तु नाहं कथ्यः कदाचन ॥ 26 ॥
बुद्धियुक्ता हि पुरुषा न सहन्ते परस्तवम् ।
तस्मान्नते गुणाः कथ्या भरतस्याग्रतो मम ॥ 27 ॥
नापि त्वं तेन भर्तव्या विशेषेण कदाचन ।
अनुकूलतया शक्यं समीपे त्वस्य वर्तितुम् ॥ 28 ॥
तस्मै दत्तं नृपतिना यौवराज्यं सनातनम् ।
स प्रसाद्यस्त्वया सीते नृपतिश्च विशेषतः ॥ 29 ॥
अहं चापि प्रतिज्ञां तां गुरोस्समनुपालयन् ।
वनमद्यैव यास्यामि स्थिरा भव मनस्विनी ॥ 30 ॥
याते च मयि कल्याणि वनं मुनिनिषेवितम् ।
व्रतोपवासपरया भवितव्यं त्वयाऽनघे ॥ 31 ॥
काल्यमुत्थाय देवानां कृत्वा पूजां यथाविधि ।
वन्दितव्यो दशरथः पिता मम नरेश्वरः ॥ 32 ॥
वन्दितव्याश्च ते नित्यं या श्शेषा मम मातरः ।
स्नेह प्रणयसम्भोगै स्समा हि मम मातरः ॥ 33 ॥
भ्रातृपुत्रसमौ चापि द्रष्टव्यौ च विशेषतः ।
त्वया भरतशत्रुघ्नौ प्राणैः प्रियतरौ मम ॥ 34 ॥
विप्रियं न च कर्तव्यं भरतस्य कदाचन ।
स हि राजा प्रभुश्चैव देशस्य च कुलस्य च ॥ 35 ॥
आराधिता हि शीलेन प्रयत्नैश्चोपसेविताः ।
राजान स्सम्प्रसीदन्ति कुप्यन्तिच विपर्यये ॥ 36 ॥
औरसानपि पुत्रान्हि त्यजन्त्यहितकारिणः ।
समर्थान्सम्प्रगृह्णन्ति जनानपि नराधिपाः ॥ 37 ॥
सा त्वं वसेह कल्याणि राज्ञस्समनुवर्तिनी ।
भरतस्य रता धर्मे सत्यव्रतपरायणा ॥ 38 ॥
अहं गमिष्यामि महावनं प्रिये त्वया हि वस्तव्यमिहैव भामिनि ।
यथा व्यलीकं कुरुषे न कस्य चि त्तथा त्वया कार्यमिदं वचो मम ॥ 39 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकाण्डे षड्विंशस्सर्गः ॥