View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

6.89 युद्धकाण्ड - एकोननवतितम सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ एकोननवतितमस्सर्गः ।

ततश्शरान् दाशरथिस्सन्धायामित्रकर्शणः ।
ससर्जराक्षसेन्द्रायकृद्धस्सर्पैवश्वसन् ॥ 1 ॥

तस्यज्यातलनिर्घोषं स श्रुत्वाराक्षसाधिपः ।
विवर्णवदनोभूत्वालक्ष्मणंसमुदैक्षत ॥ 2 ॥

विषण्णवदनन्दृष्टवाराक्षसंरावणात्मजे ।
सौमित्रिंयुद्धसंयुक्तम्प्रत्युवाचविभीषणः ॥ 3 ॥

निमित्तान्युपपश्यामियान्यस्मिन् रावणात्मजे ।
त्वरतेनमहाबाहोभग्नएष न संशयः ॥ 4 ॥

ततस्सन्धायसौमित्रिश्शरानग्निशिखोपमान् ।
मुमोचनिशितांस्तस्मिन् सर्पानिवमहाविषान् ॥ 5 ॥

शक्राशनिसमस्पर्शैर्लक्ष्मणेनाहतश्शरैः ।
मुहूर्तमभवन्मूक्षःसर्वसङ्क्षुभितेन्द्रियः ॥ 6 ॥

उपलभ्यमुहूर्तेनसञ्ज्ञाम्प्रत्यागतेन्द्रियः ।
ददर्शावस्थितंवीरंवीरोदशरथात्मजम् ॥ 7 ॥

सोऽभिचक्रामसौमित्रिंरोषात्संरक्तलोचनः ।
अब्रवीच्चैनमासाद्यपुनस्सपरुषंवचः ॥ 8 ॥

किं न स्मरसितद्युद्धेप्रथमेमत्पराक्रमम् ।
निबद्धस्त्वंसहभ्रात्रायदाभुविविचेष्टसे ॥ 9 ॥

युवाङ्खलुमहायुद्धेशक्रानिसमैश्शरैः ।
शायितौप्रथमम्भूमौविसञ्ज्ञौसपुरस्सरौ ॥ 10 ॥

स्मृतिर्वानास्तितेमन्येव्यक्तंवायमसादनम् ।
गन्तुमिच्छसियस्मात्त्वमन्धर्षयितुमिच्छसि ॥ 11 ॥

यदितेप्रथमेयुद्धे न दृष्टोमत्पराक्रमः ।
अद्यतेदर्शयिष्यामितिष्ठेदानींव्यवस्थितः ॥ 12 ॥

इत्युक्त्वासप्तभिर्भाणैरभिविव्याथलक्ष्मणम् ।
दशभिस्तुहनूमन्तन्तीक्ष्णधाश्शरोत्तमैः ॥ 13 ॥

ततःशरशतेनैवसुप्रयुक्तेनवीर्यवान् ।
क्रोथाव्दिगुणसम्रब्धोनिर्बिभेदविभीषणम् ॥ 14 ॥

तद्दष्टवेन्द्रजिताकर्मकृतंरामानुजस्तदा ।
अचिन्तयित्वाप्रहसन्नैतत्किञ्चिदितिब्रुवन् ॥ 15 ॥

मुमोच च शरान् घोरान् सम्गृह्यनरपुङ्गवः ।
अभीतवदनःक्रुद्धोरावणिंलक्ष्मणोयुधि ॥ 16 ॥

नैवंरणगताःशूराःप्रहरन्तिनिशाचर ।
लघवश्चाल्पवीर्याश्चशरासुखास्तवहीमे ॥ 17 ॥

नैवंशूरास्तुयुध्यन्तेसमरेजयकाङ्क्षिणः ।
इत्येवन्तम्ब्रुवाणस्तुधन्वीशरैरभिववर्ष ह ॥ 18 ॥

स्यबाणैस्सुविध्वस्तङ्कवचङ्काञ्चनम्महत् ।
व्यशीर्यतरथोपस्थेताराजालमिव्बारात् ॥ 19 ॥

विधूतवर्मानाराचैर्भभूव स कृतव्रणः ।
इन्द्रजित्समरेवीरःप्रत्यूषेभानुमानिव ॥ 20 ॥

ततःशरसहस्रेणसङ्क्रुद्धोरावणात्मजः ।
बिभेदसमरेवीरोलक्ष्मणम्भीमविक्रमः ॥ 21 ॥

व्यशीर्यतमहद्धिव्यङ्कवचंलक्ष्मणस्य च ।
कृतप्रतिकृतान्योन्यम्बभूवतुरभिद्रुतौ ॥ 22 ॥

अभीक्ष्णन्निश्श्वसन्तौतौयुध्येतान्तुमुलंयुधि ।
शरसङ्कृत्तसर्वाङ्गौसर्वतोरुधिरोक्षितौ ॥ 23 ॥

सुदीर्घकालन्तौवीरावन्योन्यनिशितैःशरैः ।
ततक्षतुर्महात्मानौरणकर्मविहारदौ ॥ 24 ॥

बभूवतुश्चात्मजयेयत्तौभीमपराक्रमौ ।
तौशरौघैस्तदाकीर्णौनिकृत्तकवचध्वजौ ॥ 25 ॥

सृजन्तौरुधिरञ्चोष्णञ्जलम्प्रस्रवणाविव ।
शरवर्षन्ततोघोरम्मुञ्चतोर्भीमनिःस्वनम् ॥ 26 ॥

सासारयोरिवाकाशेनीलयोःकालमेघयोः ।
तयोरथमहान्कालोव्यत्ययाद्युध्यमानयोः ॥ 27 ॥

न च तौयुद्धवैमुख्यंश्रमंवाप्युपजग्मतुः ।
अस्त्राण्यस्त्रविदांश्रेष्ठौदर्शयन्तौपुनःपुनः ॥ 28 ॥

शरानुच्छावचाकारानन्तरिक्षेबबन्धतुः ।
न्यपेतदोषमस्यन्तौलघुचित्रं च सुष्ठु च ॥ 29 ॥

उभौतुतुमुलङ्घोरञ्चक्रतुर्नरराक्षसौ ।
तयोःपृथक् पृथभगीमश्शुश्रुवेतलनिस्स्वनः ॥ 30 ॥

प्रकम्पयन्जनङ्घोरोनिर्घातैवदारुणः ।
सतयोःभ्राजतेशब्दस्तदासमरयत्तयोः ॥ 31 ॥

सुघोरयोर्निष्टनतोर्गगनेमेघयोरिव ।
सुवर्णपुङ्खैर्नाराचैर्बलवन्तौकृतव्रणौ ॥ 32 ॥

प्रसुस्रुवातेरुधिरङ्कीर्तिमन्तौजयेधृतौ ।
तेगात्रयोर्निपतितारुक्मपुङ्खाःशरायुधि ॥ 33 ॥

असृदगिग्धाविनिष्पेतुर्विविशुर्धरणीतलम् ।
अन्येसुनिशितैश्शस्त्रैराकाशेसञ्जघट्टिरे ॥ 34 ॥

बभञ्जुश्चिच्छिदुश्चैवतयोर्बाणाःसहस्रशः ।
सबभूवरणेघोरस्तयोर्बाणमयश्चयः ॥ 35 ॥

अग्निभ्यामिवदीप्ताभ्यांसत्रेकुशमयश्चयः ।
तयोःकृतव्रणौदेहौशुशुभातेमहात्मनोः ॥ 36 ॥

सुपुष्पाविवनिष्पत्रौवनेशाल्मलिकिंशुकौ ।
चक्रतुस्तुमुलङ्घोरंसन्निपातम्मुहुर्मुहुः ॥ 37 ॥

इन्द्रजिल्लक्ष्मणश्चैवपरस्परवधैषिणौ ।
लक्ष्मणोरावणिंयुद्धेरावणिश्चापिलक्ष्मणम् ॥ 38 ॥

अन्योन्यन्तावभिघ्नन्तौ न श्रमम्प्रतिपद्यताम् ।
बाणजालैश्शरीरस्थैरवगाढैस्तरस्विनौ ॥ 39 ॥

शुशुभातेमहावीर्यौप्ररूढाविवपर्वतौ ।
तयोरुधिरसिक्तानिसम्वृतान्तिशरैर्भृशम् ॥ 40 ॥

बभ्राजुःसर्वगात्राणिज्वलन्तैवपावकाः ।
तयोरथमहान् कालोव्यतीयाद्युध्यमानयोः ॥ 41 ॥

न च तौयुद्धवैमुख्यंश्रमंवाप्युपजग्मतुः ।
अथसमरपरिश्रमन्निहन्तुंसमरमुखेष्वजितस्यलक्ष्मणस्य ।
प्रियहितमुपपादयन्महौत्मास्समरमुपेत्यविभीषणोऽवतस्थे ॥ 42 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे एकोननवतितमस्सर्गः ॥




Browse Related Categories: