श्रीमद्वाल्मीकीय रामायणे बालकाण्डम् ।
अथ पञ्चचत्वारिंशस्सर्गः ।
विश्वामित्रवचश्श्रुत्वा राघव स्सहलक्ष्मणः ।
विस्मयं परमं गत्वा विश्वामित्रमथाब्रवीत् ॥ 1 ॥
अत्यद्भुतमिदं ब्रह्मन् कथितं परमं त्वया ।
गङ्गावतरणं पुण्यं सागरस्यापि पूरणम् ॥ 2 ॥
तस्य सा शर्वरी सर्वा सह सौमित्रिणा तदा ।
जगाम चिन्तयानस्य विश्वामित्रकथां शुभाम् ॥ 3 ॥
ततः प्रभाते विमले विश्वामित्रं महामुनिम् ।
उवाच राघवो वाक्यं कृताह्निकमरिन्दमः ॥ 4 ॥
गता भगवती रात्रिश्श्रोतव्यं परमं श्रुतम् ।
क्षणभूतेव नौ रात्रि स्सम्वृत्तेयं महातपः ॥ 5 ॥
इमां चिन्तयतस्सर्वां निखिलेन कथां तव ।
तराम सरितां श्रेष्ठां पुण्यां त्रिपथगां नदीम् ॥ 6 ॥
नौरेषा हि सुखास्तीर्णा ऋषीणां पुण्यकर्मणाम् ।
भगवन्तमिह प्राप्तं ज्ञात्वा त्वरितमागता ॥ 7 ॥
तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः ।
सन्तारं कारयामास सर्षिसङ्घ स्सराघवः ॥ 8 ॥
उत्तरं तीरमासाद्य सम्पूज्यर्षिगणं तदा ।
गङ्गाकूले निविष्टास्ते विशालां ददृशुः पुरीम् ॥ 9 ॥
ततो मुनिवरस्तूर्णं जगाम सह राघवः ।
विशालां नगरीं रम्यां दिव्यां स्वर्गोपमां तदा ॥ 10 ॥
अथ रामो महाप्राज्ञो विश्वामित्रं महामुनिम् ।
पप्रच्छ प्राञ्जलिर्भूत्वा विशालामुत्तमां पुरीम् ॥ 11 ॥
कतरो राजवंशोऽयं विशालायां महामुने ।
श्रोतुमिच्छामि भद्रं ते परं कौतूहलं हि मे ॥ 12 ॥
तस्य तद्वचनं श्रुत्वा रामस्य मुनिपुङ्गवः ।
आख्यातुं तत्समारेभे विशालस्य पुरातनम् ॥ 13 ॥
श्रूयतां राम शक्रस्य कथां कथयतश्शुभाम् ।
अस्मिन् देशे तु यद्वृत्तं तदपि शृणु राघव ॥ 14 ॥
पूर्वं कृतयुगे राम दितेः पुत्रा महाबलाः ।
अदितेश्च महाभाग वीर्यवन्तस्सुधार्मिकाः ॥ 15 ॥
ततस्तेषां नरश्रेष्ठ बुद्धिरासीन्महात्मनाम् ।
अमरा अजराश्चैव कथं स्याम निरामयाः ॥ 16 ॥
तेषां चिन्तयतां राम बुद्धिरासीन्महात्मनाम् ।
क्षीरोदमथनं कृत्वा रसं प्राप्स्याम तत्र वै ॥ 17 ॥
ततो निश्चित्य मथनं योक्त्रं कृत्वा च वासुकिम् ।
मन्थानं मन्दरं कृत्वा ममन्थुरमितौजसः ॥ 18 ॥
अथ वर्षसहस्रेण योक्त्रसर्पशिरांसि च ।
वमन्त्यति विषं तत्र ददंशुर्दशनैश्शिलाः ॥ 19 ॥
उत्पपाताग्निसङ्काशं हालाहलमहाविषम् ।
तेन दग्धं जगत्सर्वं सदेवासुरमानुषम् ॥ 20 ॥
अथ देवा महादेवं शङ्करं शरणार्थिनः ।
जग्मुः पशुपतिं रुद्रं त्राहि त्राहीति तुष्टुवुः ॥ 21 ॥
एवमुक्तस्ततो देवैर्देवदेवेश्वरः प्रभुः ।
प्रादुरासीत्ततोऽत्रैव शङ्खचक्रधरो हरिः ॥ 22 ॥
उवाचैनं स्मितं कृत्वा रुद्रं शूलभृतं हरिः ।
दैवतैर्मथ्यमाने तु यत्पूर्वं समुपस्थितम् ॥ 23 ॥
त्वदीयंहि सुरश्रेष्ठ सुराणामग्रजोऽसि यत् ।
अग्रपूजामिमां मत्वा गृहाणेदं विषं प्रभो ॥ 24 ॥
इत्युक्त्वा च सुरश्रेष्ठस्तत्रैवान्तरधीयत ।
देवतानां भयं दृष्टवाश्रुत्वा वाक्यं तु शार्ङ्गिणः ।
हालाहलविषं घोरं स जग्राहामृतोपमम् ॥ 25 ॥
देवान्विसृज्य देवेशो जगाम भगवान् हरः ।
ततो देवासुरास्सर्वे ममन्थू रघुनन्दन ॥ 26 ॥
प्रविवेशाथ पातालं मन्थानः पर्वतोऽनघ ।
ततो देवास्सगन्धर्वास्तुष्टुवुर्मधुसूदनम् ॥ 27 ॥
त्वं गतिः सर्वभूतानां विशेषेण दिवौकसाम् ।
पालयास्मान्महाबाहो गिरिमुद्धर्तुमर्हसि ॥ 28 ॥
इति श्रुत्वा हृषीकेशः कामठं रूपमास्थितः ।
पर्वतं पृष्ठतः कृत्वा शिश्ये तत्रोदधौ हरिः ॥ 29 ॥
पर्वताग्रे तु लोकात्मा हस्तेनाक्रम्य केशवः ।
देवानां मध्यतः स्थित्वा ममन्थ पुरुषोत्तमः ॥ 30 ॥
अथ वर्षसहस्रेण सदण्डस्सकमण्डलुः ।
पूर्वं धन्वन्तरिर्नाम अप्सराश्च सुवर्चसः ॥ 31 ॥
अप्सु निर्मथनादेव रसास्तस्माद्वरस्त्रियः ।
उत्पेतुर्मनुजश्रेष्ठ तस्मादप्सरसोऽभवन् ॥ 32 ॥
षष्टिः कोट्योऽभवंस्तासां अप्सराणां सुवर्चसाम् ।
असङ्ख्येयास्तु काकुत्स्थ यास्तासां परिचारिकाः ॥ 33 ॥
न तास्स्म परिगृह्णन्ति सर्वे ते देवदानवाः ।
अप्रतिग्रहणात्ताश्च सर्वास्साधारणास्स्मृताः ॥ 34 ॥
वरुणस्य ततः कन्या वारुणी रघुनन्दन ।
उत्पपात महाभागा मार्गमाणा परिग्रहम् ॥ 35 ॥
दितेः पुत्रा न तां राम जगृहुर्वरुणात्मजाम् ।
अदितेस्तु सुता वीर जगृहुस्तामनिन्दिताम् ॥ 36 ॥
असुरास्तेन दैतेयास्सुरास्तेनादितेस्सुताः ।
हृष्टाः प्रमुदिताश्चासन् वारुणीग्रहणात्सुराः ॥ 37 ॥
उच्चैश्श्रवा हयश्रेष्ठो मणिरत्नं च कौस्तुभम् ।
उदतिष्ठन्नरश्रेष्ठ तथैवामृतमुत्तमम् ॥ 38 ॥
अथ तस्य कृते राम महानासीत्कुलक्षयः ।
अदितेस्तु ततः पुत्रा दितेः पुत्रानसूदयन् ॥ 39 ॥
एकतोऽभ्यागमन् सर्वे ह्यसुरा राक्षसैस्सह ।
युद्धमासीन्महाघोरं वीर त्रैलोक्यमोहनम् ॥ 40 ॥
यदा क्षयं गतं सर्वं तदा विष्णुर्महाबलः ।
अमृतं सोऽहरत्त्तूर्णं मायामास्थाय मोहिनीम् ॥ 41 ॥
ये गताऽभिमुखं विष्णुमक्षयं पुरुषोत्तमम् ।
सम्पिष्टास्ते तदा युद्धे विष्णुना प्रभविष्णुना ॥ 42 ॥
अदितेरात्मजा वीरा दितेः पुत्रान्निजघ्निरे ।
तस्मिन् घोरे महायुद्धे दैतेयादित्ययोर्भृशम् ॥ 43 ॥
निहत्य दितिपुत्रांश्च राज्यं प्राप्य पुरन्दरः ।
शशास मुदितो लोकान् सर्षिसङ्घान् सचारणान् ॥ 44 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकाण्डे पञ्चचत्वारिंशस्सर्गः ॥