श्रीमद्वाल्मीकीय रामायणे बालकाण्डम् ।
अथ नवमस्सर्गः ।
एतच्छ्रुत्वा रहस्सूतो राजानमिदमब्रवीत् ।
ऋत्विग्भिरुपदिष्टोऽयं पुरावृत्तो मया श्रुतः ॥ 1 ॥
सनत्कुमारो भगवान्पूर्वं कथितवान्कथाम् ।
ऋषीणां सन्निधौ राजन् तव पुत्रागमं प्रति ॥ 2 ॥
काश्यपस्यतु पुत्रोऽस्ति विभण्डक इति श्रुतः ।
ऋष्यशृङ्ग इति ख्यातस्तस्य पुत्रो भविष्यति ॥ 3 ॥
स वने नित्यसंवृद्धो मुनिर्वनचरस्सदा ।
नान्यं जानाति विप्रेन्द्रो नित्यं पित्रनुवर्तनात् ॥ 4 ॥
द्वैविध्यं ब्रह्मचर्यस्य भविष्यति महात्मनः ।
लोकेषु प्रथितं राजन्विप्रैश्च कथितं सदा ॥ 5 ॥
तस्यैवं वर्तमानस्य कालस्समभिवर्तत ।
अग्निं शुश्रूषमाणस्य पितरं च यशस्विनम् ॥ 6 ॥
एतस्मिन्नेव काले तु रोमपादः प्रतापवान् ।
अङ्गेषु प्रथितो राजा भविष्यति महाबलः ॥ 7 ॥
तस्य व्यतिक्रमाद्राज्ञो भविष्यति सुदारुणा ।
अनावृष्टिस्सुघोरा वै सर्वभूतभयावहा ॥ 8 ॥
अनावृष्ट्यां तु वृत्तायां राजा दुःखसमन्वितः ।
ब्राह्मणान्श्रुतवृद्धांश्च समानीय प्रवक्ष्यति ॥ 9 ॥
भवन्तश्श्रुतधर्माणो लोकचारित्रवेदिनः ।
समादिशन्तु नियमं प्रायश्चित्तं यथा भवेत् ॥ 10 ॥
वक्ष्यन्ति ते महीपालं ब्राह्मणा वेदपारगाः ।
विभण्डकसुतं राजन्सर्वोपायैरिहानय ॥ 11 ॥
आनाय्य च महीपाल ऋश्यशृङ्गं सुसत्कृतम् ।
प्रयच्छ कन्यां शान्तां वै विधिना सुसमाहितः ॥ 12 ॥
तेषां तु वचनं श्रुत्वा राजा चिन्तां प्रपत्स्यते ।
केनोपायेन वै शक्य इहानेतुं स वीर्यवान् ॥ 13 ॥
ततो राजा विनिश्चित्य सह मन्त्रिभिरात्मवान् ।
पुरोहितममात्यांश्च ततः प्रेष्यति सत्कृतान् ॥ 14 ॥
ते तु राज्ञो वचश्श्रुशृत्वा व्यथिता विनताननाः ।
न गच्छेम ऋषेर्भीता अनुनेष्यन्ति तं नृपम् ॥ 15 ॥
वक्ष्यन्ति चिन्तयित्वा ते तस्योपायांश्च तत्क्षमान् ।
आनेष्यामो वयं विप्रं न च दोषो भविष्यति ॥ 16 ॥
एवमङ्गाधिपेनैव गणिकाभिः ऋषेस्सुतः ।
आनीतोऽवर्षयद्देवश्शान्ता चास्मै प्रदीयते ॥ 17 ॥
ऋश्यशृङ्गस्तु जामाता पुत्रांस्तव विधास्यति ।
सनत्कुमारकथितमेतावद्व्याहृतं मया ॥ 18 ॥
अथ हृष्टो दशरथस्सुमन्त्रं प्रत्यभाषत ।
यथर्श्यशृङ्गस्त्वानीतो विस्तरेण त्वयोच्यताम् ॥ 19 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकाण्डे नवमस्सर्गः ॥