श्रीमद्वाल्मीकीय रामायणे अयोध्याकाण्डम् ।
अथ एकविंशस्सर्गः ।
तथा तु विलपन्तीं तां कौसल्यां राममातरम् ।
उवाच लक्ष्मणो दीनस्तत्कालसदृशं वचः ॥ 1 ॥
न रोचते ममाप्येतदार्ये यद्राघवो वनम् ।
त्यक्त्वा राज्यश्रियं गच्छेत् स्त्रिया वाक्यवशं गतः ॥ 2 ॥
विपरीतश्च वृद्धश्च विषयैश्च प्रधर्षितः ।
नृपः किमिव न ब्रूयाच्चोद्यमानस्समन्मथः ॥ 3 ॥
नास्यापराधं पश्यामि नापि दोषं तथाविधम् ।
येन निर्वास्यते राष्ट्राद्वनवासाय राघवः ॥ 4 ॥
न तं पश्याम्यहं लोके परोक्षमपि यो नरः ।
स्वमित्रोऽपि निरस्तोऽपि योऽस्य दोषमुदाहरेत् ॥ 5 ॥
देवकल्पमृजुं दान्तं रिपूणामपि वत्सलम् ।
अवेक्षमाणः को धर्मं त्यजेत्पुत्रमकारणात् ॥ 6 ॥
तदिदं वचनं राज्ञःपुनर्बाल्यमुपेयुषः ।
पुत्रः को हृदये कुर्याद्राजवृत्तमनुस्मरन् ॥ 7 ॥
यावदेव न जानाति कश्चिदर्थमिमं नरः ।
तावदेव मया सार्धमात्मस्थं कुरु शासनम् ॥ 8 ॥
मया पार्श्वे सधनुषा तव गुप्तस्य राघव ।
क स्समर्थोऽधिकं कर्तुं कृतान्तस्येव तिष्ठतः ॥ 9 ॥
निर्मनुष्यामिमां कृत्स्नामयोध्यां मनुजर्षभ ।
करिष्यामि शरैस्तीक्ष्णैर्यदि स्थास्यति विप्रिये ॥ 10 ॥
भरतस्याथ पक्ष्यो वा यो वाऽस्य हितमिच्छति ।
सर्वानेतान्वधिष्यामि मृदुर्हि परिभूयते ॥ 11 ॥
प्रोत्साहितोऽयं कैकेय्या स दुष्टो यदि नः पिता ।
अमित्रभूतो निस्सङ्गं वध्यतां बध्यतामपि ॥ 12 ॥
गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः ।
उत्पथं प्रतिपन्नस्य कार्यं भवति शासनम् ॥ 13 ॥
बलमेष किमाश्रित्य हेतुं वापुरुषर्षभ ।
दातुमिच्छति कैकेय्यै राज्यं स्थितमिदं तव ॥ 14 ॥
त्वया चैव मया चैव कृत्वा वैरमनुत्तमम् ।
काऽस्य शक्तिश्श्रियं दातुं भरतायारिशासन ॥ 15 ॥
अनुरक्तोऽस्मि भावेन भ्रातरं देवि तत्त्वतः ।
सत्येन धनुषा चैव दत्तेनेष्टेन ते शपे ॥ 16 ॥
दीप्तमग्निमरण्यं वा यदि रामः प्रवेक्ष्यति ।
प्रविष्टं तत्र मां देवि त्वं पूर्वमवधारय ॥ 17 ॥
हरामि वीर्याद्दुःखं ते तम स्सूर्य इवोदितः ।
देवी पश्यतु मे वीर्यं राघवश्चैव पश्यतु ॥ 18 ॥
एतत्तु वचनं श्रुत्वा लक्ष्मणस्य महात्मनः ।
उवाच रामं कौशल्या रुदन्ती शोकलालसा ॥ 19 ॥
भ्रातुस्ते वदतः पुत्र लक्ष्मणस्य श्रुतं त्वया ।
यदत्रानन्तरं कार्यं कुरुष्व यदि रोचते ॥ 20 ॥
न चाधर्म्यं वच श्रुत्वा सपत्न्या मम भाषितम् ।
विहाय शोकसन्तप्तां गन्तुमर्हसि मामितः ॥ 21 ॥
धर्मज्ञ यदि धर्मिष्ठो धर्मं चरितुमिच्छसि ।
शुश्रूष मामिहस्थस्त्वं चर धर्ममनुत्तमम् ॥ 22 ॥
शुश्रूषुर्जननीं पुत्र स्वगृहे नियतो वसन् ।
परेण तपसा युक्तः काश्यपस्त्रिदिवं गतः ॥ 23 ॥
यथैव राजा पूज्यस्ते गौरवेण तथाऽस्म्यहम् ।
त्वां नाहमनुजानामि न गन्तव्यमितो वनम् ॥ 24 ॥
त्वद्वियोगान्न मे कार्यं जीवितेन सुखेन वा ।
त्वया सह मम श्रेयस्तृणानामपि भक्षणम् ॥ 25 ॥
यदि त्वं यास्यसि वनं त्यक्त्वा मां शोकलालसाम् ।
अहं प्रायमिहासिष्ये न हि शक्ष्यामि जीवितुम् ॥ 26 ॥
ततस्त्वं प्राप्स्यसे पुत्र निरयं लोकविश्रुतम् ।
ब्रह्महत्यामिवाधर्मात्समुद्र स्सरितां पतिः ॥ 27 ॥
विलपन्तीं तथा दीनां कौसल्यां जननीं ततः ।
उवाच रामो धर्मात्मा वचनं धर्मसंहितम् ॥ 28 ॥
नास्ति शक्तिः पितुर्वाक्यं समतिक्रमितुं मम ।
प्रसादये त्वां शिरसा गन्तुमिच्छाम्यहं वनम् ॥ 29 ॥
ऋषिणा च पितुर्वाक्यं कुर्वता व्रतचारिणा ।
गौर्हता जानता धर्मं कण्डुनाऽपि विपश्चिता ॥ 30 ॥
अस्माकं च कुले पूर्वं सगरस्याज्ञया पितुः ।
खनद्भिस्सागरैर्भूमिमवाप्तस्सुमहान्वधः ॥ 31 ॥
जामद्ग्न्येन रामेण रेणुका जननी स्वयम् ।
कृत्ता परशुनाऽरण्ये पितुर्वचनकारिणा ॥ 32 ॥
एतैरन्यैश्च बहुभिर्देवि देवसमैः कृतम् ।
पितुर्वचनमक्लीबं करिष्यामि पितुर्हितम् ॥ 33 ॥
न खल्वेतन्मयैकेन क्रियते पितृशासनम् ।
एतैरपि कृतं देवि ये मया तव कीर्तिताः ॥ 34 ॥
नाहं धर्ममपूर्वं ते प्रतिकूलं प्रवर्तये ।
पूर्वैरयमभिप्रेतो गतो मार्गोऽनुगम्यते ॥ 35 ॥
तदेतत्तु मया कार्यं क्रियते भुवि नान्यथा ।
पितुर्हि वचनं कुर्वन्न कश्चिन्नाम हीयते ॥ 36 ॥
तामेवमुक्त्वा जननीं लक्ष्मणं पुनरब्रवीत् ।
वाक्यं वाक्यविदां श्रेष्ठश्श्रेष्ठस्सर्वधनुष्मताम् ॥ 37 ॥
तव लक्ष्मण जानामि मयि स्नेहमनुत्तमम् ।
विक्रमं चैव सत्त्वं च तेजश्च सुदुरासदम् ॥ 38 ॥
मम मातुर्महद्दुःखमतुलं शुभलक्षण ।
अभिप्रायमविज्ञाय सत्यस्य च शमस्य च ॥ 39 ॥
धर्मो हि परमो लोके धर्मे सत्यं प्रतिष्ठितम् ।
धर्मसंश्रितमेतच्च पितुर्वचनमुत्तमम् ॥ 40 ॥
संश्रुत्य च पितुर्वाक्यं मातुर्वा ब्राह्मणस्य वा ।
न कर्तव्यं वृथा वीर धर्ममाश्रित्य तिष्ठता ॥ 41 ॥
सोऽहं न शक्ष्यामि पितुर्नियोगमतिवर्तितुम् ।
पितुर्हिवचनाद्वीर कैकेय्याऽहं प्रचोदितः ॥ 42 ॥
तदेतां विसृजानार्यां क्षत्रधर्माश्रितां मतिम् ।
धर्ममाश्रय मा तैक्ष्ण्यं मद्बुद्धिरनुगम्यताम् ॥ 43 ॥
तमेवमुत्त्वा सौहार्दाद्भ्रातरं लक्ष्मणाग्रजः ।
उवाच भूयः कौसल्यां प्राञ्जलिश्शिरसानतः ॥ 44 ॥
अनुमन्यस्व मां देवि गमिष्यन्तमितो वनम् ।
शापिताऽसि मम प्राणैः कुरु स्वस्त्ययनानि मे ॥ 45 ॥
तीर्णप्रतिज्ञश्च वनात्पुनरेष्याम्यहं पुरीम् ।
ययातिरिव राजर्षिःपुरा हित्वा पुनर्दिवम् ॥ 46 ॥
शोकस्सन्धार्यतां मात र्हृदये साधु मा शुचः ।
वनवासादिहैष्यामि पुनः कृत्वा पितुर्वचः ॥ 47 ॥
त्वया मया च वैदेह्या लक्ष्मणेन सुमित्रया ।
पितुर्नियोगे स्थातव्यमेष धर्मस्सनातनः ॥ 48 ॥
अम्ब संहृत्य सम्भारान् दुःखं हृदि निगृह्य च ।
वनवासकृता बुद्धिर्मम धर्म्याऽनु वर्त्यताम् ॥ 49 ॥
एतद्वचस्तस्य निशम्य माता सुधर्म्यमव्यग्रमविक्लबं च ।
मृतेव सञ्ज्ञां प्रतिलभ्य देवी समीक्ष्य रामं पुनरित्युवाच ॥ 50 ॥
यथैव ते पुत्र पिता तथाऽहं गुरु स्स्वधर्मेण सुहृत्तया च ।
न त्वाऽनुजानामि न मां विहाय सुदुःखितामर्हसि गन्तुमेवम् ॥ 51 ॥
किं जीवितेनेह विना त्वया मे लोकेन वा किं स्वधयाऽमृतेन ।
श्रेयो मुहूर्तं तव सन्निधानं ममेह कृत्स्नादपि जीवलोकात् ॥ 52 ॥
नरैरिवोल्काभिरपोह्यमानो महागजोऽध्वानमनुप्रविष्टः ।
भूयः प्रजज्वाल विलापमेवं निशम्य रामः करुणं जनन्याः ॥ 53 ॥
स मातरं चैव विसञ्ज्ञकल्पा मार्तं च सौमित्रिमभिप्रतप्तम् ।
धर्मे स्थितो धर्म्यमुवाच वाक्यं यथा स एवार्हति तत्र वक्तुम् ॥ 54 ॥
अहं हि ते लक्ष्मण नित्यमेव जानामि भक्तिं च पराक्रमं च ।
मम त्वभिप्रायमसन्निरीक्ष्य मात्रा सहाभ्यर्दसि मां सुदुःखम् ॥ 55 ॥
धर्मार्थकामाः खलु तात लोके समीक्षिता धर्मफलोदयेषु ।
ते तत्र सर्वे स्युरसंशयं मे भार्येव वश्याऽभिमता सुपुत्रा ॥ 56 ॥
यस्मिंस्तु सर्वे स्युरसन्निविष्टा धर्मो यत स्स्यात्तदुपक्रमेत ।
द्वेष्यो भवत्यर्थपरो हि लोके कामात्मता खल्वपि न प्रशस्ता ॥ 57 ॥
गुरुश्च राजा च पिता च वृद्धः क्रोधात्प्रहर्षाद्यदि वाऽपि कामात् ।
यद्व्यादिशेत्कार्यमवेक्ष्य धर्मं कस्तन्न कुर्यादनृशंसवृत्तिः ॥ 58 ॥
स वै न शक्नोमि पितुः प्रतिज्ञा मिमामकर्तुं सकलां यथावत् ।
स ह्यावयोस्तात गुरुर्नियोगे देव्याश्च भर्ता स गति स्सधर्मः ॥ 59 ॥
तस्मिन्पुनर्जीवति धर्मराजे विशेषतस्स्वे पथि वर्तमाने ।
देवी मया सार्धमितोऽपगच्छेत् कथं स्विदन्या विधवेव नारी ॥ 60 ॥
सा माऽनुमन्यस्व वनं व्रजन्तं कुरुष्व न स्स्वस्त्ययनानि देवि ।
यथा समाप्ते पुनराव्रजेयं यथा हि सत्येन पुनर्ययातिः ॥ 61 ॥
यशो ह्यहं केवलराज्यकारणा न्न पृष्ठतः कर्तुमलं महोदयम् ।
अदीर्घकाले न तु देवि जीविते वृणेऽवरामद्य महीमधर्मतः ॥ 62 ॥
प्रसादयन्नरवृषभ स्समातरं पराक्रमाज्जिगमिषुरेव दण्डकान् ।
अथानुजं भृशमनुशास्य दर्शनं चकार तां हृदि जननीं प्रदक्षिणम् ॥ 63 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकाण्डे एकविंशस्सर्गः ॥