View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

5.30 सुन्दरकाण्ड - त्रिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे सुन्दरकाण्डम् ।
अथ त्रिंशस्सर्गः ।

हनुमानपि विक्रान्तः सर्वं शुश्राव तत्त्वतः ।
सीतायास्त्रिजटायाश्च राक्षसीनां च तर्जनम् ॥ 1 ॥

अवेक्षमाणस्तां देवीं देवतामिव नन्दने ।
ततो बहुविधां चिन्तां चिन्तयामास वानरः ॥ 2 ॥

यां कपीनां सहस्राणि सुबहून्ययुतानि च ।
दिक्षु सर्वासु मार्गन्ते सेयमासादिता मया ॥ 3 ॥

चारेण तु सुयुक्तेन शत्रोश्शक्तिमवेक्षता ।
गूढेन चरता तावदवेक्षितमिदं मया ॥ 4 ॥

राक्षसानां विशेषश्च पुरी चेयमवेक्षिता ।
राक्षसाधिपतेरस्य प्रभावो रावणस्य च ॥ 5 ॥

युक्तं तस्याप्रमेयस्य सर्वसत्त्वदयावतः ।
समाश्वासयितुं भार्यां पतिदर्शनकाङ्क्षिणीम् ॥ 6 ॥

अहमाश्वासयाम्येनां पूर्णचन्द्रनिभाननाम् ।
अदृष्टदुःखां दुःखार्तां दुःखस्यान्तमगच्छतीम् ॥ 7 ॥

यद्यप्यहमिमां देवीं शोकोपहतचेतनाम् ।
अनाश्वास्य गमिष्यामि दोषवद्गमनं भवेत् ॥ 8 ॥

गते हि मयि तत्रेयं राजपुत्री यशस्विनी ।
परित्राणमविन्दन्ती जानकी जीवितं त्यजेत् ॥ 9 ॥

मया च स महाबाहुः पूर्णचन्द्रनिभाननः ।
समाश्यासयितुं न्याय्यस्सीतादर्शनलालसः ॥ 10 ॥

निशाचरीणां प्रत्यक्षमनर्हं चाभिभाषितम् ।
कथन्नु खलु कर्तव्यमिदं कृच्छ्रगतो ह्यहम् ॥ 11 ॥

अनेन रात्रिशेषेण यदि नाश्वास्यते मया ।
सर्वथा नास्ति सन्देहः परित्यक्ष्यति जीवितम् ॥ 12 ॥

रामश्च यदि पृच्छेन्मां किं मां सीताब्रवीद्वचः ।
किमहं तं प्रति ब्रूयामसम्भाष्य सुमध्यमाम् ॥ 13 ॥

सीतासन्देशरहितं मामितस्त्वरयाऽगतम् ।
निर्दहेदपि काकुत्स्य क्रुद्धस्तीव्रेण चक्षुषा ॥ 14 ॥

यदि चोद्योजयिष्यामि भर्तारं रामकारणात् ।
व्यर्थमागमनं तस्य ससैन्यस्य भविष्यति ॥ 15 ॥

अन्तरं तु अहं आसाद्य राक्षसीनां इह स्थितः ।
शनैः आश्वासयिष्यामि सम्ताप बहुलां इमाम् ॥ 16 ॥

अहं त्वतितनुश्चैव वानरश्च विशेषतः ।
वाचं चोदाहरिष्यामि मानुषीमिह संस्कृताम् ॥ 17 ॥

यदि वाचं प्रदास्यामि द्विजातिरिव संस्कृताम् ।
रावणं मन्यमाना मां सीता भीता भविष्यति ॥ 18 ॥

वानरस्य विशेषेण कथं स्यादभिभाषणम् ।
अवश्यमेव वक्तव्यं मानुषं वाक्यमर्थवत् ॥ 19 ॥

मया सान्त्वयितुं शक्या नान्यथेयमनिन्दिता ।
सेयमालोक्य मे रूपं जानकी भाषितं तथा ॥ 20 ॥

रक्षोभिस्त्रासिता पूर्वं भूयस्त्रासं गमिष्यति ।
ततो जातपरित्रासा शब्दं कुर्यान्मनस्विनी ॥ 21 ॥

जानमाना विशालाक्षी रावणं कामरूपिणम् ।
सीतया च कृते शब्दे सहसा राक्षसीगणाः ।
नानाप्रहरणो घोरः समेयादन्तकोपमः ॥ 22 ॥

ततो मां सम्परिक्षिप्य सर्वतो विकृताननाः ॥ 23 ॥

वधे च ग्रहणे चैव कुर्युर्यत्नं यथाबलम् ।
गृह्य शाखाः प्रशाखाश्च स्कन्धांश्चोत्तमशाखिनाम् ॥ 24 ॥

दृष्ट्वा विपरिधावन्तं भवेयुर्भयशङ्किताः ।
मम रूपं च सम्प्रेक्ष्य वने विचरतो महत् ॥ 25 ॥

राक्षस्यो भयवित्रस्ता भवेयुर्विकृताननाः ।
ततः कुर्युस्समाह्वानं राक्षस्यो रक्षसामपि ॥ 26 ॥

राक्षसेन्द्रनियुक्तानां राक्षसेन्द्रनिवेशने ।
ते शूलशक्तिनिस्त्रिंशविविधायुधपाणयः ॥ 27 ॥

आपतेयुर्विमर्देऽस्मिन्वेगेनोद्वेगकारणात् ।
समृद्धस्तैस्तु परितो विधमन् रक्षसां बलम् ॥ 28 ॥

शक्नुयां न तु सम्प्राप्तुं परं पारं महोदधेः ।
मां वा गृह्णीयुराप्लुत्य बहवश्शीघ्रकारिणः ॥ 29 ॥

स्यादियं चागृहीतार्था मम च ग्रहणं भवेत् ।
हिंसाभिरुचयो हिंस्युरिमां वा जनकात्मजाम् ॥ 30 ॥

विपन्नं स्यात्ततः कार्यं रामसुग्रीवयोरिदम् ।
उद्देशे नष्टमार्गेऽस्मिन् राक्षसैः परिवारिते ॥ 31 ॥

सागरेण परिक्षिप्ते गुप्ते वसति जानकी ।
विशस्ते वा गृहीते वा रक्षोभिर्मयि संयुगे ॥ 32 ॥

नान्यं पश्यामि रामस्य सहायं कार्यसाधने ।
विमृशंश्च न पश्यामि यो हते मयि वानरः ॥ 33 ॥

शतयोजनविस्तीर्णं लङ्घयेत महोदधिम् ।
कामं हन्तुं समर्थोऽस्मि सहस्राण्यपि रक्षसाम् ॥ 34 ॥

न तु शक्ष्यामि सम्प्राप्तुं परं पारं महोदधेः ।
असत्यानि च युद्धानि संशयो मे न रोचते ॥ 35 ॥

कश्च निस्संशयं कार्यं कुर्यात्प्राज्ञः ससंशयम् ।
प्राणत्यागश्च वैदेह्या भवेदनभिभाषणे ॥ 36 ॥

एष दोषो महान्हि स्यान्मम सीताभिभाषणे ।
भूताश्चार्था विनश्यन्ति देशकालविरोधिताः ॥ 37 ॥

विक्लबं दूतमासाद्य तमः सूर्योदये यथा ।
अर्थानर्थान्तरे बुद्धिनिश्चितापि न शोभते ॥ 38 ॥

घातयन्ति हि कार्याणि दूताः पण्डितमानिनः ।
न विनश्येत्कथं कार्यं वैक्लब्यं न कथं भवेत् ॥ 39 ॥

लङ्घनं च समुद्रस्य कथं नु न वृथा भवेत् ।
कथं नु खलु वाक्यं मे शृणुयान्नोद्विजेत वा ।
इति सञ्चिन्त्य हनुमांश्चकार मतिमान्मतिम् ॥ 40 ॥

राममक्लिष्टकर्माणं सुबन्धुमनुकीर्तयन् ॥ 41 ॥

नैनामुद्वेजयिष्यामि तद्बन्धुगतमानसाम् ।
इक्ष्वाकूणां वरिष्ठस्य रामस्य विदितात्मनः ॥ 42 ॥

शुभानि धर्मयुक्तानि वचनानि समर्पयन् ।
श्रावयिष्यामि सर्वाणि मधुरां प्रब्रुवन् गिरम् ॥ 43 ॥

श्रद्धास्यति यथाहीयं तथा सर्वं समादधे ।
इति स बहुविधं महानुभावो जगतिपतेः प्रमदामवेक्षमाणः ।
मधुरमवितथं जगाद वाक्यं द्रुमविटपान्तरमास्थितो हनूमान् ॥ 44 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे त्रिंशस्सर्गः ॥




Browse Related Categories: