श्रीमद्वाल्मीकीय रामायणे अयोध्याकाण्डम् ।
अथ एकोनविंशस्सर्गः ।
तदप्रियममित्रघ्नो वचनं मरणोपमम् ।
श्रुत्वा न विव्यथे रामः कैकेयीं चेदमब्रवीत् ॥ 1 ॥
एवमस्तु गमिष्यामि वनं वस्तुमहं त्वितः ।
जटाजिनधरो राज्ञः प्रतिज्ञामनुपालयन् ॥ 2 ॥
इदं तु ज्ञातुमिच्छामि किमर्थं मां महीपतिः ।
नाभिनन्दति दुर्धर्षो यथापूर्वमरिन्दमः ॥ 3 ॥
मन्युर्न च त्वया कार्यो देवि ब्रूमि तवाग्रतः ।
यास्यामि भव सुप्रीता वनं चीरजटाधरः ॥ 4 ॥
हितेन गुरुणा पित्रा कृतज्ञेन नृपेण च ।
नियुज्यमानो विस्रब्धः किं न कुर्यामहं प्रियम् ॥ 5 ॥
अलीकं मानसं त्वेकं हृदयं दहतीव मे ।
स्वयं यन्नाह मां राजा भरतस्याभिषेचनम् ॥ 6 ॥
अहं हि सीतां राज्यं च प्राणानिष्टान्धनानि च ।
हृष्टो भ्रात्रे स्वयं दद्यां भरतायाप्रचोदितः ॥ 7 ॥
किं पुनर्मनुजेन्द्रेण स्वयं पित्रा प्रचोदितः ।
तव च प्रियकामार्थं प्रतिज्ञामनुपालयन् ॥ 8 ॥
तदाश्वासय हीमं त्वं किन्विदं यन्महीपतिः ।
वसुधासक्तनयनो मन्दमश्रूणि मुञ्चति ॥ 9 ॥
गच्छन्तु चैवानयितुं दूताश्श्रीघ्रजवैर्हयैः ।
भरतं मातुलकुलादद्यैव नृपशासनात् ॥ 10 ॥
दण्डकारण्यमेषोऽहमितो गच्छामि सत्वरः ।
अविचार्य पितुर्वाक्यं समा वस्तुं चतुर्दश ॥ 11 ॥
सा हृष्टा तस्य तद्वाक्यं श्रुत्वा रामस्य कैकयी ।
प्रस्थानं श्रद्धधाना हि त्वरयामास राघवम् ॥ 12 ॥
एवं भवतु यास्यन्ति दूता श्शीघ्रजवैर्हयैः ।
भरतं मातुलकुलादुपावर्तयितुं नराः ॥ 13 ॥
तव त्वहं क्षमं मन्ये नोत्सुकस्य विलम्बनम् ।
राम तस्मादित श्शीघ्रं वनं त्वं गन्तुमर्हसि ॥ 14 ॥
व्रीडान्वित स्स्वयं यच्च नृपस्त्वां नाभिभाषते ।
नैतत्किञ्चिन्नरश्रेष्ठ मन्युरेषोऽपनीयताम् ॥ 15 ॥
यावत्त्वं न वनं यातः पुरादस्मादभित्वरन् ।
पिता तावन्न ते राम स्नास्यते भोक्ष्यतेऽपि वा ॥ 16 ॥
धिक्कष्टमिति निःश्वस्य राजा शोकपरिप्लुतः ।
मूर्छितो न्यपतत्तस्मिन्पर्यङ्के हेमभूषिते ॥ 17 ॥
रामोऽप्युत्थाप्य राजानं कैकेय्याभिप्रचोदितः ।
कशयेवाहतो वाजी वनं गन्तुं कृतत्वरः ॥ 18 ॥
तदप्रियमनार्याया वचनं दारुणोदयम् ।
श्रुत्वा गतव्यथो रामः कैकेयीं वाक्यमब्रवीत् ॥ 19 ॥
नाहमर्थपरो देवि लोकमावस्तुमुत्सहे ।
विद्धिमामृषिभिस्तुल्यं केवलं धर्ममास्थितम् ॥ 20 ॥
यदत्र भवतः किञ्चिच्छक्यं कर्तुं प्रियं मया ।
प्राणानपि परित्यज्य सर्वथा कृतमेव तत् ॥ 21 ॥
न ह्यतो धर्मचरणं किञ्चिदस्ति महत्तरम् ।
यथा पितरिशुश्रूषा तस्य वा वचनक्रिया ॥ 22 ॥
अनुक्तोऽप्यत्रभवता भवत्या वचनादहम् ।
वने वत्स्यामि विजने वर्षाणीह चतुर्दश ॥ 23 ॥
न नूनं मयि कैकयि किञ्चिदाशंससे गुणम् ।
यद्राजानमवोचस्त्वं ममेश्वरतरा सती ॥ 24 ॥
यावन्मातरमाप्नच्छे सीतां चानुनयाम्यहम् ।
ततोऽद्यैव गमिष्यामि दण्डकानां महद्वनम् ॥ 25 ॥
भरतः पालयेद्राज्यं शुश्रूषेच्च पितुर्यथा ।
तथा भवत्या कर्तव्यं स हि धर्म स्सनातनः ॥ 26 ॥
स रामस्य वचश्श्रृत्वा भृशं दुःखहतः पिता ।
शोकादशक्नुवन्वकतुं प्ररुरोद महास्वनम् ॥ 27 ॥
वन्दित्वा चरणौ रामो विसञ्ज्ञस्य पितुस्तथा ।
कैकेय्याश्चाप्यनार्यायाः निष्पपात महाद्युतिः ॥ 28 ॥
स रामः पितरं कृत्वा कैकेयीं च प्रदक्षिणम् ।
निष्क्रम्यान्तःपुरात्तस्मात्स्वं ददर्श सुहृज्जनम् ॥ 29 ॥
तं बाष्पपरिपूर्णाक्षः पृष्ठतोऽनुजगाम ह ।
लक्ष्मणः परमक्कृध्दः स्सुमित्रानन्दवर्धनः ॥ 30 ॥
अभिषेचनिकं भाण्डं कृत्वा रामः प्रदक्षिणम् ।
शनैर्जगाम सापेक्षो दृष्टिं तत्राविचालयन् ॥ 31 ॥
न चास्य महतीं लक्ष्मीं राज्यनाशोऽपकर्षति ।
लोककान्तस्य कान्तत्वाच्छीतरश्मेरिव क्षपा ॥ 32 ॥
न वनं गन्तुकामस्य त्यजतश्च वसुन्धराम् ।
सर्वलोकातिगस्येव लक्ष्यते चित्तविक्रिया ॥ 33 ॥
प्रतिषिध्य शुभं छत्रं व्यजने च स्वलङ्कृते ।
विसर्जयित्वा स्वजनं रथं पौरांस्तथा जनान् ॥ 34 ॥
धारयन् मनसा दुःखमिन्द्रियाणि निगृह्य च ।
प्रविवेशात्मवान्वेश्म मातुरप्रियशंसिवान् ॥ 35 ॥
सर्वोह्यभिजनश्श्रीमान् श्रीमतस्सत्यवादिनः ।
नालक्षयत रामस्य किञ्चिदाकारमानने ॥ 36 ॥
उचितं च महाबाहुर्नजहौहर्षमात्मनः ।
शारद स्समुदीर्णांशुश्चन्द्रस्तेज इवात्मजम् ॥ 37 ॥
वाचा मधुरया रामस्सर्वं सम्मानयञ्जनम् ।
मातुस्समीपं धीरात्मा प्रविवेश महायशाः ॥ 38 ॥
तं गुणैस्समतां प्राप्तो भ्राता विपुलविक्रमः ।
सौमित्रिरनुवव्राज धारयन्दुःखमात्मजम् ॥ 39 ॥
प्रविश्य वेश्मातिभृशं मुदाऽन्वितं समीक्ष्य तां चार्थविपत्तिमागताम् ।
न चैव रामोऽत्रजगामविक्रियां सुहृज्जनस्यात्मविपत्तिशङ्कया ॥ 40 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकाण्डे एकोनविंशस्सर्गः ॥