श्रीमद्वाल्मीकीय रामायणे किष्किन्धाकाण्डम् ।
अथ त्रिपञ्चाशस्सर्गः ।
एवमुक्तश्शुभं वाक्यं तापस्या धर्मसंहितम् ।
उवाच हनुमान्वाक्यं तामनिन्दितचेष्टिताम् ॥ 1 ॥
शरणं त्वां प्रपन्ना स्म सर्वे वै धर्मचारिणीम् ।
यः कृतस्समयोऽस्माकं सुग्रीवेण महात्मना ॥ 2 ॥
स च कालो ह्यतिक्रान्तो बिले च परिवर्तताम् ।
सा त्वमस्माद्बिलाद्घोरादुत्तारयितुमर्हसि ॥ 3 ॥
तस्मात्सुग्रीववचनादतिक्रान्तान्गतायुषः ।
त्रातुमर्हसि नस्सर्वान्सुग्रीवभयकर्शितान् ॥ 4 ॥
महच्चकार्यमस्माभिः कर्तव्यं धर्मचारिणि ।
तच्चापि न कृतं कार्यमस्माभिरिह वासिभिः ॥ 5 ॥
एवमुक्ता हनुमता तापसी वाक्यमब्रवीत् ।
जीवता दुष्करं मन्ये प्रविष्टेन निवर्तितुम् ॥ 6 ॥
तपसस्तु प्रभावेन नियमोपार्जितेन च ।
सर्वानेव बिलादस्मादुद्धरिष्यामि वानरान् ॥ 7 ॥
निमीलयत चक्षूंषि सर्वे वानरपुङ्गवाः ।
न हि निष्क्रमितुं शक्यमनिमीलितलोचनैः ॥ 8 ॥
ततस्सम्मीलितास्सर्वे सुकुमाराङ्गुलैः करैः ।
सहसाऽपिदधुर्दृष्टिं हृष्टा गमनकाङ्क्षया ॥ 9 ॥
वानरास्तु महात्मानो हस्तरुद्धमुखास्तदा ।
निमेषान्तरमात्रेण बिलादुत्तारितास्तया ॥ 10 ॥
ततस्तान्वानरान्सर्वांस्तापसी धर्मचारिणी ।
निस्सृतान्विषमात्तस्मात्समाश्वास्येदमब्रवीत् ॥ 11 ॥
एष विन्ध्यो गिरिश्श्रीमान्नानाद्रुमलताकुलः ।
एष प्रस्रवणश्शैलस्सागरोऽयं महोदधिः ॥ 12 ॥
स्वस्ति वोऽस्तु गमिष्यामि भवनं वानरर्षभाः ।
इत्युक्त्वा तद्बिलं श्रीमत्प्रविवेश स्वयम्प्रभा ॥ 13 ॥
ततस्ते ददृशुर्घोरं सागरं वरुणालयम् ।
अपारमभिगर्जन्तं घोरैरूर्मिभिरावृतम् ॥ 14 ॥
मयस्य मायाविहितं गिरिदुर्गं विचिन्वताम् ।
तेषां मासो व्यतिक्रान्तो यो राज्ञा समयः कृतः ॥ 15 ॥
विन्ध्यस्य तु गिरेः पादे सम्प्रपुष्पितपादपे ।
उपविश्य महाभागाश्चिन्तामापेदिरे तदा ॥ 16 ॥
ततः पुष्पातिभाराग्रान् लताशतसमावृतान् ।
द्रुमान्वासन्तिकान्दृष्टवा बभूवुर्भयशङ्किताः ॥ 17 ॥
ते वसन्तमनुप्राप्तं प्रतिबुद्ध्वा परस्परम् ।
नष्टसन्देशकालार्था निपेतुर्धरणीतले ॥ 18 ॥
ततस्तान्कपिवृद्धांस्तु शिष्टांश्चैव वनौकसः ।
वाचा मधुरयाऽभाष्य यथावदनुमान्य च ॥ 19 ॥
स तु सिंहवृषस्कन्धः पीनायतभुजः कपिः ।
युवराजो महाप्राज्ञः अङ्गदो वाक्यमब्रवीत् ॥ 20 ॥
शासनात्कपिराजस्य वयं सर्वे विनिर्गताः ।
मासः पूर्णो बिलस्थानां हरयः किं न बुद्ध्यते ॥ 21 ॥
वयमाश्वयुजे मासि कालसङ्ख्याव्यवस्थिताः ।
प्रस्थितास्सोऽपि चातीतः किमतः कार्यमुत्तरम् ॥ 22 ॥
भवन्तः प्रत्ययं प्राप्ताः नीतिमार्गविशारदाः ।
हितेष्वभिरता भर्तुर्निसृष्टास्सर्वकर्मसु ॥ 23 ॥
कर्मस्वप्रतिमास्सर्वे दिक्षु विश्रुतपौरुषाः ।
मां पुरस्कृत्य निर्याताः पिङ्गाक्षप्रतिचोदिताः ॥ 24 ॥
इदानीमकृतार्थानां मर्तव्यं नात्र संशयः ।
हरिराजस्य सन्देशमकृत्वा कस्सुखी भवेत् ॥ 25 ॥
तस्मिन्नतीते काले तु सुग्रीवेण कृते स्वयम् ।
प्रायोपवेशनं युक्तं सर्वेषां च वनौकसाम् ॥ 26 ॥
तीक्ष्णः प्रकृत्या सुग्रीवस्स्वामिभावे व्यवस्थितः ।
न क्षमिष्यति नस्सर्वानपराधकृतो गतान् ॥ 27 ॥
अप्रवृत्तौ च सीतायाः पापमेव करिष्यति ।
तस्मात् क्षममिहाद्यैव गन्तुं प्रायोपवेशनं हि नः ॥ 28 ॥
त्यक्त्वा पुत्रांश्च दारांश्च धनानि च गृहाणि च ।
धृवं नो हिंसिता राजा सर्वान्प्रतिगतानितः ॥ 29 ॥
वधेनाप्रतिरूपेण श्रेयान्मृत्युरिहैव नः ।
न चाहं यौवराज्येन सुग्रीवेणाभिषेचितः ॥ 30 ॥
नरेन्द्रेणाभिषिक्तोऽस्मि रामेणाक्लिष्टकर्मणा ।
स पूर्वं बद्धवैरो मां राजा दृष्ट्वा व्यतिक्रमम् ॥ 31 ॥
घातयिष्यति दण्डेन तीक्ष्णेन कृतनिश्चयः ।
किं मे सुहृदभिर्व्यसनं पश्यद्भिर्जीवितान्तरे ॥ 32 ॥
इहैव प्रायमासिष्ये पुण्ये सागररोधसि ।
एतच्छ्रुत्वा कुमारेण युवराजेन भाषितम् ॥ 33 ॥
सर्वे ते वानरश्रेष्ठाः करुणं वाक्यमब्रुवन् ।
तीक्ष्णः प्रकृत्या सुग्रीवः प्रियासक्तश्च राघवः ॥ 34 ॥
अदृष्टायां तु वैदेह्यां दृष्ट्वाऽस्मांश्त समागतान् ।
राघवप्रियकामार्थं घातयिष्यत्यसंशयम् ॥ 35 ॥
न क्षमं चापराद्धानां गमनं स्वामिपार्श्वतः ।
इहैव सीतामन्विष्य प्रवृत्तिमुपलभ्य वा ॥ 36 ॥
नो चेद्गच्छाम तं वीरं गमिष्यामो यमक्षयम् ।
प्लवङ्गमानां तु भयार्दितानां श्रुत्वा वचस्तार इदं बभाषे ।
अलं विषादेन बिलं प्रविश्य वसाम सर्वे यदि रोचते वः ॥ 37 ॥
इदं हि मायाविहितं सुदुर्गमं प्रभूतवृक्षोदकभोज्यपेयकम् ।
इहास्ति नो नैव भयं पुरन्दरा न्न राघवाद्वानरराजतोऽपि वा ॥ 38 ॥
श्रुत्वाऽङ्गदस्यापि वचोऽनुकूल मूचुश्च सर्वे हरयः प्रतीताः ।
यथा न हिंस्येम तथा विधान मसक्तमद्यैव विधीयतां नः ॥ 39 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे त्रिपञ्चाशस्सर्गः ॥