श्रीमद्वाल्मीकीय रामायणे अयोध्याकाण्डम् ।
अथ पञ्चदशस्सर्गः ।
ते तु तां रजनीमुष्य ब्राह्मणा वेदपारगाः ।
उपतस्थुरुपस्थानं सह राजपुरोहिताः ॥ 1 ॥
अमात्या बलमुख्याश्च मुख्या ये निगमस्य च ।
राघवस्याभिषेकार्थे प्रियमाणास्तु सङ्गताः ॥ 2 ॥
उदिते विमले सूर्ये पुष्ये चाभ्यागतेऽहनि ।
लग्ने कर्कटके प्राप्ते जन्म रामस्य च स्थिते ॥ 3 ॥
अभिषेकाय रामस्य द्विजेन्द्रैरुपकल्पितम् ।
काञ्चना जलकुम्भाश्च भद्रपीठं स्वलङ्कृतम् ।
2.15,4 ।
रथः च सम्यगास्तीर्णो भास्वता व्याघ्रचर्मणा ।
गङ्गायमुनयोःपुण्यात्सङ्गमादाहृतं जलम् ॥ 4 ॥
याश्चान्या स्सरितः पुण्या ह्रदाः कूपा स्सरांसि च ।
प्राग्वाहाश्चोर्ध्ववाहाश्च तिर्यग्वाहा स्समाहिताः ॥ 5 ॥
ताभ्यश्चैवाहृतं तोयं समुद्रेभ्यश्च सर्वशः ।
सलाजाः क्षीरिभिश्छन्ना घटाः काञ्चनराजताः ॥ 6 ॥
पद्मोत्पलयुता भान्ति पूर्णाः परमवारिणा ।
क्षौद्रं दधि घृतं लाजा दर्भा स्सुमनसः पयः ॥ 7 ॥
वेश्याश्चैव शुभाचारा स्सर्वाभरणभूषिताः ।
चन्द्रांशुविकचप्रख्यं काञ्चनं रत्नभूषितम् ॥ 8 ॥
सज्जं तिष्ठति रामस्य वालव्यजनमुत्तमम् ।
चन्द्रमण्डलसङ्काशमातपत्रं च पाण्डुरम् ॥ 9 ॥
सज्जं द्युतिकरं श्रीमदभिषेकपुरस्कृतम् ।
पाण्डुरश्च वृषस्सज्जः पाण्डुरोऽश्वश्च सुस्थितः ॥ 10 ॥
प्रसृतश्च गजःश्रीमानौपवाह्यः प्रतीक्षते ।
अष्टौ च कन्या माङ्गल्या स्सर्वाभरणभूषिताः ॥ 11 ॥
वादित्राणि च सर्वाणि वन्दिनश्च तथाऽपरे ।
इक्ष्वाकूणां यथा राज्ये सम्भ्रियेताभिषेचनम् ॥ 12 ॥
तथाजातीयमादाय राजपुत्राभिषेचनम् ।
ते राजवचनात्तत्र समवेतामहीपतिम् ॥ 13 ॥
अपश्यन्तोऽब्रुवन् को नु राज्ञो नः प्रतिवेदयेत् ।
न पश्यामश्च राजानमुदितश्च दिवाकरः ॥ 14 ॥
यौवराज्याभिषेकश्च सज्जो रामस्य धीमतः ।
इति तेषु ब्रुवाणेषु सार्वभौमान् महीपतीन् ॥ 15 ॥
अब्रवीत्तानिदं सर्वान्सुमन्त्रो राजसत्कृतः ।
रामं राज्ञो नियोगेन त्वरया प्रस्थितोऽस्म्यहम् ॥ 16 ॥
पूज्या राज्ञो भवन्तस्तु रामस्य च विशेषतः ।
अयं पृच्छामि वचनात्सुखमायुष्मतामहम् ॥ 17 ॥
राज्ञः सम्प्रति बुद्धस्य यच्चागमनकारणम् ।
इत्युक्त्वाऽन्तः पुरद्वारमाजगाम पुराणवित् ॥ 18 ॥
सदाऽसक्तं च तद्वेश्म सुमन्त्रः प्रविवेश ह ।
तुष्टावास्य तदा वंशं प्रविश्य स विशाम्पतेः ॥ 19 ॥
शयनीयं नरेन्द्रस्य तदाऽऽसाद्य व्यतिष्ठत ।
सोऽत्यासाद्य तु तद्वेश्म तिरस्करणिमन्तरा ॥ 20 ॥
आशीर्भिर्गुणयुक्ताभि रभितुष्टाव राघवम् ।
सोमसूर्यौ च काकुत्स्थ शिववैश्रवणावपि ॥ 21 ॥
वरुणश्चाग्निरिन्द्रश्च विजयं प्रदिशन्तु ते ।
गता भगवती रात्रिरहः शिवमुपस्थितम् ॥ 22 ॥
बुद्ध्यस्व नृपशार्दूल कुरु कार्यमनन्तरम् ।
ब्राह्मणा बलमुख्याश्च नैगमाश्चागता नृप ॥ 23 ॥
दर्शनं तेऽभिकाङ्क्षन्ते प्रतिबुध्यस्व राघव ।
स्तुवन्तं तं तदा सूतं सुमन्त्रं मन्त्रकोविदम् ॥ 24 ॥
प्रतिबुध्य ततो राजा इदं वचनमब्रवीत् ।
राममानय सूतेति यदस्यभिहितोऽनया ॥ 25 ॥
किमिदं कारणं येन ममाज्ञा प्रतिहन्यते ।
न चैव सम्प्रसुप्तोऽहमानयेहाशु राघवम् ॥ 26 ॥
इति राजा दशरथ स्सूतं तत्रान्वशात्पुनः ।
स राजवचनं श्रुत्वा शिरसा प्रतिपूज्य तम् ॥ 27 ॥
निर्जगाम नृपावासान्मन्यमानः प्रियं महत् ।
प्रसन्नो राजमार्गं च पताकाध्वजशोभितम् ॥ 28 ॥
हृष्टः प्रमुदित स्सूतो जगामाशु विलोकयन् ।
स सूतस्तत्र शुश्राव रामाधिकरणाः कथाः ॥ 29 ॥
अभिषेचनसंयुक्तास्सर्वलोकस्य हृष्टवत् ।
ततो ददर्श रुचिरं कैलासशिखरप्रभम् ॥ 30 ॥
रामवेश्म सुमन्त्रस्तु शक्रवेश्मसमप्रभम् ।
महाकवाटविहितं वितर्दिशतशोभितम् ॥ 31 ॥
काञ्चनप्रतिमैकाग्रं मणिविद्रुमतोरणम् ।
शारदाभ्रघनप्रख्यं दीप्तं मेरुगुहोपमम् ॥ 32 ॥
मणिभिर्वरमाल्यानां समुहद्भिरलङ्कृतम् ।
मुक्तामणिभिराकीर्णं चन्दनागरूधूपितम् ॥ 33 ॥
गन्धान्मनोज्ञान् विसृजद्दार्दुरं शिखरं यथा ।
सारसैश्च मयूरैश्च विनदद्भिर्विराजितम् ॥ 34 ॥
सुकृतेहामृगाकीर्णं सुकीर्णं भक्तिभिस्तथा ।
मनश्चक्षुश्च भूतानामाददत्तिग्मतेजसा ॥ 35 ॥
चन्द्रभास्करसङ्काशं कुबेरभवनोपमम् ।
महेन्द्रधामप्रतिमं नानापक्षिसमाकुलम् ॥ 36 ॥
मेरुशृङ्गसमं सूतो रामवेश्म ददर्श ह ।
उपस्थितैःसमाकीर्णं जनैरञ्जलिकारिभिः ॥ 37 ॥
उपादाय समाक्रान्तैस्तथा जानपदैर्जनैः ।
रामाभिषेकसुमुखैरुन्मुखैस्समलङ्कृतम् ॥ 38 ॥
महामेघसमप्रख्यमुदग्रं सुविभूषितम् ।
नानारत्नसमाकीर्णं कुब्जकैरातकावृतम् ॥ 39 ॥
स वाजियुक्तेन रथेन सारथिः नराकुलं राजकुलं विराजयन् ।
वरूथिना रामगृहाभिपातिना पुरस्य सर्वस्य मनांसि हर्षयन् ॥ 40 ॥
ततस्समासाद्य महाधनं महत् प्रहृष्टरोमा स बभूब सारथिः ।
मृर्गैर्मयूरैश्च समाकुलोल्बणं गृहं वरार्हस्य शचीपतेरिव ॥ 41 ॥
स तत्र कैलासनिभास्स्वलङ्कृताः प्रविश्य कक्ष्यास्त्रिदशालयोपमाः ।
प्रियान्वरान् राममते स्थितान् बहून् व्यपोह्य शुद्धान्तमुपस्थितो रथी ॥ 42 ॥
स तत्र शुश्राव च हर्षयुक्ताः रामाभिषेकार्थकृता जनानाम् ।
नरेन्द्रसूनोरभिमङ्गलार्थाः सर्वस्य लोकस्य गिरः प्रहृष्टः ॥ 43 ॥
महेन्द्रसद्मप्रतिमं तु वेश्म रामस्य रम्यं मृगपक्षि जुष्टम् ।
ददर्श मेरोरिव श्रुङ्गमुच्चं विभ्राजमानं प्रभया सुमन्त्रः ॥ 44 ॥
उपस्थितैरञ्जलिकारकैश्च सोपायनैर्जानपदैर्जनैश्च ।
कोट्या परार्धैश्च विमुक्तयानैः समाकुलं द्वारपथं ददर्श ॥ 45 ॥
ततो महामेघमहीधराभं प्रभिन्नमत्यङ्कुशमत्यसह्यम् ।
रामौपवाह्यं रुचिरं ददर्श शत्रुञ्जयं नागमुदग्रकायम् ॥ 46 ॥
स्वलङ्कृतान् साश्वरथान् सकुञ्जरा नमात्य मुख्यांश्च ददर्श वल्लभान् ।
व्यपोह्य सूतस्सहितान् समन्ततः समृद्धमन्तःपुरमाविवेश ह ॥ 47 ॥
तदन्द्रिकूटाचलमेघसन्निभं महाविमानोपमवेश्मसंयुतम् ।
अवार्यमाणः प्रविवेश सारथिः प्रभूतरत्नं मकरो यथार्णवम् ॥ 48 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकाण्डे पञ्चदशस्सर्गः ॥