श्रीमद्वाल्मीकीय रामायणे अरण्यकाण्डम् ।
अथ सप्तत्रिंशस्सर्गः ।
तच्छृत्वा राक्षसेन्द्रस्य वाक्यं वाक्यविशारदः ।
प्रत्युवाच महाप्राज्ञो मारीचो राक्षसेश्वरम् ॥ 1 ॥
सुलभाः पुरुषा राजन्सततं प्रियवादिनः ।
अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः ॥ 2 ॥
न नूनं बुध्यसे रामं महावीर्यं गुणोन्नतम् ।
अयुक्तचारश्चपलो महेन्द्रवरुणोपमम् ॥ 3 ॥
अपि स्वस्ति भवेत्तात सर्वेषां भुवि रक्षसाम् ।
अपि रामो नासङ्क्रुद्धः कुर्याल्लोकमराक्षसम् ॥ 4 ॥
अपि ते जीवितान्ताय नोत्पन्ना जनकात्मजा ।
अपि सीतानिमित्तं च न भवेद्व्यसनं मम ॥ 5 ॥
अपि त्वामीश्वरं प्राप्य कामवृत्तं निरङ्कुशम् ।
न विनश्येत्पुरी लङ्का त्वया सह सराक्षसा ॥ 6 ॥
त्वद्विधः कामवृत्तो हि दुश्शीलः पापमन्त्रितः ।
आत्मानं स्वजनं राष्ट्रं स राजा हन्ति दुर्मतिः ॥ 7 ॥
न च पित्रा परित्यक्तो नामर्यादः कथञ्चन ।
न लुब्धो न च दुश्शीलो न च क्षत्रियपांसनः ॥ 8 ॥
न च धर्मगुणैर्हीनः कौसल्यानन्दवर्धनः ।
न तीक्ष्णो न च भूतानां सर्वेषामहिते रतः ॥ 9 ॥
वञ्चितं पितरं दृष्ट्वा कैकेय्या सत्यवादिनम् ।
करिष्यामीति धर्मात्मा तात प्रव्रजितो वनम् ॥ 10 ॥
कैकेय्याः प्रियकामार्थं पितुर्दशरथस्य च ।
हित्वा राज्यं च भोगांश्च प्रविष्टो दण्डकावनम् ॥ 11 ॥
न रामः कर्कशस्तात नाविद्वान्नाजितेन्द्रियः ।
अनृतं दुश्श्रुतं चैव नैव त्वं वक्तुमर्हसि ॥ 12 ॥
रामो विग्रहवान् धर्मस्साधुस्सत्यपराक्रमः ।
राजा सर्वस्य लोकस्य देवानां मघवानिव ॥ 13 ॥
कथं त्वं तस्य वैदेहीं रक्षितां स्वेन तेजसा ।
इच्छसि प्रसभं हर्तुं प्रभामिव विवस्वतः ॥ 14 ॥
शरार्चिषमाधृष्यं चापखङ्गेन्धनं रणे ।
रामाग्निं सहसा दीप्तं न प्रवेष्टुं त्वमर्हसि ॥ 15 ॥
धनुर्व्यादितदीप्तास्यं शरार्चिषममर्षणम् ।
चापबाणधरं तीक्ष्णं शत्रुसैन्यप्रहारिणम् ॥ 16 ॥
राज्यं सुखं च सन्त्यज्य जीवितं चेष्टमात्मनः ।
नात्यासादयितुं तात रामान्तकमिहार्हसि ॥ 17 ॥
अप्रमेयं हि तत्तेजो यस्य सा जनकात्मजा ।
न त्वं समर्थस्तां हर्तुं रामचापाश्रयं वने ॥ 18 ॥
तस्य सा नरसिंहस्य सिंहोरस्कस्य भामिनी ।
प्राणेभ्योऽपि प्रियतरा भार्या नित्यमनुव्रता ॥ 19 ॥
न सा धर्षयितुं शक्या मैथिल्योजस्विनः प्रिया ।
दीप्तस्येव हुताशस्य शिखा सीता सुमध्यमा ॥ 20 ॥
किमुद्यममिमं व्यर्थं कृत्वा ते राक्षसाधिप ।
दृष्टश्चेत्वं रणे तेन तदन्तं तव जीवितम् ॥ 21 ॥
जीवितं च सुखं चैव राज्यं चैव सुदुर्लभम् ।
यदीच्छसि चिरं भोक्तुं मा कृथा रामविप्रियम् ॥ 22 ॥
स सर्वैस्सचिवैस्सार्धं विभीषणपुरोगमैः ।
मन्त्रयित्वा तु धर्मिष्ठैः कृत्वा निश्चयमात्मनः ॥ 23 ॥
दोषाणां च गुणानां च सम्प्रधार्य बलाबलम् ।
आत्मनश्च बलं ज्ञात्वा राघवस्य च तत्वतः ॥ 24 ॥
हिताहितं विनिश्चित्य क्षमं त्वं कर्तुमर्हसि ।
अहं तु मन्ये तव न क्षमं रणे समागमं कोसलराजसूनुना ।
इदं हि भूयश्शृणु वाक्यमुत्तमं क्षमं च युक्तं च निशाचरेश्वर ॥ 25 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकाण्डे सप्तत्रिंशस्सर्गः ॥