श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ त्रयोविंशस्सर्गः ।
निमित्तानिनिमित्ताज्ञोदृष्टवालक्ष्मणपूर्वजः ।
सौमित्रिंसम्परिष्वज्यैदंवचनमब्रवीत् ॥ 1 ॥
निमित्तानिपरिगृह्योदकंशीतंवनानिफलवन्तिच ।
बलौघंसंविभज्येमंव्यूह्यतिष्ठेमलक्ष्मण ॥ 2 ॥
लोकक्षयकरम्भीमम्भयम्पश्याम्युपस्थितम् ।
निबर्हणम्प्रवीराणामृक्षवानररक्षसाम् ॥ 3 ॥
वाताश्चकलुषावान्तिकम्पतेचवसुन्धराः ।
पर्वताग्राणिवेपन्तेपतन्तिचमहीरुहाः ॥ 4 ॥
मेघाःक्रव्यादसङ्काशाःपरुषाःपरुषस्वनाः ।
क्रूराःक्रूरम्प्रवर्षन्तिमिश्रंशोणितबिन्दुभिः ॥ 5 ॥
रक्तचन्दनसङ्काशासन्ध्यापरमदारुणा ।
ज्वलतःप्रपतत्येतदादित्यादग्निमण्डलम् ॥ 6 ॥
दीनादीनस्वराःक्रूरास्सर्वतोमृगपक्षिणः ।
प्रत्यादित्यंविनर्धन्तिजनयन्तोमहाद्भयम् ॥ 7 ॥
रजन्यामप्रकाशस्तुसन्तापयतिचन्द्रमाः ।
कृष्णरक्तांशुपर्यन्तोलोकक्षयैवोदितः ॥ 8 ॥
ह्रस्वोरूक्षोऽप्रशस्तश्चपरिवेषस्सुलोहितः ।
आदित्येविमलेनीलंलक्ष्मलक्ष्मणदृश्यते ॥ 9 ॥
रजसामहताचापिनक्षत्राणिहतानिच ।
युगान्तमिवलोकानाम्पश्यशंसन्तीवलक्ष्मण ॥ 10 ॥
काकाश्श्येनास्तथानीचागृध्राःपरिपतन्तिच ।
शिवाश्चाप्यशिवान्नादान्नदन्तिसुमहाभयान् ॥ 11 ॥
शैलैश्शूलैश्चखढगैश्चविसृष्टैःकपिराक्षसैः ।
भविष्यत्यावृताभूमिर्मांसशोणितकर्दमा ॥ 12 ॥
क्षिप्रमद्यैवदुर्दर्षाम्पुरींरावणपालिताम् ।
अभियामजनेनैवसर्वतोहरिभिर्ववृताः ॥ 13 ॥
इत्येवमुक्त्वाधर्मात्माधनवीसङ्ग्रामहर्षणः ।
प्रतस्थेपुरतोरामोलङ्कामभिमुखोविभुः ॥ 14 ॥
सविभीषणसुग्रीवास्ततस्तेवानरर्षभाः ।
प्रतस्थिरेविनर्दन्तोनिश्चिताद्विषतांवधे ॥ 15 ॥
राघवस्यप्रियार्थन्तुसुतरांवीर्यशालिनाम् ।
हरीणाङ्कर्मचेष्टाभिस्तुतोषरघुपुङ्गवः ॥ 16 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे त्रयोविंशस्सर्गः ॥