View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

6.23 युद्धकाण्ड - त्रयोविंश सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ त्रयोविंशस्सर्गः ।

निमित्तानिनिमित्ताज्ञोदृष्टवालक्ष्मणपूर्वजः ।
सौमित्रिंसम्परिष्वज्यैदंवचनमब्रवीत् ॥ 1 ॥

निमित्तानिपरिगृह्योदकंशीतंवनानिफलवन्तिच ।
बलौघंसंविभज्येमंव्यूह्यतिष्ठेमलक्ष्मण ॥ 2 ॥

लोकक्षयकरम्भीमम्भयम्पश्याम्युपस्थितम् ।
निबर्हणम्प्रवीराणामृक्षवानररक्षसाम् ॥ 3 ॥

वाताश्चकलुषावान्तिकम्पतेचवसुन्धराः ।
पर्वताग्राणिवेपन्तेपतन्तिचमहीरुहाः ॥ 4 ॥

मेघाःक्रव्यादसङ्काशाःपरुषाःपरुषस्वनाः ।
क्रूराःक्रूरम्प्रवर्षन्तिमिश्रंशोणितबिन्दुभिः ॥ 5 ॥

रक्तचन्दनसङ्काशासन्ध्यापरमदारुणा ।
ज्वलतःप्रपतत्येतदादित्यादग्निमण्डलम् ॥ 6 ॥

दीनादीनस्वराःक्रूरास्सर्वतोमृगपक्षिणः ।
प्रत्यादित्यंविनर्धन्तिजनयन्तोमहाद्भयम् ॥ 7 ॥

रजन्यामप्रकाशस्तुसन्तापयतिचन्द्रमाः ।
कृष्णरक्तांशुपर्यन्तोलोकक्षयैवोदितः ॥ 8 ॥

ह्रस्वोरूक्षोऽप्रशस्तश्चपरिवेषस्सुलोहितः ।
आदित्येविमलेनीलंलक्ष्मलक्ष्मणदृश्यते ॥ 9 ॥

रजसामहताचापिनक्षत्राणिहतानिच ।
युगान्तमिवलोकानाम्पश्यशंसन्तीवलक्ष्मण ॥ 10 ॥

काकाश्श्येनास्तथानीचागृध्राःपरिपतन्तिच ।
शिवाश्चाप्यशिवान्नादान्नदन्तिसुमहाभयान् ॥ 11 ॥

शैलैश्शूलैश्चखढगैश्चविसृष्टैःकपिराक्षसैः ।
भविष्यत्यावृताभूमिर्मांसशोणितकर्दमा ॥ 12 ॥

क्षिप्रमद्यैवदुर्दर्षाम्पुरींरावणपालिताम् ।
अभियामजनेनैवसर्वतोहरिभिर्ववृताः ॥ 13 ॥

इत्येवमुक्त्वाधर्मात्माधनवीसङ्ग्रामहर्षणः ।
प्रतस्थेपुरतोरामोलङ्कामभिमुखोविभुः ॥ 14 ॥

सविभीषणसुग्रीवास्ततस्तेवानरर्षभाः ।
प्रतस्थिरेविनर्दन्तोनिश्चिताद्विषतांवधे ॥ 15 ॥

राघवस्यप्रियार्थन्तुसुतरांवीर्यशालिनाम् ।
हरीणाङ्कर्मचेष्टाभिस्तुतोषरघुपुङ्गवः ॥ 16 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे त्रयोविंशस्सर्गः ॥




Browse Related Categories: