श्रीमद्वाल्मीकीय रामायणे बालकाण्डम् ।
अथ एकषष्टितमस्सर्गः ।
विश्वामित्रो महात्माथ प्रस्थितान् प्रेक्ष्य तानृषीन् ।
अब्रवीन्नरशार्दूलस्सर्वांस्तान्वनवासिनः ॥ 1 ॥
महान्विघ्नः प्रवृत्तोऽयं दक्षिणामास्थितो दिशम् ।
दिशमन्यां प्रपत्स्यामस्तत्र तप्स्यामहे तपः ॥ 2 ॥
पश्चिमायां विशालायां पुष्करेषु महात्मनः ।
सुखं तपश्चरिष्यामः परं तद्धि तपोवनम् ॥ 3 ॥
एवमुक्त्वा महातेजाः पुष्करेषु महामुनिः ।
तप उग्रं दुराधर्षं तेपे मूलफलाशनः ॥ 4 ॥
एतस्मिन्नेव काले तु अयोध्याधिपतिर्नृपः ।
अम्बरीष इति ख्यातो यष्टुं समुपचक्रमे ॥ 5 ॥
तस्य वै यजमानस्य पशुमिन्द्रो जहार ह ।
प्रणष्टे तु पशौ विप्रो राजानमिदमब्रवीत् ॥ 6 ॥
पशुरद्य हृतो राजन् प्रणष्टस्तव दुर्नयात् ।
अरक्षितारं राजानं घ्नन्ति दोषा नरेश्वर ॥ 7 ॥
प्रायश्चित्तं महद्ध्येतन्नरं वा पुरुषर्षभ ।
आनयस्व पशुं शीघ्रं यावत्कर्म प्रवर्तते ॥ 8 ॥
उपाध्यायवचश्श्रुत्वा स राजा पुरुषर्षभ ।
अन्वियेष महाबुद्धिः पशुं गोभिस्सहस्रशः ॥ 9 ॥
देशान् जनपदांस्तां स्तान्नगराणि वनानि च ।
आश्रमाणि च पुण्यानि मार्गमाणो महीपतिः ॥ 10 ॥
स पुत्रसहितं तात सभार्यं रघुनन्दन ।
भृगुतुन्दे समासीनमृचीकं सन्ददर्श ह ॥ 11 ॥
तमुवाच महातेजाः प्रणम्याभिप्रसाद्य च ।
ब्रह्मर्षिं तपसा दीप्तं राजर्षिरमितप्रभः ॥ 12 ॥
पृष्ट्वा सर्वत्र कुशलमृचीकं तमिदं वचः ।
गवां शतसहस्रेण विक्रीणीषे सुतं यदि ॥ 13 ॥
पशोरर्थे महाभाग कृतकृत्योऽस्मि भार्गव ।
सर्वे परिसृता देशा याज्ञीयं न लभे पशुम् ॥ 14 ॥
दातुमर्हसि मूल्येन सुतमेकमितो मम ।
4 एवमुक्तो महातेजा ऋचीकस्त्वब्रवीद्वचः ॥ 15 ॥
नाहं ज्येष्ठं नरश्रेष्ठ विक्रीणीयां कथञ्चन ।
ऋचीकस्य वचश्श्रुत्वा तेषां माता महात्मनाम् ॥ 16 ॥
उवाच नरशार्दूलमम्बरीषं तपस्विनी ।
अविक्रेयं सुतं ज्येष्ठं भगवानाह भार्गवः ॥ 17 ॥
ममापि दयितं विद्धि कनिष्ठं शुनकं नृप ।
तस्मात्कनीयसं पुत्रं न दास्ये तव पार्थिव ॥ 18 ॥
प्रायेण हि नरश्रेष्ठ ज्येष्ठाः पितृषु वल्लभाः ।
मातृणां तु कनीयांसस्तस्माद्रक्षे कनीयसम् ॥ 19 ॥
उक्तवाक्ये मुनौ तस्मिन् मुनिपत्न्यां तथैव च ।
शुनश्शेफस्स्वयं राम मध्यमो वाक्यमब्रवीत् ॥ 20 ॥
पिता ज्येष्ठमविक्रेयं माता चाह कनीयसम् ।
विक्रीतं मध्यमं मन्ये राजन् पुत्रं नयस्व माम् ॥ 21 ॥
गवां शतसहस्रेण शुनश्शेफं नरेश्वरः ।
गृहीत्वा परमप्रीतो जगाम रघुनन्दन ॥ 22 ॥
अम्बरीषस्तु राजर्षी रथमारोप्य सत्वरः ।
शुनश्शेफं महातेजा जगामाशु महायशाः ॥ 23 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकाण्डे एकषष्टितमस्सर्गः ॥