श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ तृतीयस्सर्गः ।
सुग्रीवस्यवचश्श्रुत्वाहेतुमत्परमार्थवत् ।
प्रतिजग्राहकाकुत्स्थोहनूमन्तमथाब्रवीत् ॥ 1 ॥
तपसासेतुबन्धेनसागरोच्छोषणेनच ।
सर्वथासुसमर्थोऽस्मिसागरस्यास्यलङ्घने ॥ 2 ॥
कतिदुर्गाणिदुर्गायालङ्कायाब्रूहितानिमे ।
ज्ञातुमिच्छामितत्सर्वन्दर्शनादिववानर ॥ 3 ॥
बलस्यपरिमाणञ्चद्वारदुर्गक्रियामपि ।
गुप्तिकर्मचलङ्कायारक्षसांसदनानिच ॥ 4 ॥
यथासुखंयथावच्छलङ्कायामसिदृष्टवान् ।
सर्वमाचक्ष्वतत्त्वेनसर्वथाकुशलोह्यसि ॥ 5 ॥
श्रुत्वारामस्यवचनंहनुमान्मारुतात्मजः ।
वाक्यंवाक्यविदांश्रेष्ठोरामम्पुनरथाब्रवीत् ॥ 6 ॥
श्रूयतांसर्वमाख्यास्येदुर्गकर्मविधानतः ।
गुप्तापुरीयथालङ्कारक्षिताचयथाबलैः ॥ 7 ॥
राक्षसाश्चयथास्निग्धारावणस्यचतेजसा ।
परांसमृद्धिंलङ्कायास्सागरस्यचभीमताम् ॥ 8 ॥
विभागञ्चबलौघस्यनिर्देशंवाहनस्यच ।
एवमुक्त्वाकपिश्रेष्ठःकथयामासतत्त्ववितः ॥ 9 ॥
हृष्टप्रमुदितालङ्कामत्तद्विपसमाकुला ।
महतीरथसम्पूर्णारक्षोगणसमाकुला ॥ 10 ॥
दृढबद्धकवाटानिमहापरिघवन्तिच ।
द्वाराणिविपुलान्यस्याश्चत्वारिसुमहान्तिच ॥ 11 ॥
तत्रेषूपलयन्त्राणिबलवन्तिमहान्तिच ।
आगतम्परसैन्यन्तैस्तत्रप्रतिनिवार्यते ॥ 12 ॥
द्वारेषुसंस्कृताभीमाःकालायसमयाश्शिताः ।
शतशोरचितावीरैश्शतघ्नयोरक्षसाङ्गणै ॥ 13 ॥
सौवर्णस्तुमहांस्तस्याःप्राकारोदुष्प्रधर्षणः ।
मणीविद्रुमवैदूर्यमुक्ताविरचितान्तरः ॥ 14 ॥
सर्वतश्चमहाभीमाश्शीततोयवहाश्शुभाः ।
अगाधाग्राहवत्यश्चपरिखामीनसेविता ॥ 15 ॥
द्वारेषुतासाञ्चत्वारस्सङ्क्रमाःपरमायताः ।
यन्त्रैरुपेताबहुभिर्महद्भिर्गृहपङ्क्तिभिः ॥ 16 ॥
त्रायन्तेसङ्क्रमास्तत्रपरसैन्यागतेसति ।
यन्त्रैस्तैरवकीर्यन्तेपरिखासुसमन्ततः ॥ 17 ॥
एकस्त्वकम्प्योबलवान्सङ्क्रमस्सुमहादृढः ।
काञ्चनै र्बहुभिस्स्तम्भैर्वेदिकाभिश्चशोभितः ॥ 18 ॥
स्वयम्प्रकृतिमापन्नोयुयुत्सूराम रावणः ।
उत्थितश्चाप्रमत्तश्चबलानामनुदर्शने ॥ 19 ॥
लङ्कापुनर्निरालम्बादेवदुर्गाभयावहा ।
नादेयम्पार्वतंवान्यङ्कृत्रिमञ्चचतुर्विधम् ॥ 20 ॥
स्थितापारेसमुद्रस्यदूरपारस्यराघव ।
नौपथोपिश्चनास्त्यत्रनिरादेशश्चसर्वशः ॥ 21 ॥
शैलाग्रेरचितादुर्गासापुरैर्देवपुरोपमा ।
वाजिवारणासम्पूर्णालङ्कापरमदुर्जया ॥ 22 ॥
परिखाश्चशतघ्नयश्चयन्त्राणिविविधानिच ।
शोभयन्तिपुरींलङ्कांरावणस्यदुरात्मनः ॥ 23 ॥
अयुतंरक्षसामत्रपूर्वद्वारंसमाश्रितम् ।
शूलहस्तादुराधर्षास्सर्वेखङ्गाग्रयोधिनः ॥ 24 ॥
नियुतंरक्षसामत्रदक्षिणद्वारमाश्रितम् ।
चतुरङ्गेणसैन्येनयोधास्तत्राप्यनुत्तमाः ॥ 25 ॥
प्रयुतंरक्षसामत्रपश्चिमद्वारमाश्रितम् ।
चर्मखङ्गधरास्सर्वेतथासर्वास्त्रकोविदाः ॥ 26 ॥
न्यर्बुदंरक्षसामत्राप्युत्तरद्वारमाश्रितम् ।
रथिनश्चाश्ववाहाश्चकुलपुत्त्रास्सुपूजिताः ॥ 27 ॥
शतशोऽथसहस्राणिमध्यमंस्कन्धमाश्रिताः ।
यातुधानादुराधर्षास्साग्रकोटिश्चरक्षसाम् ॥ 28 ॥
तेमयासङ्क्रमाभग्नाःपरिखाश्चावपूरिताः ।
दग्धाचनगरीलङ्काप्राकाराश्चावसादिताः ॥ 29 ॥
बलैकदेशःक्षपितोराक्षसानाम्महात्मनाम् ।
येनकेनतुमार्गेणतरामवरुणालयम् ।
हतेतिनगरीलङ्कावानरैरवधार्यताम् ॥ 30 ॥
अङ्गदोद्विविदोमैन्दोजाम्बवान्पनसोऽनलः ।
नीलस्सेनापतिश्चेवबलशेषेणकिन्तव ॥ 31 ॥
प्लवमानाहिगत्वातांरावणस्यमहापुरीम् ॥ 32 ॥
सपर्वतवनाम्भित्त्वासखाताञ्चसप्रतोरणाम् ।
सप्राकारांसभवनामानयिष्यन्तिराघव ॥ 33 ॥
एवमाज्ञापयक्षिप्रम्बलानांसर्वसङ्ग्रहम् ।
मुहूर्तेनतुयुक्तेनप्रस्थानमभिरोचय ॥ 34 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे तृतीयस्सर्गः ॥