View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

5.60 सुन्दरकाण्ड - षष्टितम सर्गः

श्रीमद्वाल्मीकीय रामायणे सुन्दरकाण्डम् ।
अथ षष्टितमस्सर्गः ।

तस्य तद्वचनं श्रुत्वा वालिसूनुरभाषत ।
अयुक्तं तु विना देवीं दृष्टवद्भिश्च वानराः ॥ 1 ॥

समीपं गन्तुमस्माभी राघवस्य महात्मनः ।
दृष्टा देवी न चानीता इति तत्र निवेदनम् ॥ 2 ॥

अयुक्तमिव पश्यामि भवद्भिः ख्यातविक्रमैः ।
न हि नः प्लवने कश्चिन्नापि कश्चित्पराक्रमे ॥ 3 ॥

तुल्य स्सामरदैत्येषु लोकेषु हरिसत्तमाः ।
तेष्वेवं हतवीरेषु राक्षसेषु हनूमता ॥ 4 ॥

किमन्यदत्र कर्तव्यं गृहीत्वा याम जानकीम् ।
तमेवं कृतसङ्कल्पं जाम्बवान् हरिसत्तमः ॥ 5 ॥

उवाच परमप्रीतो वाक्यमर्थवदर्थवित् ।
न तावदेषा मतिरक्षमा नो यथा भवान् पश्यति राजपुत्र ।
यथा तु रामस्य मतिर्निविष्टा तथा भवान् पश्यतु कार्यसिद्धिम् ॥ 6 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे षष्टितमस्सर्गः ॥




Browse Related Categories: