View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

3.72 अरण्यकाण्ड - द्विसप्ततितम सर्गः

श्रीमद्वाल्मीकीय रामायणे अरण्यकाण्डम् ।
अथ द्विसप्ततितमस्सर्गः ।

एवमुक्तौतु तौ वीरौ कबन्धेन नरेश्वरौ ।
गिरिप्रदरमासाद्य पावकं विससर्जतुः ॥ 1 ॥

लक्ष्मणस्तु महोल्काभिर्ज्वलिताभिस्समन्ततः ।
चितामादीपयामास सा प्रजज्वाल सर्वतः ॥ 2 ॥

तच्छरीरं कबन्धस्य घृतपिण्डोपमं महत् ।
मेदसा पच्यमानस्य मन्दं दहति पावकः ॥ 3 ॥

स विधूय चितामाशु विधूमोऽग्निरिवोत्थितः ।
अरजे वाससी बिभ्रन्मालां दिव्यां महाबलः ॥ 4 ॥

ततश्चिताया वेगेन भास्वरो विमलाम्बरः ।
उत्पपाताशु संहृष्टस्सर्वप्रत्यङ्गभूषणः ॥ 5 ॥

विमाने भास्वरे तिष्ठन्हंसयुक्ते यशस्करे ।
प्रभया च महातेजा दिशो दश विराजयन् ॥ 6 ॥

सोऽन्तरिक्षगतो रामं कबन्धो वाक्यमब्रवीत् ।
शृणु राघव तत्त्वेन यथा सीतामवाप्स्यसि ॥ 7 ॥

राम षड्युक्तयो लोके याभिस्सर्वं विमृश्यते ।
परिमृष्टो दशान्तेन दशाभागेन सेव्यते ॥ 8 ॥

दशाभागगतो हीनस्त्वं हि राम सलक्ष्मणः ।
यत्कृते व्यसनं प्राप्तं त्वया दारप्रधर्षणम् ॥ 9 ॥

तदवश्यं त्वया कार्यस्ससुहृत्सुहृदां वर ।
अकृत्वा हि न ते सिद्धिमहं पश्यामि चिन्तयन् ॥ 10 ॥

श्रूयतां राम वक्ष्यामि सुग्रीवो नाम वानरः ।
भ्रात्रा निरस्तः क्रुद्धेन वालिना शक्रसूनुना ॥ 11 ॥

ऋश्यमूके गिरिवरे पम्पापर्यन्तशोभिते ।
निवसत्यात्मवान्वीरश्चतुर्भिस्सह वानरैः ॥ 12 ॥

वानरेन्द्रो महावीर्यस्तेजोवानमितप्रभः ।
सत्यसन्धो विनीतश्च धृतिमान्मतिमान्महान् ॥ 13 ॥

दक्षः प्रगल्भो द्युतिमान्महाबलपराक्रमः ।
भ्रात्रा विवासितो राम राज्यहेतोर्महाबलः ॥ 14 ॥

स ते सहायो मित्रं च सीतायाः परिमार्गणे ।
भविष्यति हिते राम मा च शोके मनः कृथाः ॥ 15 ॥

भवितव्यं हि यच्चापि न तच्छक्यमिहान्यथा ।
कर्तुमिक्ष्वाकुशार्दूल कालो हि दुरतिक्रमः ॥ 16 ॥

गच्छ श्रीघ्रमितो राम सुग्रीवं तं महाबलम् ।
वयस्यं तं कुरु क्षिप्रमितो गत्वाऽद्य राघव ॥ 17 ॥

अद्रोहाय समागम्य दीप्यमाने विभावसौ ।
स च ते नावमन्तव्यस्सुग्रीवो वानराधिपः ॥ 18 ॥

कृतज्ञः कामरूपी च सहायार्थी च वीर्यवान् ।
शक्तौह्यद्य युवां कर्तुं कार्यं तस्य चिकीर्षितम् ॥ 19 ॥

कृतार्थो वाऽकृतार्थो वा कृत्यं तव करिष्यति ।
स ऋक्षरजसः पुत्रः पम्पामटति शङ्कितः ॥ 20 ॥

भास्करस्यौरसः पुत्रो वालिना कृतकिल्बिषः ।
सन्निधायायुधं क्षिप्रमृष्यमूकालयं कपिम् ॥ 21 ॥

कुरु राघव सत्येन वयस्यं वनचारिणम् ।
स हि स्थानानि सर्वाणि कार्त्स्न्येन कपिकुञ्जरः ॥ 22 ॥

नरमांसाशिनां लोके नैपुण्यादधिगच्छति ।
न तस्याविदितं लोकेकिञ्चिदस्ति हि राघव ॥ 23 ॥

यावत्सूर्यः प्रतपति सहस्रांशुररिन्दम ।
स नदीर्विपुलान्शैलान् गिरिदुर्गाणि कन्दरान् ॥ 24 ॥

अन्वीक्ष्य वानरैस्सार्धं पत्नीं तेऽधिगमिष्यति ।
वानरांश्च महाकायान्प्रेषयिष्यति राघव ॥ 25 ॥

दिशो विचेतुं तां सीतां त्वद्वियोगेन शोचतीम् ।
स ज्ञास्यति वरारोहां निर्मलां रावणालये ॥ 26 ॥

स मेरुशृङ्गाग्रगतामनिन्दितां प्रविश्य पातालतलेऽपि वा श्रिताम् ।
प्लवङ्गमानां प्रवरस्तव प्रियां निहत्य रक्षांसि पुनः प्रदास्यति ॥ 27 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकाण्डे द्विसप्ततितमस्सर्गः ॥




Browse Related Categories: