श्रीमद्वाल्मीकीय रामायणे अयोध्याकाण्डम् ।
अथ त्र्याशीतितमस्सर्गः ।
तत स्समुत्थितः काल्यमास्थाय स्यन्दनोत्तमम् ।
प्रययौ भरतश्शीघ्रं रामदर्शनकाङ्क्षया ॥ 1 ॥
अग्रतः प्रययुस्तस्य सर्वे मन्त्रिपुरोधसः ।
अधिरुह्य हयैर्युक्तान्रथान्सूर्यरथोपमान् ॥ 2 ॥
नवनागसहस्राणि कल्पितानि यथाविधि ।
अन्वयुर्भरतं यान्तमिक्ष्वाकुकुलनन्दनम् ॥ 3 ॥
षष्टी रथसहस्राणि धन्विनो विविधायुधाः ।
अन्वयुर्भरतं यान्तं राजपुत्रं यशस्विनम् ॥ 4 ॥
शतं सहस्राण्यश्वानां समारूढानि राघवम् ।
अन्वयुर्भरतं यान्तं सत्यसन्धं जितेन्द्रियम् ॥ 5 ॥
कैकेयी च सुमित्रा च कौसल्या च यशस्विनी ।
रामानयनसंहृष्टा ययुर्यानेन भास्वता ॥ 6 ॥
प्रयाताश्चार्यसङ्घाता रामं द्रष्टुं सलक्ष्मणम् ।
तस्यैव च कथाश्चित्राः कुर्वाणा हृष्टमानसाः ॥ 7 ॥
मेघश्यामं महाबाहुं स्थिरसत्त्वं दृढव्रतम् ।
कदा द्रक्ष्यामहे रामं जगत श्शोकनाशनम् ॥ 8 ॥
दृष्ट एव हि न श्शोकमपनेष्यति राघवः ।
तम स्सर्वस्य लोकस्य समुद्यन्निव भास्करः ॥ 9 ॥
इत्येवं कथयन्तस्ते सम्प्रहृष्टाः कथा श्शुभाः ।
परिष्वजानाश्चान्योन्यं ययुर्नागरिका जनाः ॥ 10 ॥
ये च तत्रापरे सर्वे सम्मता ये च नैगमाः ।
रामं प्रति ययुर्हृष्टा स्सर्वाः प्रकृतयस्तथा ॥ 11 ॥
मणिकाराश्च ये केचित्कुम्भकाराश्च शोभनाः ।
सूत्रकर्मकृतश्चैव ये च शस्त्रोपजीविनः ॥ 12 ॥
मयूरकाः क्राकचिका रोचका वेधकास्तथा ।
दन्तकारा स्सुधाकारा स्तथा गन्धोपजीविनः ॥ 13 ॥
सुवर्णकाराः प्रख्यातास्तथा कम्बलधावकाः ।
स्नापकोष्णोदका वैद्याधूपकाश्शौण्डिकास्तथा ॥ 14 ॥
रजकास्तुन्नवायाश्च ग्रामघोषमहत्तराः ।
शैलूषाश्च सह स्त्रीभिर्ययुः कैवर्तकास्तथा ॥ 15 ॥
समाहिता वेदविदो ब्राह्मणा वृत्तसम्मताः ।
गोरथैर्भरतं यान्तमनुजग्मु स्सहस्रशः ॥ 16 ॥
सुवेषा श्शुद्धवसनास्ताम्रमृष्टानुलेपनाः ।
सर्वे ते विविधैर्यानै श्शनैर्भरतमन्वयुः ॥ 17 ॥
प्रहृष्टमुदिता सेना साऽन्वयात्कैकयीसुतम् ।
भ्रातुरानयने यान्तं भरतं भ्रातृवत्सलम् ॥ 18 ॥
ते गत्वा दूरमध्वानं रथयानाश्वकुञ्जरैः ।
समासेदुस्ततो गङ्गां शृङ्गीबेरपुरं प्रति ॥ 19 ॥
यत्र रामसखो वीरो गुहो ज्ञातिगणैर्वृतः ।
निवसत्यप्रमादेन देशं तं परिपालयन् ॥ 20 ॥
उपेत्य तीरं गङ्गायाश्चक्रवाकैरलङ्कृतम् ।
व्यवातिष्ठत सा सेना भरतस्यानुयायिनी ॥ 21 ॥
निरीक्ष्यानुगतां सेनां तां च गङ्गां शिवोदकाम् ।
भरतस्सचिवान्सर्वानब्रवीद्वाक्यकोविदः ॥ 22 ॥
निवेशयत मे सैन्यमभिप्रायेण सर्वतः ।
विश्रान्ताः प्रतरिष्यामश्श्व इदानीमिमां नदीम् ॥ 23 ॥
दातुं च तावदिच्छामि स्वर्गतस्य महीपतेः ।
और्ध्वदेहनिमित्तार्थमवतीर्योदकं नदीम् ॥ 24 ॥
तस्यैवं ब्रुवतोऽमात्यास्तथेत्युक्त्वा समाहिताः ।
न्यवेशयंस्तां छन्देन स्वेन स्वेन पृथक्पृथक् ॥ 25 ॥
निवेश्य गङ्गामनु तां महानदीं चमूं विधानैः परिबर्हशोभिनीम् ।
उवास रामस्य तदा महात्मनो विचिन्तयानो भरतो निवर्तनम् ॥ 26 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकाण्डे त्र्याशीतितमस्सर्गः ॥