View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

4.26 किष्किन्धाकाण्ड - षड्विंश सर्गः

श्रीमद्वाल्मीकीय रामायणे किष्किन्धाकाण्डम् ।
अथ षड्विंशस्सर्गः ।

ततश्शोकाभिसन्तप्तं सुग्रीवं क्लिन्नवाससम् ।
शाखामृगमहामात्राः परिवार्योपतस्थिरे ॥ 1 ॥

अभिगम्य महाबाहुं राममक्लिष्टकारिणम् ।
स्थिताः प्राञ्जलयस्सर्वे पितामहमिवर्षयः ॥ 2 ॥

ततः काञ्चनशैलाभ स्तरुणार्कनिभाननः ।
अब्रवीत्प्राञ्जलिर्वाक्यं हनूमान्मारुतात्मजः ॥ 3 ॥

भवत्प्रसादात्सुग्रीवः पितृपैतामहं महत् ।
वानराणां सुदुष्प्रापं प्राप्तो राज्यमिदं प्रभो ॥ 4 ॥

भवता समनुज्ञातः प्रविश्य नगरं शुभम् ॥ 5 ॥

संविधास्यति कार्याणि सर्वाणि ससुहृज्जनः ।
स्नातोऽयं विविधैर्गन्धैरौषधैश्च यथाविधि ॥ 6 ॥

अर्चयिष्यति रत्नैश्च माल्यैश्च त्वां विशेषतः ।
इमां गिरिगुहां रम्यामभिगन्तुमितोऽर्हसि ॥ 7 ॥

कुरुष्व स्वामिसम्बन्धं वानरान्सम्प्रहर्षय ।
एवमुक्तो हनुमता राघवः परवीरहा ॥ 8 ॥

प्रत्युवाच हनूमन्तं बुद्धिमान्वाक्यकोविदः ।
चतुर्दश समास्सौम्य ग्रामं वा यदि वा पुरम् ॥ 9 ॥

न प्रवेक्ष्यामि हनुमन्पितुर्निर्देशपालकः ।
सुसमृद्धां गुहां रम्यां सुग्रीवो वानरर्षभः ॥ 10 ॥

प्रविष्टो विधिवद्वीरः क्षिप्रं राज्येऽभिषिच्यताम् ।
एवमुक्त्वा हनूमन्तं रामस्सुग्रीवमब्रवीत् ॥ 11 ॥

वृत्तज्ञो वृत्तसम्पन्नमुदारबलविक्रमम् ।
इममप्यङ्गदं वीर यौवराज्येऽभिषेचय ॥ 12 ॥

ज्येष्ठस्य स सुतो ज्येष्ठस्सदृशो विक्रमेण ते ।
अङ्गदोऽयमदीनात्मा यौवराज्यस्य भाजनम् ॥ 13 ॥

पूर्वोऽयं वार्षिको मासः श्रावणस्सलिलागमः ।
प्रवृत्तास्सौम्य चत्वारो मासा वार्षिकसज्ञिकाः ॥ 14 ॥

नायमुद्योगसमयः प्रविश त्वं पुरीं शुभाम् ।
अस्मिन्वत्स्याम्यहं सौम्य पर्वते सह लक्ष्मणः ॥ 15 ॥

इयं गिरिगुहा रम्या विशाला युक्तमारुता ।
प्रभूतसलिला सौम्य प्रभूतकमलोत्पला ॥ 16 ॥

कार्तिके समनुप्राप्ते त्वं रावणवधे यत ।
एष नस्समयस्सौम्य प्रविश त्वं स्वमालयम् ॥ 17 ॥

अभिषिक्तस्व राज्ये च सुहृदस्सम्प्रहर्षय ।
इति रामाभ्यनुज्ञातस्सुग्रीवो वानराधिपः ॥ 18 ॥

प्रविवेश पुरीं रम्यां किष्किन्धां वालिपालिताम् ।
तं वानरसहस्राणि प्रविष्टं वानरेश्वरम् ॥ 19 ॥

अभिवाद्य प्रविष्टानि सर्वतः पर्यवारयन् ।
ततः प्रकृतयस्सर्वा दृष्ट्वा हरिगणेश्वरम् ॥ 20 ॥

प्रणम्य मूर्ध्ना पतिता वसुधायां समाहिताः ।
सुग्रीवः प्रकृतीस्सर्वास्सम्भाष्योत्थाप्य वीर्यवान् ॥ 21 ॥

भ्रातुरन्तःपुरं सौम्यं प्रविवेश महाबलः ।
प्रविश्य त्वभिनिष्क्रान्तं सुग्रीवं प्लवगेश्वरम् ॥ 22 ॥

अभ्यषिञ्चन्त सुहृदस्सहस्राक्षमिवामराः ।
तस्य पाण्डुरमाजह्रुश्छत्रं हेमपरिष्कृतम् ॥ 23 ॥

शुक्ले च वालव्यजने हेमदण्डे यशस्करे ।
तथा सर्वाणि रत्नानि सर्वबीजौषधीरपि ॥ 24 ॥

सक्षीराणां च वृक्षाणां प्ररोहान्कुसुमानि च ।
शुक्लानि चैव वस्त्राणि श्वेतं चैवानुलेपनम् ॥ 25 ॥

सुगन्धीनि च माल्यानि स्थलजान्यम्बुजानि च ।
चन्दनानि च दिव्यानि गन्धांश्च विविधान्बहून् ॥ 26 ॥

अक्षतं जातरूपं च प्रियङ्गुमधुसर्पिषी ।
दधि चर्म च वैयाघ्रं वाराही चाप्युपानहौ ॥ 27 ॥

समालम्भनमादाय रोचनां समनश्शिलाम् ।
आग्मुस्तत्र मुदिता वराः कन्यास्तु षोडश ॥ 28 ॥

ततस्ते वानरश्रेष्ठं यथाकालं यथाविधि ।
रत्नैर्वस्त्रैश्च भक्ष्यैश्च तोषयित्वा द्विजर्षभान् ॥ 29 ॥

ततः कुशपरिस्तीर्णं समिद्धं जातवेदसम् ।
मन्त्रपूतेन हविषा हुत्वा मन्त्रविदो जनाः ॥ 30 ॥

ततो हेमप्रतिष्ठाने वरास्तरणसंवृते ।
प्रासादशिखरे रम्ये चित्रमाल्योपशोभिते ॥ 31 ॥

प्राङ्मुखं विविधैर्मन्त्रैः स्थापयित्वा वरासने ।
नदीनदेभ्यस्संहृत्य तीर्थेभ्यश्च समन्ततः ॥ 32 ॥

आहृत्य च समुद्रेभ्यस्सर्वेभ्यो वानरर्षभाः ।
अपः कनककुम्भेषु निधाय विमलाश्शुभाः ॥ 33 ॥

शुभैर्वृषभशृङ्गैश्च कलशैश्चापि काञ्चनैः ।
शास्त्रदृष्टेन विधिना महर्षिविहितेन च ॥ 34 ॥

गजो गवाक्षो गवयश्शरभो गन्धमादनः ।
मैन्दश्च द्विविदश्चैव हनुमान्जाम्बवान्नलः ॥ 35 ॥

अभ्यषिञ्चन्त सुग्रीवं प्रसन्नेन सुगन्धिना ।
सलिलेन सहस्राक्षं वसवो वासवं यथा ॥ 36 ॥

अभिषिक्ते तु सुग्रीवे सर्वे वानरपुङ्गवाः ।
प्रचुक्रुशुर्महात्मानो हृष्टा स्तत्र सहस्रशः ॥ 37 ॥

रामस्य तु वचः कुर्वन्सुग्रीवो हरिपुङ्गवः ।
अङ्गदं सम्परिष्वज्य यौवराज्येऽभ्यषेचयत् ॥ 38 ॥

अङ्गदे चाभिषिक्ते तु सानुक्रोशाः प्लवङ्गमाः ।
साधु साध्विति सुग्रीवं महात्मानोऽभ्यपूजयन् ॥ 39 ॥

रामं चैव महात्मानं लक्ष्मणं च पुनः पुनः ।
प्रीताश्च तुष्टुवुस्सर्वे तादृशे तत्र वर्तिते ॥ 40 ॥

हृष्टपुष्टजनाकीर्णा पताकाध्वजशोभिता ।
बभूव नगरी रम्या किष्किन्धा गिरिगह्वरे ॥ 41 ॥

निवेद्य रामाय तदा महात्मने महाभिषेकं कपिवाहिनीपतिः ।
रुमां च भार्यं प्रतिलभ्य वीर्यवा नवाप राज्यं त्रिदशाधिपो यथा ॥ 42 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे षड्विंशस्सर्गः ॥




Browse Related Categories: