श्रीमद्वाल्मीकीय रामायणे किष्किन्धाकाण्डम् ।
अथ पञ्चपञ्चाशस्सर्गः ।
श्रुत्वा हनुमतो वाक्यं प्रश्रितं धर्मसंहितम् ।
स्वामिसत्कारसंयुक्तमङ्गदो वाक्यमब्रवीत् ॥ 1 ॥
स्थैर्यमात्ममनश्शौचमानृशंस्यमथाऽर्जवम् ।
विक्रमश्चैव धैर्यं च सुग्रीवे नोपपद्यते ॥ 2 ॥
भ्रातुर्ज्येष्ठस्य यो भार्यां जीवतो महिषीं प्रियाम् ।
धर्मेण मातरं यस्तु स्वीकरोति जुगुप्सितः ॥ 3 ॥
कथं स धर्मं जानीते येन भ्रात्रा महात्मना ।
युद्धायाभिनियुक्तेन बिलस्य पिहितं मुखम् ॥ 4 ॥
सत्यात्पाणिगृहीतश्च कृतकर्मा महायशाः ।
विस्मृतो राघवो येन स कस्य तु कृतं स्मरेत् ॥ 5 ॥
लक्ष्मणस्य भयाद्येन नाधर्मभयभीरुणा ।
आदिष्टा मार्गितुं सीतां धर्ममस्मिन्कथं भवेत् ॥ 6 ॥
तस्मिन्पापे कृतघ्ने तु स्मृतिहीने चलात्मनि ।
आर्यः को विश्वसेज्जातु तत्कुलीनो जिजीविषुः ॥ 7 ॥
राज्ये पुत्रः प्रतिष्ठाप्यस्सगुणो विगुणोऽपि वा ।
कथं शत्रुकुलीनं मां सुग्रीवो जीवयिष्यति ॥ 8 ॥
भिन्नमन्त्रोऽपराद्धश्च हीनशक्तिः कथं ह्यहम् ।
किष्किन्धां प्राप्य जीवेयमनाथ इव दुर्बलः ॥ 9 ॥
पांशुदण्डेन हि मां बन्धने नोपपादयेत् ।
शठः क्रूरो नृशंसश्च सुग्रीवो राज्यकारणात् ॥ 10 ॥
बन्धनाद्वाऽवसादान्मे श्रेयः प्रायोपवेशनम् ।
अनुजानीत मां सर्वे गृहं गच्छन्तु वानराः ॥ 11 ॥
अहं वः प्रतिजानामि नागमिष्याम्यहं पुरीम् ।
इहैव प्रायमासिष्ये श्रेयो मरणमेव मे ॥ 12 ॥
अभिवादनपूर्वं हि राघवौ बलशालिनौ ।
अभिवादनपूर्वं तु राजा कुशलमेव च ॥ 13 ॥
वाच्यस्तातो यवीयान्मे सुग्रीवो वानरेश्वरः ।
आरोग्यपूर्वं कुशलं वाच्या माता रुमा च मे ॥ 14 ॥
मातरं चैव मे तारामाश्वासयितुमर्हथ ।
प्रकृत्या प्रियपुत्रा सा सानुक्रोशा तपस्विनी ॥ 15 ॥
विनष्टमिह मां श्रुत्वा व्यक्तं हास्यति जीवितम् ।
एतावदुक्त्वा वचनं वृद्धांस्तानभिवाद्य च ॥ 16 ॥
विवेश चाङ्गदो भूमौ रुदन्दर्भेषु दुर्मनाः ।
तस्य संविशतस्तत्र रुदन्तो वानरर्षभाः ॥ 17 ॥
नयनेभ्यः प्रमुमुचुरुष्णं वै वारि दुःखिताः ।
सुग्रीवं चैव निन्दन्तः प्रशंसन्तश्च वालिनम् ॥ 18 ॥
परिवार्याङ्गदं सर्वे व्यवसन्प्रायमासितुम् ।
मतं तद्वालिपुत्रस्य विज्ञाय प्लवगर्षभाः ॥ 19 ॥
उपस्पृश्योदकं तत्र प्राङ्मुखास्समुपाविशन् ।
दक्षिणाग्रेषु दर्भेषु उदक्तीरं समाश्रिताः ॥ 20 ॥
मुमूर्षवो हरिश्रेष्ठा एतत् क्षममिति स्म ह ।
रामस्य वनवासं च क्षयं दशरथस्य च ॥ 21 ॥
जनस्थानवधं चैव वधं चैव जटायुषः ।
हरणं चैव वैदेह्या वालिनश्च वधं रणे ॥ 22 ॥
रामकोपं च वदतां हरीणां भयमागतम् ।
स संविशद्भिबहुभिर्महीधरो महाद्रिकूटप्रतिमैः प्लवङ्गमैः ।
बभूव सन्नादितनिर्दरान्तरो भृशं नदद्भिर्जलदैरिवोल्बणैः ॥ 23 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे पञ्चपञ्चाशस्सर्गः ॥