View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

2.66 अयोध्याकाण्ड - षट्षष्टितम सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकाण्डम् ।
अथ षट्षष्टितमस्सर्गः ।

तमग्निमिव संशान्तमम्बुहीनमिवार्णवम् ।
हतप्रभमिवाऽऽदित्यं स्वर्गस्थं प्रेक्ष्य पार्थिवम् ॥ 1 ॥

कौसल्या बाष्पपूर्णाक्षी विविधां शोककर्शिता ।
उपगृह्य शिरो राज्ञः कैकेयीं प्रत्यभाषत ॥ 2 ॥

तमग्निमिव संशान्तमम्बुहीनमिवार्णवम् ।
हतप्रभमिवाऽऽदित्यं स्वर्गस्थं प्रेक्ष्य पार्थिवम् ॥ 3 ॥

कौसल्या बाष्पपूर्णाक्षी विविधां शोककर्शिता ।
उपगृह्य शिरो राज्ञः कैकेयीं प्रत्यभाषत ॥ 4 ॥

सकामा भव कैकेयि भुङ्क्ष्व राज्यमकण्टकम् ।
त्यक्त्वा राजानमेकाग्रा नृशंसे दुष्टचारिणि ॥ 5 ॥

विहाय मां गतो रामः भर्ता च स्वर्गतो मम ।
विपथे सार्थहीनेव नाहं जीवितुमुत्सहे ॥ 6 ॥

भर्तारं तं परित्यज्य का स्त्री दैवतमात्मनः ।
इच्छेज्जीवितुमन्यत्र कैकेय्यास्त्यक्तधर्मणः ॥ 7 ॥

न लुब्धो बुध्यते दोषान् किम्पाकमिव भक्षयन् ।
कुब्जानिमित्तं कैकेय्या राघवाणां कुलं हतम् ॥ 8 ॥

अनियोगे नियुक्तेन राज्ञा रामं विवासितम् ।
सभार्यं जनकश्श्रुत्वा परितप्स्यत्यहं यथा ॥ 9 ॥

स मामनाथां विधवां नाद्य जानाति धार्मिकः ।
रामः कमलपत्राक्षः जीवन्नाशमितो गतः ॥ 10 ॥

विदेहराजस्य सुता तथा सीता तपस्विनी ।
दुःखस्यानुचिता दुःखं वने पर्युद्विजिष्यति ॥ 11 ॥

नदतां भीमघोषाणां निशासु मृगपक्षिणाम् ।
निशम्य नूनं सन्त्रस्ता राघवं संश्रयिष्यति ॥ 12 ॥

वृद्धश्चैवाल्पपुत्रश्च वैदेहीमनुचिन्तयन् ।
सोऽपि शोकसमाविष्टो ननु त्यक्ष्यति जीवितम् ॥ 13 ॥

साऽहमद्यैव दिष्टान्तं गमिष्यामि पतिव्रता ।
इदं शरीर मालिङ्ग्य प्रवेक्ष्यामि हुताशनम् ॥ 14 ॥

तां ततस्सम्परिष्वज्य विलपन्तीं तपस्विनीम् ।
व्यपनीय सुदुःखार्तां कौसल्यां व्यावहारिकाः ॥ 15 ॥

तैलद्रोण्यामथामात्या सम्वेश्य जगतीपतिम् ।
राज्ञस्सर्वाण्यथादिष्टाश्चक्रुः कर्माण्यनन्तरम् ॥ 16 ॥

न तु सङ्कलनं राज्ञो विना पुत्रेण मन्त्रिणः ।
सर्वज्ञाः कर्तुमीषुस्ते ततो रक्षन्ति भूमिपम् ॥ 17 ॥

तैलद्रोण्यां तु सचिवैश्शायितं तं नराधिपम् ।
हा मृतोऽयमिति ज्ञात्वा स्त्रियस्ताः पर्यदेवयन् ॥ 18 ॥

बाहूनुद्यम्य कृपणाः नेत्रप्रस्रवणैर्मुखैः ।
रुदन्त्य श्शोकसन्तप्ताः कृपणं पर्यदेवयन् ॥ 19 ॥

हा महाराज रामेण सततं प्रियवादिना ।
विहीनास्सत्यसन्धेन किमर्थं विजहासि नः ॥ 20 ॥

कैकेय्या दुष्टभावायाः राघवेण वियोजिताः ।
कथं पतिघ्नया वत्स्याम स्समीपे विधवा वयम् ॥ 21 ॥

स हि नाथस्सदास्माकं तव च प्रभुरात्मवान् ।
वनं रामो गतश्श्रीमान्विहाय नृपतिश्रियम् ॥ 22 ॥

त्वया तेन च वीरेण विना व्यसनमोहिताः ।
कथं वयं निवत्स्यामः कैकेय्या च विदूषिताः ॥ 23 ॥

यया तु राजा रामश्च लक्ष्मणश्च महाबलः ।
सीतया सह सन्त्यक्ता स्साकमन्यं न हास्यति ॥ 24 ॥

ता बाष्पेण च संवीताश्शोकेन विपुलेन च ।
व्यवेष्टन्त निरानन्दा राघवस्य वरस्त्रियः ॥ 25 ॥

निशा चन्द्रविहीनेव स्त्रीव भर्तृविवर्जिता ।
पुरी नाराजतायोध्या हीना राज्ञा महात्मना ॥ 26 ॥

बाष्पपर्याकुलजना हाहाभूतकुलाङ्गना ।
शून्यचत्वरवेश्मान्ता न बभ्राज यथापुरम् ॥ 27 ॥

गते तु शोकात् त्रिदिवं नराधिपे महीतलस्थासु नृपाङ्गनासु च ।
निवृत्तचारस्सहसा गतो रविः प्रवृत्तचारा रजनी ह्युपस्थिता ॥ 28 ॥

ऋते तु पुत्राद्धहनं महीपतेर्नरोचयन्ते सुहृदस्समागताः ।
इतीव तस्मिन् शयने न्यवेशयन् वनिचिन्त्य राजानमचिन्त्य दर्शनम् ॥ 29 ॥

गतप्रभा द्यौरिव भास्करं विना व्यपेतनक्षत्रगणेव शर्वरी ।
पुरी बभासे रहिता महात्मना न चास्रकण्ठाऽकुलमार्गचत्वरा ॥ 30 ॥

नराश्च नार्यश्च समेत्य सङ्घशः विगर्हमाणा भरतस्य मातरम् ।
तदा नगर्यां नरदेवसङ्क्षये बभूवुरार्ता न च शर्म लेभिरे ॥ 31 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकाण्डे षट्षष्टितमस्सर्गः ॥




Browse Related Categories: