श्रीमद्वाल्मीकीय रामायणे किष्किन्धाकाण्डम् ।
अथ चतुःषष्टितमस्सर्गः ।
आख्याता गृध्रराजेन समुत्प्लुत्य प्लवङ्गमाः ।
सङ्गताः प्रीतिसंयुक्ता विनेदुर्भीमविक्रमाः ॥ 1 ॥
सम्पातेर्वचनं श्रुत्वा हरयो रावणक्षयम् ।
हृष्टास्सागरमाजग्मुस्सीतादर्शनकाङ्क्षिणः ॥ 2 ॥
अभिक्रम्य तु तं देशं ददृशुर्भीमविक्रमाः ।
कृत्स्नं लोकस्य महतः प्रतिबिम्बमिव स्थितम् ॥ 3 ॥
दक्षिणस्य समुद्रस्य समासाद्योत्तरां दिशम् ।
सन्निवेशं ततश्चक्रुर्हरिवीरा महाबलाः ॥ 4 ॥
सत्त्वैर्महद्भिर्विकृतैः क्रीडद्भिर्विविधैर्जले ।
व्यात्तास्यैस्सुमहाकायैरूर्मिभिश्च समाकुलम् ॥ 5 ॥
प्रसुप्तमिव चान्यत्र क्रीडन्तमिव चान्यतः ।
क्वचित्पर्वतमात्रैश्च जलराशिभिरावृतम् ॥ 6 ॥
सङ्कुलं दानवेन्द्रैश्च पातालतलवासिभिः ।
रोमहर्षकरं दृष्ट्वा विषेदुः कपिकुञ्जराः ॥ 7 ॥
आकाशमिव दुष्पारं सागरं प्रेक्षय वानराः ।
विषेदु स्सहसासर्वे कथं कार्यमिति ब्रुवन् ॥ 8 ॥
विषण्णां वाहिनीं दृष्ट्वा सागरस्य निरीक्षणात् ।
आश्वासयामास हरीन्भयार्तान् हरिसत्तमः ॥ 9 ॥
तान्विषादेन महता विषण्णान्वानरर्षभान् ।
उवाच मतिमान्काले वालिसूनुर्महाबलः ॥ 10 ॥
न विषादे मनः कार्यं विषादो दोषवत्तमः ।
विषादो हन्ति पुरुषं बालं क्रुद्ध इवोरगः ॥ 11 ॥
यो विषादं प्रसहते विक्रमे पर्युपस्थिते ।
तेजसा तस्य हीनस्य पुरुषार्थो न सिध्यति ॥ 12 ॥
तस्यां रात्र्यां व्यतीतायामङ्गदो वानरैस्सह ।
हरिवृद्धैस्समागम्य पुनर्मन्त्रममन्त्रयत् ॥ 13 ॥
सा वानराणां ध्वजिनी परिवार्याङ्गदं बभौ ।
वासवं परिवार्येव मरुतां वाहिनी स्थिता ॥ 14 ॥
कोऽन्यस्तां वानरीं सेनां शक्तःस्तम्भयितुं भवेत् ।
अन्यत्र वालितनयादन्यत्र च हनूमतः ॥ 15 ॥
ततस्तान्हरिवृद्धांश्च तच्च सैन्यमरिन्दमः ।
अनुमान्याङ्गदश्श्रीमान्वाक्यमर्थवदब्रवीत् ॥ 16 ॥
क इदानीं महातेजा लङ्घयिष्यति सागरम् ।
कः करिष्यति सुग्रीवं सत्यसन्धमरिन्दमम् ॥ 17 ॥
को वीरो योजनशतं लङ्घयेत प्लवङ्गमाः ।
इमांश्च यूथपान् सर्वान्मोक्षयेत्को महाभयात् ॥ 18 ॥
कस्य प्रभावाद्धारांश्च पुत्रांश्चैव गृहाणि च ।
इतो निवृत्ताः पश्येम सिद्धार्थास्सुखिनो वयम् ॥ 19 ॥
कस्य प्रसादाद्रामं च लक्ष्मणं च महाबलम् ।
अभिगच्छेम संहृष्टास्सुग्रीवं च वनौकसम् ॥ 20 ॥
यदि कश्चित्समर्थो वस्सागरप्लवने हरिः ।
स ददा त्विह न शशीघ्रं पुण्यामभयदक्षिणाम् ॥ 21 ॥
अङ्गदस्य वच श्शृत्वा न कश्चित् किञ्चिदब्रवीत् ।
स्तिमिते वा भवत्सर्वा सा तत्र हरिवाहिनी ॥ 22 ॥
पुनरेवाङ्गदः प्राह तान्हरीन्हरिसत्तमः ।
सर्वे बलवतां श्रेष्ठा भवन्तो दृढविक्रमाः ॥ 23 ॥
व्यपदेश्य कुले जाताः पूजिताश्चाप्यभीक्ष्णशः ।
न हि वो गमने सङ्गः कदाचित्कस्यचित्क्वचित् ।
ब्रुवध्वं यस्य या शक्तिः प्लवने प्लवगर्षभाः ॥ 24 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे चतुःषष्टितमस्सर्गः ॥