श्रीमद्वाल्मीकीय रामायणे बालकाण्डम् ।
अथ षट्चत्वारिंशस्सर्गः ।
हतेषु तेषु पुत्रेषु दितिः परमदुःखिता ।
मारीचं काश्यपं राम भर्तारमिदमब्रवीत् ॥ 1 ॥
हतपुत्राऽस्मि भगवंस्तव पुत्रैर्महाबलैः ।
शक्रहन्तारमिच्छामि पुत्रं दीर्घतपोऽर्जितम् ॥ 2 ॥
साऽहं तपश्चरिष्यामि गर्भं मे दातुमर्हसि ।
ईश्वरं शक्रहन्तारं त्वमनुज्ञातुमर्हसि ॥ 3 ॥
तस्यास्तद्वचनं श्रुत्वा मारीचः काश्यपस्तदा ।
प्रत्युवाच महातेजा दितिं परमदुःखिताम् ॥ 4 ॥
एवं भवतु, भद्रं ते शुचिर्भव तपोधने ।
जनयिष्यसि पुत्रं त्वं शक्रहन्तारमाहवे ॥ 5 ॥
पूर्णे वर्षसहस्रे तु शुचिर्यदि भविष्यसि ।
पुत्रं त्रैलोक्यभर्तारं मत्तस्त्वं जनयिष्यसि ॥ 6 ॥
एवमुक्त्वा महातेजाः पाणिना स ममार्ज ताम् ।
समालभ्य ततस्स्वस्तीत्युक्त्वा स तपसे ययौ ॥ 7 ॥
गते तस्मिन्नरश्श्रेष्ठ दितिः परमहर्षिता ।
कुशप्लवनमासाद्य तपस्तेपे सुदारुणम् ॥ 8 ॥
तपस्तस्यां हि कुर्वन्त्यां परिचर्यां चकार ह ।
सहस्राक्षो नरश्श्रेष्ठ परया गुणसम्पदा ॥ 9 ॥
अग्निं कुशान् काष्ठमपः फलं मूलं तथैव च ।
न्यवेदयत्सहस्राक्षो यच्चान्यदपि काङ्क्षितम् ॥ 10 ॥
गात्रसंवहनश्चैव श्रमापनयनैस्तथा ।
शक्रस्सर्वेषु कालेषु दितिं परिचचार ह ॥ 11 ॥
अथ वर्षसहस्रे तु दशोने रघुनन्दन ।
दितिः परमसम्प्रीता सहस्राक्षमथाब्रवीत् ॥ 12 ॥
याचितेन सुरश्रेष्ठ तव पित्रा महात्मना ।
वरो वर्षसहस्रान्ते दत्तो मम सुतं प्रति ॥ 13 ॥
तपश्चरन्त्या वर्षाणि दश वीर्यवतां वर ।
अवशिष्टानि भद्रं ते भ्रातरं द्रक्ष्यसे ततः ॥ 14 ॥
तमहं त्वत्कृते पुत्र समाधास्ये जयोत्सुकम् ।
त्रैलोक्यविजयं पुत्र सह भोक्ष्यसि विज्वरः ॥ 15 ॥
एवमुक्त्वा दितिश्शक्रं प्राप्ते मध्यं दिवाकरे ।
निद्रयाऽपहृता देवी पादौ कृत्वाऽथ शीर्षतः ॥ 16 ॥
दृष्ट्वा तामशुचिं शक्रः पादतः कृतमूर्धजाम् ।
शिरस्स्थाने कृतौ पादौ जहास च मुमोद च ॥ 17 ॥
तस्याश्शरीरविवरं विवेश च पुरन्दरः ।
गर्भं च सप्तधा राम बिभेद परमात्मवान् ॥ 18 ॥
भिद्यमानस्ततो गर्भो वज्रेण शतपर्वणा ।
रुरोद सुस्वरं राम ततो दितिरबुध्यत ॥ 19 ॥
मा रुदो मा रुदश्चेति गर्भं शक्रोऽभ्यभाषत ।
बिभेद च महातेजा रुदन्तमपि वासवः ॥ 20 ॥
न हन्तव्यो न हन्तव्य इत्येवं दितिरब्रवीत् ।
निष्पपात ततश्शक्रो मातुर्वचनगौरवात् ॥ 21 ॥
प्राञ्जलिर्वज्रसहितो दितिं शक्रोऽभ्यभाषत ।
अशुचिर्देवि सुप्ताऽसि पादयोः कृतमूर्धजा ॥ 22 ॥
तदन्तरमहं लब्ध्वा शक्रहन्तारमाहवे ।
अभिदं सप्तधा देवि तन्मे त्वं क्षन्तुमर्हसि ॥ 23 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकाण्डे षट्चत्वारिंशस्सर्गः ॥