श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ एकोनषष्टितमस्सर्गः ।
तस्मिन्हतेराक्षससैन्यपालेप्लवङ्गमानामृषभेणयुद्धे ।
भीमयुधंसागरतुल्यवेगंविदुद्रुवेराक्षसराजसैन्यम् ॥ 1 ॥
गत्वाऽथरक्षोधिपतेश्शशंसुस्सेनापतिम्पावकसूनुशस्तम् ।
तच्छापितेषांवचनन्निशम्यरक्षोधिपःक्रोधवशञ्जगाम ॥ 2 ॥
सङ् ख्येप्रहस्तन्निहतन्निशम्यशोकार्दितःक्रोधपरीतचेताः ।
उवाचतान्राक्षसयूथमुख्यानिन्द्रोयथानिर्जरयोथमुख्यान् ॥ 3 ॥
नावज्ञारिपवेकार्यायैरिन्द्रबलसूदनः ।
सूदितस्सैन्यपालोमेसानुयात्रस्सकुञ्जरः ॥ 4 ॥
सोऽहंरिपुविनाशायविजयायाविचारयन् ।
स्वयमेवगमिष्यामिरणशीर्षन्तदद्भुतम् ॥ 5 ॥
अद्यतद्वानरानीकंरामञ्चसहलक्ष्मणम् ।
निर्दहिष्यामिबाणौघैर्वनन्दीप्स्सैरिवानगिभिः ॥ 6 ॥
सएवमुक्त्वाज्वलनप्रकाशंरथन्तुरङ्गोत्तमराजयुक्तम् ।
प्रकाशमानंवपुषाज्वलन्तंसमारुरोहामरराजशत्रुः ॥ 7 ॥
स शन्ख भेरी पटह प्रणादैर् ।
आस्फोटित क्ष्वेडित सिम्ह नादैह् ।
पुण्यैह् स्तवैश् च अप्य् अभिपूज्यमानस् ।
स्तदा ययौ राक्षस राज मुख्यह् ॥ 8 ॥
स नीलजीमूतनिकाशरूपै ।
र्मांस अशनैह् पावक दीप्त नेत्रैह् ।
बभौ वृतो राक्षस राज मुख्यैर् ।
भूतैर् वृतो रुद्र;इव अमर ईशह् ॥ 9 ॥
ततोनगर्यास्सहसामहौजानिष्क्रम्यतद्वानरसैन्यमुग्रम् ।
महार्णवाभ्रस्तनितन्ददर्शसमुद्यतम्पादपशैलहस्तम् ॥ 10 ॥
तद्राक्षसानीकमतिप्रचण्डमालोक्यरामोभुजगेन्द्रबाहुः ।
विभीषणंशस्त्रभृतांवरिष्ठमुवाचसेवानुगतःपृथुश्रीः ॥ 11 ॥
नानापताकध्वजशस्त्रजुष्टम्प्रासासिशूलायुथवज्रजुष्टम् ।
कस्येदमक्षोभ्यमभीरुजुष्टम्महेन्द्रोपमनागजुष्टम् ॥ 12 ॥
ततस्तुरामस्यनिशम्यवाक्यंविभीषणंश्शक्रसमानवीर्यः ।
शशंसरामस्यबलप्रवेगम्महात्मनांराक्षसपुङ्गवानाम् ॥ 13 ॥
योऽसौगजस्कन्धगतोमहात्मानवोदितार्कोपमताम्रवक्त्रः ।
प्रकम्पयन्नागशिरोऽभ्युपैतिह्यकम्पनन्त्वेनमवेहिराजन् ॥ 14 ॥
यो असौ रथस्थो मृग राज केतुर् ।
धून्वन् धनुह् शक्र धनुह् प्रकाशम् ।
करी इव भात्य् उग्र विवृत्त दम्ष्ट्रह् ।
स;इन्द्रजिन् नाम वर प्रधानह् ॥ 15 ॥
यश्चैषव्निध्यास्तमहेन्द्रकल्पोधन्वीरथस्थोऽतिरथोतिवीरः ।
विष्पारयन् चापमतुल्यमानन्नाम्नातिकायोऽतिविवृद्धकायः ॥ 16 ॥
योऽसौनवार्कोदितताम्रचक्षुरारुह्यघण्टानिनदप्रणादम् ।
गजङ्खरङ्गर्जतिवैमहात्मामहोदरोनामसएषःवीरः ॥ 17 ॥
योऽसौहयङ्काञ्चनचित्रभाण्डमारुह्यसन्ध्याभ्रगिरिप्रकाशम् ।
प्रासंसमुद्यम्यमरीचिनद्धम्पिशाचएषोऽशनितुल्यवेगः ॥ 18 ॥
यश्चैषशूलन्निशितम्प्रगृह्यविद्युत्प्रभङ्किङ्करवज्रवेगम् ।
वृषेन्द्रमास्थायगिरिप्रकाशमायातियोऽसौत्रिशिरायशस्वी ॥ 19 ॥
असौचजीमूतनिकाशरूपःकुम्भःपृथुव्यूढसुजातवक्षाः ।
समाहितःपन्नगराजकेतुर्विष्पारयन्यातिधनुर्विधून्वन् ॥ 20 ॥
यश्चैषजाम्बूनदवज्रजुष्टन्दीप्तंसधूमम्परिघम्प्रगृह्य ।
आयातिरक्षोबलकेतुभूतःसोऽसौनिकुम्भोऽद्भुतघोरकर्मा ॥ 21 ॥
यश्चैषचापासिशरौघजुष्टम्पताकिनम्पावकदीप्तरूपम् ।
रथंसमास्थायविभात्युदग्रोनरान्तकोऽसौनगशृङ्गयोधी ॥ 22 ॥
यश्चैषनानाविधघोररूपैर्व्याघ्रोष्ट्रनागेन्द्रमृगाश्ववक्त्रैः ।
भूतैर्वृतोभातिविवृत्तनेत्स्रैसोऽसौसुराणामपिदर्पहन्ता ॥ 23 ॥
यत्र एतद् इन्दु प्रतिमं विभातिच् ।
चत्त्रं सितं सूक्ष्म शलाकं अग्र्यम् ।
अत्र एष रक्षो अधिपतिर् महात्मा ।
भूतैर् वृतो रुद्र;इव अवभाति ॥ 24 ॥
असौ किरीटी चल कुण्डल आस्यो ।
नाग इन्द्र विन्ध्य उपम भीम कायह् ।
महा इन्द्र वैवस्वत दर्प हन्ता ।
रक्षो अधिपह् सूर्य;इव अवभाति ॥ 25 ॥
प्रत्युवाचततोरामोविभीषणमरिन्दम् ।
अहोदीप्तमहातेजारावणोराक्षसेश्वरः ॥ 26 ॥
आदित्य;इव दुष्प्रेक्ष्यो रश्मिभिर् भाति रावणह् ।
सुव्यक्तं लक्षये ह्य् अस्य रूपं तेजह् समावृतम् ॥ 27 ॥
देवदानववीराणांवपुर्नैवंविधम्भवेत् ।
यादृशंराक्षसेन्द्रस्यवपुरेतत्प्रकाशते ॥ 28 ॥
सर्वेपर्वतसङ्काशास्सर्वेपर्वतयोधिनः ।
सर्वेदीप्तायुधधरायोधाश्चास्यमहोजसः ॥ 29 ॥
भातिरक्षोराजोऽसौप्रदीप्त्तैर्भीमविक्रमैः ।
भूतैःपरिवृतस्तीक्ष्णैर्देहवद्भिरिवान्तकः ॥ 30 ॥
दिष्ट्याऽयमद्यपापात्माममदृष्टिपथङ्गतः ।
अद्यक्रोधंविमोक्ष्यामिसीताहरणसम्भवम् ॥ 31 ॥
एवमुक्त्वाततोरामोधनुरादायवीर्यवान् ।
लक्ष्मणानुचरस्तस्थौसमुद्धृत्यशरोत्तमम् ॥ 32 ॥
ततःसरक्षोधिपतिर्महात्मारक्षांसितान्याहमहाबलानि ।
द्वारेषुचर्यागृहगोपुरेषुसुनिर्वृतास्तिष्ठतनिर्विशङ्काः ॥ 33 ॥
हाऽगतम्मांसहितम्भवद्भिर्वनौकसश्छिद्रमिदंविदित्वा ।
शून्यापुरीन्दुष्प्रसहाम्प्रमथ्यप्रधर्षयेयुस्सहसासमेताः ॥ 34 ॥
विसर्जयित्वासचिवांस्ततस्तान्गतेषुरक्षस्सुयथानियोगम् ।
व्यचारयद्वानरसागरौघम्महाझषःपूर्णमिवार्णवौघम् ॥ 35 ॥
तमापतन्तंसहसासमीक्ष्यदीप्तेषुचापंयुधिराक्षसेन्द्रम् ।
महत्समुत्पाट्यमहीधराग्रन्दुद्रावरक्षोधिपतिंहरीशः ॥ 36 ॥
तच्छैलशृङ्गम्बहुवृक्षसानुम्प्रगृह्यचिक्षेपनिशाचराय ।
तमापतन्तंसहसासमीक्ष्यचिच्छेदबाणैस्तपनीयपुङ्खैः ॥ 37 ॥
तस्मिन् प्रवृद्धोत्तमसानुवृक्षेशृङ्गेविकीर्णेपतितेपृथिव्याम् ।
महाहिकल्पंशरमन्तकाभंसमादधेराक्षसलोकनाथः ॥ 38 ॥
सतङ्गृहीत्वाऽनिलतुल्यवेगंसविस्फुलिङ्गज्वलनप्रकाशम् ।
बाणम्महेन्द्राशनितुल्यवेगञ्चिक्षेपसुग्रीववधायरुष्टः ॥ 39 ॥
ससायकोरावणबाहुमुक्तःशक्राशनिप्रख्यवपुश्शिताग्रः ।
सुग्रीवमासाद्यबिभेदवेगाद्गुहेरिताक्रौञ्चमिवोग्रशक्तिः ॥ 40 ॥
ससायकार्तोविपरीतचेताःकूजन्पृथिव्यान्निपपातवीरः ।
तम्प्रेक्ष्यभूमौपतितंविसञ्ज्ञन्नेदुःप्रहृष्टायुधियातुधानाः ॥ 41 ॥
ततोगवाक्षोगवयस्सुदंष्ट्रस्त्वथर्षभोज्योतिमुखोनलश्च ।
शैलान् समुत्पाट्यविवृद्धकायाःप्रदुद्रुवुस्तम्प्रतिराक्षसेन्द्रम् ॥ 42 ॥
तेषाम्प्रहारान् सचकारमोघान् रक्षोधिपोबाणशतैःशिताग्रैः ।
तान्वानरेन्द्रानपिबाणजालैर्बिभेदजाम्बूनदचित्रपुङ्खैः ॥ 43 ॥
तेवानरेन्द्रास्त्रिदशारिबाणैर्भिन्नानिपेतुर्भुविभीमकायाः ।
ततस्तुतद्वानरसैन्यमुग्रम्प्रच्छादयामाससबाणजालैः ॥ 44 ॥
तेवध्यमानाःपतिताःप्रवीरानानद्यमानाभयशल्यविद्धाः ।
शाखामृगारावणसायकार्ताजग्मुश्शरण्यंशरणंस्मरामम् ॥ 45 ॥
ततो महात्मा स धनुर् धनुष्मान् ।
आदाय रामह् सहरा जगाम ।
तं लक्ष्मणह् प्रान्जलिर् अभ्युपेत्य ।
उवाच वाक्यं परम अर्थ युक्तम् ॥ 46 ॥
काममार्यस्सुपर्याप्तोवधायास्यदुरात्मनः ।
विधमिष्याम्यहञ्चैतमनुजानीहिमांविभो ॥ 47 ॥
तमब्रवीन्महातेजारामस्सत्यपराक्रमः ।
गच्छयत्नपरश्चापिभवलक्ष्मण संयुगे ॥ 48 ॥
रावणोहिमहावीर्योरणेऽद्भुतपराक्रमः ।
त्रैलोक्येनापिसङ्क्रुद्धोदुष्प्रसह्योनसंशयः ॥ 49 ॥
तस्यच्छिद्राणिमार्गस्वस्वच्छिद्राणिचलक्ष्य ।
चक्षुषाधनुषायत्ना प्रक्षात्मानंसमाहितः ॥ 50 ॥
राघवस्यवचश्श्रुत्वासपरिष्वज्याभिपूज्यच ।
अभिवाद्यतत् रामंययौसौमित्रिराहवम् ॥ 51 ॥
सरावणंवारणहस्तबाहुन्ददर्शभीमोद्यतदीप्तचापम् ।
प्रच्छादयन्तंशरवृष्टिजालैस्तान्वानराभनिन्नविकीर्णदेहान् ॥ 52 ॥
तमालोक्यमहातेजाहनूमान्मारुतात्मजः ।
निवार्यशरजालानिप्रदुद्रावसरावणम् ॥ 53 ॥
रथन्तस्यसमासाद्यबाहुमुद्यम्यदक्षिणम् ।
त्रासयन्रावणन्धीमान्हनूमान्वाक्यमब्रवीत् ॥ 54 ॥
देवदानवगन्धर्वायक्षाश्चसहराक्षैसैः ।
अवश्यन्तुत्वयाभग्नावानरेभ्यस्तुतेभयम् ॥ 55 ॥
एषमेदक्षिणोबाहुःपञ्चशाखःसमुद्यतः ।
विधमिष्यतितेदेहाद्भूतात्मानञ्चिरोषितम् ॥ 56 ॥
श्रुत्वाहनुमतोवाक्यंरावणोभीमविक्रमः ।
संरक्तनयनःक्रोधादिदंवचनमब्रवीत् ॥ 57 ॥
क्षिप्रम्प्रहरनिःशङ्कंस्थिराङ्कीर्तिमवाप्नुहि ।
ततस्त्वाञ्ज्ञातविक्रान्तन्नाशयिष्यामिवानर ॥ 58 ॥
रावणस्यवचश्श्रुत्वावायुसूनुर्वचोऽब्रवीत् ।
प्रहृतंहिमयापूर्वमक्षन्तवसुतन्तव ॥ 59 ॥
एवमुक्तोमहातेजारावणोराक्षसेश्वरः ।
आजघानानिलसुतन्तलेनोरसिवीर्यवान् ॥ 60 ॥
सतलाभिहतस्तेनचचालचमुहुर्मुहुः ।
स्थित्वामुहूर्तन्तेजस्वीस्थैर्यङ्कृत्वामहामतिः ॥ 61 ॥
आजघानाभिसङ्कृद्धस्तलेनैवामरद्विषम् ।
ततस्ततेनाभिहतोवानरेणमहात्मना ॥ 62 ॥
दशग्रीवःसमाधूतोयथाभूमिचलेऽचलः ।
सङ्ग्रामेतन्तथादृष्टवारावणन्तलताडितम् ॥ 63 ॥
ऋषयोवानराःसिद्धानेदुर्देवास्सहासुरैः ।
अथाऽश्वास्यमहातेजारावणोवाक्यमब्रवीत् ॥ 64 ॥
साधुवानर वीर्येणश्लाघनीयोऽसिमेरिपुः ।
रावणेनैवमुक्तस्तुमारुतिर्वाक्यमब्रवीत् ॥ 65 ॥
धिगस्तुममवीर्येणयस्त्वञ्जीवसिरावण ।
सकृत्तुप्रहरेदानीन्दुर्भुद्धे किंविकत्थसे ॥ 66 ॥
ततस्त्वाम्मामिकामुष्टिर्नयिष्यतियमक्षयम् ।
तोमारतिवाक्येनकोधस्तस्यतदाऽज्वलत् ॥ 67 ॥
संरक्तनयनोयत्नान्मुष्टिमुद्यम्यदक्षिणम् ।
पातयामासवेगेनवानरोरसिवीर्यवान् ॥ 68 ॥
हनूमान् वक्षसिव्यूढेसञ्चचालहतःपुनः ।
विह्वलन्तुतदादृष्टवाहनूमन्तम्महाबलम् ॥ 69 ॥
रथेनातिरथशशीघ्रन्नीलम्प्रतिसमभ्यगात् ।
राक्षसानामधिपतिर्धशग्रीवःप्रतापवान् ॥ 70 ॥
पन्नगप्रतिमैर्भीमैःपरमर्माभिभेदिभिः ।
शरैरादीपयामासनीलंहरिचमूपतिम् ॥ 71 ॥
सशरौघसमायस्तोनीलःकपिचमूपतिः ।
करेणेकैनेशैलाग्रंरक्षोधिपतयेऽसृजत् ॥ 72 ॥
हनूमानपितेजस्वीसमाश्वस्तोमहामनाः ।
विप्रेक्षमाणोयुद्धेप्सुस्सरोषमिदमब्रवीत् ॥ 73 ॥
नीलेनसहसंयुक्तंरावणंराक्षसेश्वरम् ।
अन्येनयुद्यमानस्यनयुक्तमभिधावनम् ॥ 74 ॥
रावणोऽपिमहातेजास्तञ्च्छृङ्गंसप्तभिःशरैः ।
आजघानसुतीक्ष्णाग्रैस्तद्विकीर्णम्पपातह ॥ 75 ॥
तद्विकीर्णङ्गिरेश्शृङ्गन्दृष्टवाहरिचमूपतिः ।
कालानगिरिवजज्वालकोपेनपरवीरहा ॥ 76 ॥
सोऽश्वकर्णान्धान् शालांश्चूताश्चापिसुपुष्पितान् ।
अन्यांश्चविविधान् वृक्षान्नीलश्चिक्षेपसंयुगे ॥ 77 ॥
सतान्वृक्षान् समासाद्यप्रतिचिच्छेदरावणः ।
अभ्यवर्षत्सुघोरेणशरवर्षेणपावकिम् ॥ 78 ॥
अभिवृष्टश्शरौघेणमेघेनेवमहाबलः ।
ह्रस्वङ्कृत्वाततोरूपन्ध्वजाग्रेनिपपातह ॥ 79 ॥
पावकात्मजमालोक्यध्वजाग्रेसमवस्थितम् ।
जज्वालरावणःक्रोधात्ततोनीलोननादच ॥ 80 ॥
ध्वजाग्रेधनुषश्चाग्रेकिरीटाग्रेचतंहरिम् ।
लक्ष्मणोऽथहनूमांश्चदृष्टवारामश्चविस्मिताः ॥ 81 ॥
रावणोऽपिमहातेजाःकपिलाघवविस्मितः ।
अस्त्रमाहारयामासदीप्तमाग्नेयमद्भुतम् ॥ 82 ॥
ततस्तेचुक्रुशुर्हृष्टालब्दलक्षाःप्लवङ्गमाः ।
नीललाघवसम्भ्रान्तन्दृष्टवारावणमाहवे ॥ 83 ॥
वानराणाञ्चनादेवसंरब्दोरावणस्तदा ।
सम्भ्रमाविष्टहृदयोनकिञ्चित्प्रत्यपद्यत ॥ 84 ॥
आग्नेयेनाधसंयुक्तङ्गृहीत्वारावणश्शरम् ।
ध्वजशीर्षस्थितंसीलमुदैक्षतनिशाचरः ॥ 85 ॥
ततोऽब्रवीन्महातेजारावणोराक्षसेश्वरः ।
कपेलाघवयुक्तोऽसिमाययापरयाऽनया ॥ 86 ॥
जीवितङ्खलुरक्षस्वयदिशक्तोऽपिवानर ।
तानितान्यात्मरूपाणिसृजसित्वमनेकशः ॥ 87 ॥
तथापित्वाम्मयामुक्तस्सायोकोऽस्त्रप्रयोजितः ।
जीवितम्परिरक्षन्तञ्जीविताद्भ्रंशयिष्यति ॥ 88 ॥
एवमुक्त्वामहाबाहूरावणोराक्षसेश्वरः ।
सन्धायबाणमस्त्रणचमूपतिमताडयत् ॥ 89 ॥
सोऽस्त्रयुक्तेनबाणेननीलोवक्षसिताडितः ।
निर्धह्यमानस्सहसानिपपातमहीतले ॥ 90 ॥
पितृमहात्म्यसंयोगात्मनश्चापितेजसा ।
जानुभ्यानुपतद्भूमौनतुप्राणैर्व्ययुज्यत ॥ 91 ॥
विसञ्ज्ञंवानरन्दृष्टवादशग्रीवोरणोत्सुकः ।
रथेनाम्बुदनादेनसौमित्रिमभिदुद्रुवे ॥ 92 ॥
आसाद्यरणमध्येतंवारयित्वास्थितोज्वलन् ।
धनुर्विष्फारयामासकम्पयन्निवमेदिनीम् ॥ 93 ॥
तमाहसौमित्रिरदीनसत्त्वोविष्फारयन्तन्धनुरप्रमेयम् ।
अभ्येहिमामद्यनिशाचरेन्द्रनवानरांस्त्वप्रतियोद्धुमर्हः ॥ 94 ॥
सतस्यवाक्यम्प्रतिपूर्णघोषञ्ज्याशब्दमुग्रञ्चनिशम्यराजा ।
आसाद्यसौमित्रिमवस्थितन्तङ्कोपान्वितोवाचमुवाचरक्षः ॥ 95 ॥
दिष्ट्यासिमेराघव दृष्टिमार्गम्प्राप्तोऽन्तगामीविपरीतबुद्धिः ।
अस्मिन् क्षणेयास्यसिमृत्युदेशंसम्पाद्यमानोममबाणजालैः ॥ 96 ॥
तमाहसौमित्रिरविस्मयानोगर्जन्तमुद्वृत्तसिताग्रदंष्ट्रम् ।
राजन्नगर्जन्तिमहाप्रभावाविकत्थसेपापकृतांवरिष्ठ ॥ 97 ॥
जानामिवीर्यन्तवराक्षसेन्द्रबलम्प्रतापञ्चपराक्रमञ्च ।
अवस्थितोऽहंशरचापपाणिरागच्छकिम्मोघविकत्थनेन ॥ 98 ॥
सएवमुक्तःकुपितस्ससर्जरक्षोथिपस्सप्तशरान् सुपुङ्खान् ।
तान्लक्ष्मणःकाञ्चनचित्रिपुङ्खैश्चिच्छेदबाणैर्निशिताग्रधारैः ॥ 99 ॥
तान् प्रेक्षमाणस्सहसानिकृत्तानिकृत्तभोगानिवपन्नगेन्द्रान् ।
लङ्केश्वरःक्रोधवशञ्जगामससर्जचान्यान्निशितान्पृषत्कान् ॥ 100 ॥
सबाणवर्षन्तुववर्षतीव्रंरामानुजःकार्मुकसम्प्रयुक्तम् ।
क्षुरार्धचन्द्रोत्तमकर्णिभल्लैःशरांश्चचिच्छेदनचुक्षुभेच ॥ 101 ॥
सबाणजालान्यथतानितानिमोघानिपश्यंस्त्रिदशारिराजः ।
विसिस्मियेलक्ष्मणलाघवेनपुनश्चबाणान्निशितान्मुमोच ॥ 102 ॥
सलक्ष्मणश्चापिशरान् शिताग्रान्महेन्द्रतुल्योऽशनितुल्यवेगान् ।
सन्धायचापेज्वलनप्रकाशान् ससर्जरक्षोधिपतेर्वधाय ॥ 103 ॥
सतान् प्रचिच्छेदहिराक्षसेन्द्रःछित्वाचतन्लक्ष्मणमाजघान ।
शरेणकालाग्निसमप्रभेणस्वयम्भुदत्तेनललाटदेशे ॥ 104 ॥
सलक्ष्मणोरावणसायकार्तश्चचालचापंशिधिलम्प्रगृह्य ।
पुनश्चसञ्ज्ञाम्प्रतिलभ्यकृच्छ्राच्चिच्छेदचापन्त्रिदशेन्द्रशत्रो ॥ 105 ॥
निकृत्तचापन्त्रिभिराजघानबाणैस्तदादाशरथिश्शिताग्रैः ।
ससायकार्तोविचचालराजाकृच्छ्राच्छसञ्ज्ञाम्पुनराससाद ॥ 106 ॥
सकृत्तचापःशरताडितश्चमेदार्द्रगात्रोरुधिरावसिक्तः ।
जग्राहशक्तिंस्वयमुग्रशक्तिस्स्वयम्भुदत्तांयुधिदेवशत्रुः ॥ 107 ॥
सतांसधूमानलसन्निकाशांवित्रासनींसंयतिवानराणाम् ।
चिक्षेपशक्तिन्तरसाज्वलन्तींसौमित्रयेराक्षसराष्ट्रनाथः ॥ 108 ॥
तामापतन्तीम्भरतानुजोऽस्त्रैर्जघानबाणैश्चहुताग्निकल्पैः ।
तथापिसातस्यविवेशशक्तिर्भुजान्तरन्दाशरथेर्विशालम् ॥ 109 ॥
सशक्तिमान् शक्तिसमाहतःसन् प्रजज्वालमुहुःरघुप्रवीरः ।
तंविह्वलन्तंसहसाभ्युपेत्यजग्राहराजातरसाभुजाभ्याम् ॥ 110 ॥
हिमवान् मन्दरोमेरुस्तैलोक्यंवासहामरैः ।
शक्यम्भुजाभ्यामुद्धर्तुन्नसङ् ख्येभरतानुजः ॥ 111 ॥
शक्त्याब्राह्म्याहिसौमित्रिस्ताडितास्तुस्तनान्तरे ।
विष्णोरचिन्यन्त्यंस्वम्भागमात्मानम्प्रत्यनुस्मरत् ॥ 112 ॥
ततोदानवदर्पघ्नंसौमित्रिन्देवकण्टकः ।
तम्पीडयित्वाबाहुभ्यान्नप्रभुर्लङ्घनेऽभवत् ॥ 113 ॥
अथवायुसुतःक्रुद्धोरावणंसमभिद्रवत् ।
आजघानोरसिक्रुद्धोवज्रकल्पेनमुष्टिना ॥ 114 ॥
तेनमुष्टिप्रहारेणरावणोराक्षसेश्वरः ।
जानुभ्यामपतद्भूमौचचालचपपातच ॥ 115 ॥
आस्यैश्च नेत्रैः श्रवणैः पपात रुधिरं बहु ।
विघार्णमानो निश्चेष्टो रथोपस्थ उपाचिशत् ॥ 116 ॥
विसञ्ज्ञोमूर्च्छ्रितश्चासीन्नचस्थानंसमालभत् ।
विसञ्ज्ञंरावणन्दृष्टवासमरेभीमविक्रमम् ॥ 117 ॥
ऋषयोवानराश्चैवनेदुर्देवास्सवासवाः ।
हनूमानपितेजस्वीलक्ष्मणंरावणार्धितम् ॥ 118 ॥
आनयद्राघवाभ्याशम्बाहुभ्याम्परिगृह्यतम् ।
वायुसूनोःसुहृत्त्वेनभक्त्यापरमयाचसः ॥ 119 ॥
शत्रूणामप्रकम्प्योऽपिलघुत्वमगमत्कपेः ।
तंसमुत्सृज्यसाशक्तिःसौमित्रिंयुधिदुर्जयम् ॥ 120 ॥
रावणस्यरथेतस्मिन् स्थानम्पुनरुपागता ।
आश्वस्तश्चनिशल्यश्चलक्ष्मणश्शत्रुसूदनः ॥ 121 ॥
विष्णोर्भागममीमांस्यमात्मानम्प्रत्यनुस्मरन् ।
रावणोऽपिमहातेजाःप्राप्यसञ्ज्ञाम्महाहवे ॥ 122 ॥
आददेनिशितान् बाणान् जग्राहचमहद्धमः ।
निपातितमहावीरान्द्रवन्तींवानरीञ्चमूम् ॥ 123 ॥
राघवस्तुरणेदृष्टवारावणंसमभिद्रवत् ।
अथैवमुपसङ्गम्यहनूमान्वाक्यमब्रवीत् ॥ 124 ॥
ममपृष्ठंसमारुह्यराक्षसंशास्तुमर्हसि ।
विष्णुर्यथागरुत्मन्तम्बलवन्तंसमाहितः ॥ 125 ॥
तच्छ्रुत्वाराघवोवाक्यंवायुपुत्रेणभाषितम् ।
आरुरोहमहाशूरम्बलवन्तम्महाकपिम् ॥ 126 ॥
रथस्थंरावणंसङ् ख्येददर्शमनुजाधिपः ।
तमालोक्यमहातेजाःप्रदुद्रावसराघवः ॥ 127 ॥
वैरोचनिवक्रुद्धोविष्णुरभ्युद्यतायुधः ।
ज्याशब्दमकरोत्तीव्रंवज्रनिष्पेषनिस्वनम् ॥ 128 ॥
गिरागम्भीरयारामोराक्षसेन्द्रमुवाचह ।
तिष्ठतिष्ठममत्वंहिकृत्वाविप्रियमीदृशम् ॥ 129 ॥
क्वनुराक्षसशार्दूल गतोमोक्षमवाप्स्यसि ।
यदीन्द्रवैवस्वतभास्करान्वास्वयम्भुवैश्वानरशङ्करान्वा ।
गमिष्यसित्वन्दशवादिशोवातथापिमेनाद्यगतोविमोक्ष्यसे ॥ 130 ॥
यश्चैष शक्त्या निहतस्त्वयाद्य ।
गच्छन्विषादं सहसाभ्युपेत्य ।
स एष रक्षोगणराज मृत्युः ।
सपुत्रपौत्रस्य तवाद्य युद्धे ॥ 131 ॥
एतेनचात्यद्भुतदर्शनानिशरैर्जवस्थानकृतालयानि ।
चतुर्धशान्यात्तवरायुधानिरक्षःसहस्राणिनिषूदितानि ॥ 132 ॥
राघवस्यवचश्श्रुत्वाराक्षसेन्द्रोमहाबलः ।
वायुपुत्रम्महावेगंवहन्तंराघवंरणे ॥ 133 ॥
रोषेणमहताविष्टःपूर्ववैरमनुस्मरन् ।
आजघानशरैर्दीप्स्सैःकालानलशिखोपमैः ॥ 134 ॥
राक्षसेनाहवेतस्यताडितस्यापिसायकैः ।
स्वभावतेजोयुक्तस्यभूयस्तेजोऽभ्यवर्धत ॥ 135 ॥
ततोरामोमहातेजारावणेनकृतव्रणम् ।
दृष्टवाप्लवगशार्दूलङ्क्रोधस्यवशमेयिवान् ॥ 136 ॥
तस्याभिसङ्क्रम्यरथंसचक्रंसाश्वध्वजच्छत्रमहापताकम् ।
ससारथिंसाशनिशूलखडगंरामःप्रचिच्छेदशरैस्सुपुङ्खैः ॥ 137 ॥
अथेन्द्रशत्रुन्तरसाजघानबाणेनवज्राशनिसन्निभेन ।
भुजान्तरेव्यूढसुजातरूपेवज्रेणमेरुम्भगवानिवेन्द्रः ॥ 138 ॥
योवज्रपातशनिसन्निपातान्नचक्षुभेनापिचचालराजा ।
सरामबाणाभिहतोभृशार्तश्चचालचापञ्चमुमोचवीरः ॥ 139 ॥
तंविह्वलन्तम्प्रसमीक्ष्यरामस्समाददेदीप्तमथार्थचन्द्रम् ।
तेनार्कवर्णंसहसाकिरीटञ्चिच्छेदरक्षोधिपतेर्महात्मा ॥ 140 ॥
तन्निर्विषाशीविषसन्निकाशंशान्तार्चिषंसूर्यमिवाप्रकाशम् ।
गतश्रियङ्कृत्तकिरीटकूटमुवाचरामोयुधिराक्षसेन्द्रम् ॥ 141 ॥
कृतं त्वया कर्म महत्सुभीमम् ।
हतप्रवीरश्च कृतस्त्वयाहम् ।
तस्मात्परिश्रान्त इति व्यवस्य ।
न्न त्वां शरैर्मऋत्युवशं नयामि ॥ 142 ॥
गच्छानुजानामिरणार्धितस्त्वम्प्रविश्यरात्रिञ्चरराजलङ्काम् ।
आश्वस्यनिर्याहिरथीचधन्वीतदाबलम्प्रेक्ष्यसिमेरथस्थः ॥ 143 ॥
सएवमुक्तोहतदर्पहर्षोनिकृत्तचापश्चहताश्वसूतः ।
शरार्दितःकृत्तमहाकिरीटोविवेशलङ्कांसहसास्मराजा ॥ 144 ॥
प्रविष्टेरजनीचरेन्द्रेमहाबलेदाववदेवशत्रौ ।
हरीन् विशल्यान् सहलक्ष्मणेनचकाररामःपरमाहवाग्रे ॥ 145 ॥
तस्मिन्प्रभन्नेत्रिदशेन्द्रशतौसुरासुराभूतगणादिशश्च ।
ससागरास्सर्षिमहोरगाश्चतथैवभूम्यम्बुचराश्चप्रहृष्टाः ॥ 146 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे एकोनषष्टितमस्सर्गः ॥