श्रीमद्वाल्मीकीय रामायणे सुन्दरकाण्डम् ।
अथ एकोनत्रिंशस्सर्गः ।
तथागतां तां व्यथितामनिन्दितां व्यपेतहर्षां परिदीनमानसाम् ।
शुभां निमित्तानि शुभानि भेजिरे नरं श्रिया जुष्टमिवोपजीविनः ॥ 1 ॥
तस्याः शुभं वाममरालपक्ष्म राजीवृतं कृष्णविशालशुक्लम् ।
प्रास्पन्दतैकं नयनं सुकेश्या मीनाहतं पद्ममिवाभिताम्रम् ॥ 2 ॥
भुजश्च चार्वञ्चितपीनवृत्तः परार्थ्यकालागरुचन्दनार्हः ।
अनुत्तमेनाध्युषितः प्रियेण चिरेण वामः समवेपताऽशु ॥ 3 ॥
गजेन्द्रहस्तप्रतिमश्च पीन स्तयोर्द्वयोः सम्हतयोः सुजातः ।
प्रस्पन्दमानः पुनरूरुरस्या रामं पुरस्तात् स्थितमाचचक्षे ॥ 4 ॥
शुभं पुनर्हेमसमानवर्ण मीषद्रजोध्वस्तमिवामलाक्ष्याः ।
वास स्स्थिताया श्शिखराग्रदन्त्याः किञ्चित्परिस्रंसत चारुगात्य्राः ॥ 5 ॥
एतैर्निमित्तैरपरैश्च सुभ्रूः सम्बोधिता प्रागपि साधु सिद्धैः ।
वातातपक्लान्तमिव प्रणष्टं वर्षेण बीजं प्रतिसञ्जहर्ष ॥ 6 ॥
तस्याः पुनर्बिम्बफलाधरोष्ठं स्वक्षिभ्रुकेशान्तमरालपक्ष्म ।
वक्त्रं बभासे सितशुक्लदंष्ट्रं राहोर्मुखाच्चन्द्र इव प्रमुक्तः ॥ 7 ॥
सा वीतशोका व्यपनीततन्द्री शान्तज्वरा हर्षविबुद्धसत्त्वा ।
अशोभतार्या वदनेन शुक्ले शीतांशुना रात्रिरिवोदितेन ॥ 8 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे एकोनत्रिंशस्सर्गः ॥