View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

1.70 बालकाण्ड - सप्ततितम सर्गः

श्रीमद्वाल्मीकीय रामायणे बालकाण्डम् ।
अथ सप्ततितमस्सर्गः ।

ततः प्रभाते जनकः कृतकर्मा महर्षिभिः ।
उवाच वाक्यं वाक्यज्ञ श्शतानन्दं पुरोहितम् ॥ 1 ॥

भ्राता मम महातेजा यवीयानतिधार्मिकः ।
कुशध्वज इति ख्यातः पुरीमध्यवसच्छुभाम् ॥ 2 ॥

वार्याफलकपर्यन्तां पिबन्निक्षुमतीं नदीम् ।
साङ्काश्यां पुण्यसङ्काशां विमानमिव पुष्पकम् ॥ 3 ॥

तमहं द्रष्टुमिच्छामि यज्ञगोप्ता स मे मतः ।
प्रीतिं सोऽपि महातेजा इमां भोक्ता मया सह ॥ 4 ॥

एवमुक्ते तु वचने शतानन्दस्य सन्निधौ ।
आगताः केचिदव्यग्रा जनकस्तान् समादिशत् ॥ 5 ॥

शासनात्तु नरेन्द्रस्य प्रययुश्शीघ्रवाजिभिः ।
समानेतुं नरव्याघ्रं विष्णुमिन्द्राज्ञया यथा ॥ 6 ॥

साङ्काश्यां ते समागत्य ददृशुश्च कुशध्वजम् ।
न्यवेदयन्यथावृत्तं जनकस्य च चिन्तितम् ॥ 7 ॥

तद्वृत्तं नृपति श्शृत्वा दूतश्रेष्ठैर्महाबलैः ।
अज्ञायाऽथ नरेन्द्रस्य आजगाम कुशध्वजः ॥ 8 ॥

स ददर्श महात्मानं जनकं धर्मवत्सलम् ।
सोऽभिवाद्य शतानन्दं राजानं चापि धार्मिकम् ॥ 9 ॥

राजार्हं परमं दिव्यमासनं चाऽध्यरोहत ।
उपविष्टावुभौ तौ तु भ्रातरावतितेजसौ ॥ 10 ॥

प्रेषयामासतुर्वीरौ मन्त्रिश्रेष्ठं सुदामनम् ।
गच्छ मन्त्रिपते शीघ्रमैक्ष्वाकुममितप्रभम् ॥ 11 ॥

आत्मजैस्सह दुर्धर्षमानयस्व समन्त्रिणम् ।
औपकार्यां स गत्वा तु रघूणां कुलवर्धनम् ॥ 12 ॥

ददर्श शिरसा चैनमभिवाद्येदमब्रवीत् ।
अयोध्याधिपते वीर वैदेहो मिथिलाधिपः ॥ 13 ॥

स त्वां द्रष्टुं व्यवसितस्सोपाध्यायपुरोहितम् ।
मन्त्रिश्रेष्ठवच श्शृत्वा राजा सर्षिगणस्तदा ॥ 14 ॥

सबन्धुरगमत्तत्र जनको यत्र वर्तते ।
स राजा मन्त्रिसहित स्सोपाध्यायः सबान्धवः ॥ 15 ॥

वाक्यं वाक्यविदां श्रेष्ठो वैदेहमिदमब्रवीत् ।
विदितं ते महाराज इक्ष्वाकुकुलदैवतम् ॥ 16 ॥

वक्ता सर्वेषु कृत्येषु वसिष्ठो भगवानृषिः ।
विश्वामित्राभ्यनुज्ञातस्सह सर्वैर्महर्षिभिः ॥ 17 ॥

एष वक्ष्यति धर्मात्मा वसिष्ठो मे यथाक्रमम् ।
एवमुक्त्वा नरश्रेष्ठे राज्ञां मध्ये महात्मनाम् ॥ 18 ॥

तूष्णीम्भूते दशरथे वसिष्ठो भगवानृषिः ।
उवाच वाक्यं वाक्यज्ञो वैदेहं सपुरोधसम् ॥ 19 ॥

अव्यक्तप्रभवो ब्रह्मा शाश्वतो नित्य अव्ययः ।
तस्मान्मरीचि स्सञ्जज्ञे मरीचेः काश्यपः सुतः ॥ 20 ॥

विवस्वान् काश्यपाज्जज्ञे मनुर्वैवस्वत स्स्मृतः ।
मनुः प्रजापतिः पूर्वमिक्ष्वाकुस्तु मनोस्सुतः ॥ 21 ॥

तमिक्ष्वाकुमयोध्यायां राजानं विद्धि पूर्वकम् ।
इक्ष्वाकोस्तु सुतश्श्रीमान् कुक्षिरित्येव विश्रुतः ॥ 22 ॥

कुक्षेरथात्मजः श्रीमान् विकुक्षिरुदपद्यत ।
विकुक्षेस्तु महातेजा बाणः पुत्रः प्रतापवान् ॥ 23 ॥

बाणस्य तु महातेजा अनरण्यः प्रतापवान् ।
अनरण्यात्पृथुर्जज्ञे त्रिशङ्कुस्तु पृथोस्सुतः ॥ 24 ॥

त्रिशङ्कोरभवत्पुत्रो दुन्दुमारो महायशाः ।
युवनाश्वसुतस्त्वासीन्मान्धाता पृथिवीपतिः ॥ 25 ॥

मान्धातुस्तु सुत श्श्रीमान् सुसन्धिरुदपद्यत ।
सुसन्धेरपि पुत्रौ द्वौ ध्रुवसन्धिः प्रसेनजित् ॥ 26 ॥

यशस्वी ध्रुवसन्धेस्तु भरतो नाम नामतः ।
भरतात्तु महातेजा असितो नाम जातवान् ॥ 27 ॥

यस्यैते प्रतिराजान उदपद्यन्त शत्रवः ।
हैहयास्तालजङ्घाश्च शूराश्च शशिबिन्दवः ॥ 28 ॥

तांस्तु स प्रतियुध्यन् वै युद्धे राजा प्रवासितः ।
हिमवन्तमुपागम्य भृगुप्रस्रवणेऽवसत् ॥ 29 ॥

असितोऽल्पबलो राजा मन्त्रिभिस्सहितस्तदा ।
द्वे चास्य भार्ये गर्भिण्यौ बभूवतुरिति श्रुतम् ॥ 30 ॥

एका गर्भविनाशाय सपत्न्यै सगरं ददौ ।
तत श्शैलवरं रम्यं बभूवाभिरतो मुनिः ॥ 31 ॥

भार्गवश्च्यवनो नाम हिमवन्तमुपाश्रितः ।
तत्रैका तु महाभागा भार्गवं देववर्चसम् ॥ 32 ॥

ववन्दे पद्मपत्राक्षी काङ्क्षन्ती सुतमात्मनः ।
तमृषिं साऽभ्युपागम्य कालिन्दी चाभ्यवादयत् ॥ 33 ॥

स तामभ्यवदद्विप्रः पुत्रेप्सुं पुत्रजन्मनि ।
तव कुक्षौ महाभागे सुपुत्रस्सुमहाबलः ॥ 34 ॥

महावीर्यो महातेजा अचिरात्सञ्जनिष्यति ।
गरेण सहित श्श्रीमान् मा शुचः कमलेक्षणे ॥ 35 ॥

च्यवनं तु नमस्कृत्य राजपुत्री पतिव्रता ।
पतिशोकातुरा तस्मात्पुत्रं देवी व्यजायत ॥ 36 ॥

सपत्न्या तु गरस्तस्यै दत्तो गर्भजिघांसया ।
सह तेन गरेणैव जातः स सगरोऽभवत् ॥ 37 ॥

सगरस्यासमञ्जस्तु असमञ्जात्तथांऽशुमान् ।
दिलीपोंऽशुमतः पुत्रो दिलीपस्य भगीरथः ॥ 38 ॥

भगीरथात्ककुत्स्थश्च ककुत्स्थस्य रघुस्सुतः ।
रघोस्तु पुत्रस्तेजस्वी प्रवृद्धः पुरुषादकः ॥ 39 ॥

कल्माषपादो ह्यभवत्तस्माज्जातस्तु शङ्खणः ।
सुदर्शनः शङ्घणस्य अग्निवर्ण स्सुदर्शनात् ॥ 40 ॥

शीघ्रगस्त्वग्निवर्णस्य शीघ्रगस्य मरु स्सुतः ।
मरोः प्रशुश्रुकस्त्वासीदम्बरीषः प्रशुश्रृकात् ॥ 41 ॥

अम्बरीषस्य पुत्रोऽभून्नहुषः पृथिवीपतिः ।
नहुषस्य ययातिस्तु नाभागस्तु ययातिजः ॥ 42 ॥

नाभागस्य बभूवाजः अजाद्दशरथोऽभवत् ।
अस्माद्दशरथाज्जातौ भ्रातरौ रामलक्ष्मणौ ॥ 43 ॥

आदिवंशविशुद्धानां राज्ञां परमधर्मिणाम् ।
इक्ष्वाकुकुलजातानां वीराणां सत्यवादिनाम् ॥ 44 ॥

रामलक्ष्मणयोरर्थे त्वत्सुते वरये नृप ।
सदृशाभ्यां नृपश्रेष्ठ सदृशे दातुमर्हसि ॥ 45 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकाण्डे सप्ततितमस्सर्गः ॥




Browse Related Categories: