View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

4.9 किष्किन्धाकाण्ड - नवम सर्गः

श्रीमद्वाल्मीकीय रामायणे किष्किन्धाकाण्डम् ।
अथ नवमस्सर्गः ।

वाली नाम मम भ्राता ज्येष्ठश्शत्रुनिषूदनः ।
पितुर्बहुमतो नित्यं ममापि च तथा पुरा ॥ 1 ॥

पितर्युपरतेऽस्माकं ज्येष्ठोऽयमिति मन्त्रिभिः ।
कपीनामीश्वरो राज्ये कृतः परमसम्मतः ॥ 2 ॥

राज्यं प्रशासतस्तस्य पितृपैतामहं महत् ।
अहं सर्वेषु कालेषु प्रणतः प्रेष्यवत् स्थितः ॥ 3 ॥

मायावी नाम तेजस्वी पूर्वजो दुन्दुभेः सुतः ।
तेन तस्य महद्वैरं स्त्रीकृतं विश्श्रुतं पुरा ॥ 4 ॥

स तु सुप्तजने रात्रौ किष्किन्धाद्वारमागतः ।
नर्दति स्म सुसंरब्धो वालिनं चाह्वयद्रणे ॥ 5 ॥

प्रसुप्तस्तु मम भ्राता नर्दितं भैरवस्वनम् ।
श्रुत्वा न ममृषे वाली निष्पपात जवात्तदा ॥ 6 ॥

स तु वै निस्सृतः क्रोधात्तं हन्तुमसुरोत्तमम् ।
वार्यमाणस्तत स्त्रीभिर्मया च प्रणतात्मना ॥ 7 ॥

स तु निर्धूय ताः सर्वा निर्जगाम महाबलः ।
ततोऽहमपि सौहार्दान्निस्सृतो वालिना सह ॥ 8 ॥

स तु मे भ्रातरं दृष्ट्वा मां च दूरादवस्थितम् ।
असुरो जातसन्त्रासः प्रदुद्राव ततो भृशम् ॥ 9 ॥

तस्मिन् द्रवति सन्त्रस्ते ह्यावां द्रुततरं गतौ ।
प्रकाशश्च कृतो मार्गश्चन्द्रेणोद्गच्छता तदा ॥ 10 ॥

स तृणैरावृतं दुर्गं धरण्या विवरं महत् ।
प्रविवेशासुरो वेगादावामासाद्य विष्ठितौ ॥ 11 ॥

तं प्रविष्टं रिपुं दृष्ट्वा बिलं रोषवशं गतः ।
मामुवाच तदा वाली वचनं क्षुभितेन्द्रियः ॥ 12 ॥

इह त्वं तिष्ठ सुग्रीव बिलद्वारि समाहितः ।
यावत्तत्र प्रविश्याहं निहन्मि सहसा रिपुम् ॥ 13 ॥

मया त्वेतद्वचश्श्रुत्वा याचितस्स परन्तपः ।
शापयित्वा तु मां पद्भ्यां प्रविवेश बिलं महत् ॥ 14 ॥

तस्य प्रविष्टस्य बिलं साग्रस्संवत्सरो गतः ।
स्थितस्य मम बिलद्वारि स कालो व्यत्यवर्तत ॥ 15 ॥

अहं तु नष्टं ज्ञात्वा तं स्नेहादागतसम्भ्रमः ।
भ्रातरं न च पश्यामि पापाशङ्कि च मे मनः ॥ 16 ॥

अथ दीर्घस्य कालस्य बिलात्तस्माद्विनिस्सृतम् ।
सफेनं रुधिरं रक्तमहं दृष्ट्वा सुदुःखितः ॥ 17 ॥

नर्दतामसुराणां च ध्वनिर्मे श्रोत्रमागतः ।
निरस्तस्य च सङ्ग्रामे क्रोशतोनिस्स्वनो गुरोः ॥ 18 ॥

अहं त्ववगतो बुद्ध्या चिह्नैस्तैर्भ्रातरं हतम् ।
पिधाय च बिलद्वारं शिलया गिरिमात्रया ॥ 19 ॥

शोकार्तश्चोदकं कृत्वा किष्किन्धामागतस्सखे ।
गूहमानस्य मे तत्त्वं यत्नतो मन्त्रिभिश्श्रुतम् ॥ 20 ॥

ततोऽहं तैस्समागम्य सम्मतैरभिषेचितः ।
राज्यं प्रशासतस्तस्य न्यायतो मम राघव ॥ 21 ॥

आजगाम रिपुं हत्वा वाली तमसुरोत्तमम् ।
अभिषिक्तं तु मां दृष्ट्वा वाली संरक्तलोचनः ।
मदीयान्मन्त्रिणो बद्ध्वा परुषं वाक्यमब्रवीत् ॥ 22 ॥

निग्रहेऽपि समर्थस्य तं पापं प्रति राघव ।
न प्रावर्तत मे बुद्धिर्भ्रातुर्गौरवयन्त्रिता ॥ 23 ॥

हत्वा शत्रुं स मे भ्राता प्रविवेश पुरं तदा ॥ 24 ॥

मानयंस्तं महात्मानं यथावच्चाभ्यवादयम् ।
उक्ताश्च नाशिषस्तेन सन्तुष्टेनान्तरात्मना ॥ 25 ॥

नत्वा पादावहं तस्य मकुटेनास्पृशं प्रभो अपि वाली मम क्रोधान्न प्रसादं चकार सः ॥ 26 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे नवमस्सर्गः ॥




Browse Related Categories: